10---nyAyashAstram/05---visheShaNaM-visheShyam

From Samskrita Vyakaranam
Revision as of 12:58, 12 May 2021 by Ramapriya (talk | contribs) (Fixed spacing)

10---nyAyashAstram/05---visheShaNaM-visheShyam
Jump to navigation Jump to search

ध्वनिमुद्रणानि--

UMD varga

१) visheShya-visheShaNayoH-arthaH_+_guNa-vAcaka-shabdAH-trividhAH_+_guNa-guNivAcaka-artha-parivarthanam--matup-tva_2015-11-07

२) panca-visheShaNAni---guNaH-jAtiH-dravyam-karma-abhAvaH_+_unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api_+_unnata-shabdasya-siimA_2015-11-14

३) visheShaNatvena-samavAyaH-visheShaH-ca_+_loke-prayogaH-bhinnaH_+_tadvAcaka-shabdaH_+_dhanaM-dhanavattvaM-ca_2015-11-21

४) dhanavattvasya-pakShadvayam---dhanam-eva_ca_dhanAdikaraNatvam_+_lakShaNa-samanvAye-AdhArAdheya-bhAvaH_+_pRuthivii-jalaM-tejaH---sharIrAdivibhAgaH_2015-12-05


SSVT varga

१) visheShaNa-visheShyayoH-arthaH_+_guNa-vAcaka-shabdAH-trividhAH_2015-10-24

२) guNa-guNivAcaka-artha-parivarthanam--matup-tva_+_bhUtalasya-trINi-visheShaNAni_+_unnataH-guNivAcakaH-kintu guNa-vAcakaH-api_2015-10-31

३) panca-visheShaNAni---guNaH-jAtiH-dravyam-karma-abhAvaH_+_unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api_2015-11-07

४) panca-visheShaNAni_+_unnataH-guNivAcakaH-kintu-visheShaNa-vAcakaH-api_+_unnata-shabdasya-siimA_2015-11-14

५) loke-prayogaH-bhinnaH_+_tadvAcaka-shabdaH_+_dhanaM-dhanavattvaM-ca_2015-11-21  

६) dhanavattvam-ityasya-pakShadvayaM----dhanam-eva_ca_dhanAdikaraNatvam_+_lakShaNa-samanvAye-AdhArAdheya-bhAvaH_2015-12-05


पाठः


"सुन्दरः बालकः गच्छति" इति वाक्ये किं पदं विशेषणं, किञ्च विशेष्यम्‌ ?

इति चेत्‌, 'सुन्दरः' विशेषणं, 'बालकः' विशेष्यम्‌ इति सामान्यतया वदामः |


अधुना, कश्चन घटः भूतले अस्ति; तदर्थं "भूतलं घटवत्‌" इति उच्यते | अत्र किं पदं विशेषणम्‌ ? सामान्यतया घटवत्‌ विशेषणम्‌ इति वदामः | तत्र विद्याधरी इति ग्रन्थे लिखितम्‌ अस्ति यत्‌ "भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्‌" (p. 34) | तर्हि किं "भूतलं घटवत्‌" इति वाक्ये घटवत्‌ अपि विशेषणं, घटः अपि विशेषणम्‌ ?

अस्य समाधानार्थं वत्त्वम्‌ इति विषये चर्चा अपेक्षिता |


भूतलं, घटः, घटत्वम्‌ | भूतले कश्चन घटः अस्ति; घटे घटत्वम्‌ अस्ति | एवञ्च स्तरत्रयं वर्तते—

घटत्वम्‌

घटः

भूतलम्‌


सर्वोपरितने स्तरे घटत्वम्‌ अस्ति | मध्यमस्तरे घटः अस्ति | अधोभागे भूतलम्‌ अस्ति | उपरि गमनार्थं त्व-प्रत्ययं योजयामः; अधोभागे गमनार्थं मतुप्‌ (पुंसि -वान्‌, स्त्रियां -वती, नपुंसके -वत्‌) इति प्रत्ययं योजयामः | अतः घटत्वम्‌ इत्यस्मात्‌ घटस्य दिशि गन्तुम्‌ इच्छामश्चेत्‌, मतुप्‌ योजयामः | मतुप्‌-प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते | घटत्वम्‌ + मतुप्‌ → घटत्ववत्‌; घटवाचकपदम्‌ अतः पुंसि घटत्ववान्‌ | घटत्ववान्‌ घटः | घटात्‌ भूतलस्य दिशि गन्तुम्‌ इच्छामश्चेत्‌, मतुप्‌ योजयामः | घटः + मतुप्‌ → घटवत्‌; भूतलवाचकपदम्‌ अतः नपुंसके घटवत्‌ एव | घटवत्‌ भूतलम्‌ | घटवत्‌ इत्यस्य भावसिद्ध्यर्थं त्व-प्रत्ययं योजयामः | घटवत्‌ + त्व → घटवत्त्वम्‌ | घटवत्त्वं घटस्य स्तरे वर्तते; नियतलिङ्गत्वात्‌ नपुंसके घटवत्त्वम्‌ एव | पुनः अधोभागे गमनार्थं मतुप्‌ योजयामः | घटवत्त्वम्‌ + मतुप्‌ → घटवत्त्ववत्‌ | घटवत्त्ववत्‌ घटवत्त्वस्य आश्रयः अपि च भूतलवाचकपदम्‌, अतः अधोभगे वर्तते | तर्हि आहत्य परिणामः एवम्‌—


उपरिस्तरे—                    घटत्वम्


मध्यमस्तरे—     घटत्ववान्‌      घटः      घटवत्त्वम्‌

अधमस्तरे—      घटवत्‌      भूतलम्‌       घटवत्त्ववत्‌


विशेषणस्य कार्यं किम्‌ ?


विशेषणं विशेष्यम्‌ अन्येभ्यः वस्तुभ्यः पृथक्‌ करोति |

उन्नतः वृक्षः |


उन्नत-शब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम्‌ अन्येभ्यः वृक्षेभ्यः पृथक्‌ करोति, इति सामान्यम्‌ अवगमनम्‌ |


विशेषण-विशेष्ययोः अर्थः


विशेषण-विशेष्यम्‌ इति शब्दद्वयम्‌ अपि अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम्‌ | अयं सिद्धान्तः मुख्यः |


विशेष्यः पदार्थः न तु पदम् | तर्हि पदं किम्‌ ? विशेष्यवाचकम्‌ | यथा वृक्षः इति विशेष्यं कदापि पदं न भवति | वृक्षः विशेष्यः | वृक्षः लोके जीवित-वस्तु यत्‌, सः पदार्थः वृक्षः | सः लोके यः प्राणी वृक्षः, स एव विशेष्यः | अतः 'वृक्ष'-शब्दः विशेष्य-वाचकः | न तु स्वयं विशेष्यम्‌ |


विशेष्य = वि + शिष्‌ + ण्यत्‌ |


शिष्लृ विशेषणे, रुधादिगणे | अनुबन्धरहितधातुः, लोके शिष्‌ | लटि शिनष्टि | वि-उपसर्गपूर्वकः विशिष्‌, लटि कर्तरिप्रयोगे विशिनष्टि | कर्मणिप्रयोगे विशिष्यते |


ऋहलोर्ण्यत्‌ (३.१.१२४) = ऋवर्णान्तेभ्यः हलन्तेभ्यः च धातुभ्यः कर्मण्यर्थे ण्यत्‌-प्रत्ययो भवति | णकारतकारयोः इत्‌-संज्ञा, 'य' अवशिष्यते |


ण्यत्‌ णित्‌ | णित्त्वात्‌ द्वे कार्ये—


अचो ञ्णिति (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः ञिति णिति प्रत्यये परे | कृ + य → कार्यम्‌ | हृ‍ + य → हार्यम्‌ | धृ + य → धार्यम्‌ |


अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | वच्‌ + य → वाक्यम्‌ | पच्‌ + य → पाक्यम्‌ |

ण्यत्‌ आर्धधातुक-प्रत्ययः | आर्धधातुकत्वात्‌ एकं कार्यम्‌—


पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | छिद्‌ + य → छेद्यम्‌ | शिष्‌ + य → शेष्यम्‌ |

ण्यत्‌-प्रत्ययेन यः शब्दः निष्पन्नः सः विशेष्यनिघ्नः अतः त्रिषु लिङ्गेषु भवति | विशेष्यः, विशेष्या, विशेष्यम्‌ |


पूर्वोक्त-रीत्या, विशेष्यम्‌ अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम्‌ | अतः वृक्षः पदं न अपि तु प्राणी | तथैव तस्य विशेषणं—येन सः प्राणी विशिष्यते, पृथक्‌ क्रियते—तत्‌ विशेषणम्‌ अपि पदं न कदापि भवति | प्राणी वृक्षः स्वस्य गुणेन विशिष्यते | अतः यः गुणः प्राणिनि वृक्षे अस्ति, सः गुणः एव विशेषणम्‌ | "उन्नतः वृक्षे अस्ति" इति वक्तुं शक्यते वा ? चिन्तयतु | वृक्षः स्वयम् उन्नतः भवति किल | वृक्षे उन्नतः इति तु नैव उच्यते | तर्हि उन्नतवृक्षे विद्यमानः गुणः कः ? औन्नत्यम्‌ | औन्नत्यं वृक्षे अस्ति | औन्नत्य-गुणेन वृक्षः विशिष्यते, भिद्यते, अतः औन्नत्यम्‌ इति गुणः एव विशेषणम्‌ |


अग्रे | यथा वृक्षः इत्युक्ते लोके यः प्राणी विशेष्यः, अपि च यथा 'वृक्ष'-शब्दः तस्य विशेष्य-वाचकः ; तथैव तस्मिन वृक्षे यः गुणः औन्नत्यं, तस्य विशेषण-वाचकः उन्नत-शब्दः | इत्थञ्च 'वृक्ष'-शब्दः विशेष्य-वाचकः; 'उन्नत'-शब्दः विशेषण-वाचकः |


आहत्य वृक्षः यत्‌ वस्तु, तत्‌ विशेष्यम्‌; 'वृक्ष'-शब्दः तस्य विशेष्य-वाचकः (न तु स्वयं विशेष्यम्‌) | औन्नत्यं यः गुणः, सः विशेषणम्‌; 'उन्नत'-शब्दः तस्य विशेषण-वाचकः (न तु स्वयं विशेषणम्‌) |


विशेषण-वाचक-शब्दाः सामान्यतया गुण-विषये भवन्ति, अतः गुण-वाचकाः इत्यपि उच्यन्ते | (अत्र न्यायशास्त्रस्य २४ गुणाः इति न; अत्र गुणः सामान्यार्थे अस्ति, यथा दैर्घ्यम्‌, विस्तारः, औन्नत्यम्‌ [length, width, height] |) यथा, उन्नत-शब्दः इति विशेषण-वाचक-शब्दः 'गुणं वदति', 'औन्नत्यं वदति', अतः गुण-वाचकः इत्यपि उच्यते |


गुण-वाचक-शब्दाः त्रिविधाः (ये गुण-विषये वदन्ति)


१) केवलं गुण-वाचकाः | शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम्‌ | गुणम्‌ एव वदन्ति |

२) केवलं गुणि-वाचकाः | उन्नतः, विशालः, उत्तमः, सुन्दरः | गुणवद्वाचकाः |

३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः |


१) केवलं गुण-वाचकशब्दाः | एभिः शब्दैः गुण-विषये एव सूचना प्राप्यते | गुणस्य आश्रयस्य विषये न काऽपि सूचना | 'शक्तिः'— अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते | इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन्‌ अस्ति— शक्ति-शब्देन एतादृशी न काऽपि सूचना लभ्यते |

२) केवलं गुणि-वाचकशब्दाः | एषां विषये बहूनां भ्रमो भवति यतोहि एकदृष्ट्या गुणिवाचकाः एव; अपरया दृष्ट्या 'केवलं गुणिवाचकाः' इति वक्तुं न शक्नुमः |


यथा उन्नत-शब्दः | उन्नतः इत्युक्तौ औन्नत्य-गुण-विशिष्टः | औन्नत्य-गुणः यस्मिन्‌ अस्ति, तादृशः कश्चन | सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन्‌ अस्ति, तादृशः कश्चन |

एते गुण-विशिष्ट-गुणिवाचकाः | नाम तेन गुणेन युक्तं गुणिनं बोधयति |


उन्नतः = औन्नत्यं यः गुणः, तादृशगुणेन युक्तं यं कमपि पदार्थं, गुणिनं बोधयति | यथा, उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति |


प्रश्नः— द्विवारं वदनस्य का आवश्यकता ? "गुण-विशिष्ट-गुणिवाचकः" | गुणी इत्युक्ते यस्मिन्‌ सः गुणः अस्ति एव; तर्हि पुनः 'गुण-विशिष्ट' इत्यनेन को लाभः ?


उत्तरम्‌— वस्तुतः न अपेक्षितम्‌ | किन्तु स्पष्टतार्थम्‌ उच्यते, तावदेव | “गुणी" इत्यनेन 'गुण-विशिष्ट' इत्येव अर्थः; “गुणः अस्मिन्‌ अस्ति" इत्येव गुणी | कश्चन गुणः अस्ति; तादृशगुणेन विशिष्टम्‌ एकं पदार्थं बोधयति | तथापि भ्रमस्य दूरीकरणे महान्‌ लाभः | कथम्‌ इति अग्रे वक्ष्यते |


३) गुणवाचकाः अपि, गुणिवाचकाः अपि | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | यथा शुक्लः, कृष्णः, नीलः इति शब्दाः |


शुक्लः गुणवाचकः इत्युक्ते "white color” इति वक्तव्यं चेत्‌, 'शुक्लः' | अस्मिन्‌ अर्थे पुंलिङ्गे एव प्रयोक्तव्यम्‌ |

शुक्लवर्णेन युक्तः कश्चन इति चेत्‌ गुणिवाचकः | अस्मिन्‌ अर्थे त्रिषु लिङ्गेषु | श्क्लः घटः, शुक्ला शाटिका, श्क्लं पुष्पम्‌ |


रसवाचकशब्दाः अपि तथा | लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः |

एते शब्दाः गुणवाचकाः चेत्‌ नियतलिङ्गाः, पुंलिङ्गे एव भवन्ति |

यथा मधुरः गुणवाचकः, 'sweet taste' इत्यर्थः | पुंलिङ्गे एव |

मधुररस-युक्तः इति चेत्‌ गुणिवाचकः, त्रिषुलिङ्गेषु | मधुरः शाकः, मधुरा शर्करा, मधुरम्‌ ओदनम्‌ |


अर्थस्य परिवर्तनार्थम्‌


१) केवलं गुणवाचक-शब्दः → मतुबर्थक-प्रत्ययस्य संयोजनेन → गुणिवाचक-शब्दः निष्पन्नः |

यथा—

श्रद्धा‌ → श्रद्धावान्‌

बलम्‌ → बलवान्‌/बली

धैर्यम्‌ → धैर्यवान्‌

संयमः → संयमी

उत्साहः → उत्साही


२) केवलं गुणिवाचक-शब्दः → भावार्थक-प्रत्ययस्य (त्व, तल्‌, ष्यञ्‌ इत्यस्य) संयोजनेन → गुणवाचक-शब्दः निष्पन्नः |

यथा—

उत्तमः → उत्तमत्वम्‌, उत्तमता, औन्नत्यम्‌

विशालः → विशालत्वम्‌, विशालता, वैशाल्यम्‌

सुन्दरः → सुन्दरत्वम्‌, सुन्दरता, सौन्दर्यम्‌


३) यः गुणवाचकः अपि, गुणिवाचकः अपि, तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः नापेक्षितः | किन्तु मतुबर्थीयाः/भावार्थीयाः प्रयोक्तुं शक्याः |

पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ |

पीतः इति गुणः

पीतत्वम्‌ इति गुणः

वस्त्रम्‌ पीतं वस्त्रम्‌ → पीतम्‌ इति गुणिवाचकशब्दात्‌ त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः → पीतत्वम्‌ वस्त्रम्‌


अनेन पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ


तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |

पीतः इति गुणः

पीतः इति गुणः  →  तस्मात्‌ गुणवाचकशब्दात्‌ मतुप्‌-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत्‌

पीतः इति गुणः

पीतं वस्त्रम्‌ पीतवत्‌ वस्त्रम्‌

अनेन पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |


पुनस्स्मरणम्‌


उन्नतः वृक्षः | उन्नतः गुणिनं (वृक्षं) बोधयति— वृक्षवाचकशब्दः | तर्हि विशेषणं किम्‌ ?

विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यम्‌ | तर्हि पदं किम्‌ ? विशेष्यवाचकम्‌ | तथैव उन्नतः वस्तुतः विशेषणवाचकः | विशेषणम् औन्नत्यम्‌ | औन्नत्यम्‌ इत्यनेन वृक्षः विशिष्यते, पृथक्‌ क्रियते | अन्येभ्यः वृक्षेभ्यः पृथक्‌ कुर्मः अनेन औन्नत्य-गुणेन | “येन विशिष्यते"— उन्नतः तथा नास्ति | किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषणम् |


समानाधिकरणम्‌ असमानाधिकरणं च


विशेषण-विशेष्ययोः समानाधिकरणं न स्यात्‌ | यथा अत्र उन्नतः वृक्षः | उन्नतः गुणिवाचक-शब्दः अतः वृक्षमेव बोधयति | द्वयोः पदयोः समानविभक्तिकत्वम्‌, एकार्थबोधकत्वं च | अनेन समानाधिकरणम्‌ | तस्मात्‌ उन्नतः इत्युक्ते वृक्ष एव अतः उन्नत-शब्दः वृक्षं विशेषयितुं न शक्नोति | उन्नतः, वृक्षः च समानवस्तु | कथं वा उन्नत-शब्देन वृक्षः भिद्येत ? किन्तु औन्नत्यं भिन्नवस्तु | औन्नत्य-वृक्षयोः एकार्थबोधकत्वं नास्ति, समानाधिकरणं नास्ति | औन्नत्यं भिन्नं, वृक्षः भिन्नः, अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यम्‌ अस्ति |


वृक्षस्य विशेषणद्वयम्‌


१) औन्नत्यम्‌ इति गुणः, वृक्षस्य एकं विशेषणम्‌ | तस्य कार्यम्‌ = औन्नत्यम्‌ इति गुणः अस्मिन्‌ वृक्षे अस्ति, अपरेषु वृक्षेषु नास्ति अतः इमं वृक्षम्‌ अन्येभ्यः वृक्षेभ्यः पृथक्‌ करोति |

२) वृक्षत्वम्‌ इति जातिः, वृक्षस्य द्वितीयं विशेषणम्‌ | तस्य कार्यम्‌ = सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम्‌ इति विशेषणं विजातीयेभ्यः सर्वान्‌ वृक्षान्‌ पृथक्‌ करोति | वृक्षः गृहात्‌ भिन्नः, यानात्‌ भिन्नः, मनुष्यात्‌ भिन्नः इति कथम्‌ ? वृक्षे वृक्षत्वम्‌ अस्ति; गृहे, याने, मनुष्ये च वृक्षत्वं नास्ति | अतः वृक्षत्वम्‌ इति जात्या वृक्षः भिद्यते; वृक्षत्वम्‌ इति जातिः वृक्षम्‌ अन्येभ्यः द्रव्येभ्यः पृथक्‌ करोति |

तर्हि विशेषणद्वयम्‌ अस्ति— गुणः, जातिः च | वस्तुतः ततः अधिकविध-विशेषणानि अपि सम्भवन्ति |


अधिकविध-विशेषणानि


विशेषणम्‌ इत्युक्ते येन विशिष्यते | अतः येन केनापि एकं वस्तु अन्येभ्यः वस्तुभ्यः विशिष्यते, तत्‌ विशेषणम्‌

भूतले नीलः इति गुणः, भूतलत्वम्‌ इति जातिः, घटः इति द्रव्यम्‌ | त्रिभिः भूतलं विशिष्यते, ततः अत्र विशेषणत्रयम्‌ अस्ति |

                                    भूतलम्‌

           गुणः        

जातिः     

 द्रव्यम्‌

विशेषणानि नीलः भूतलत्वम्‌ घटः


बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवाय-विषये विशेष-विषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम्‌ |


विशेषणानां विशेषणवाचकपदानि


बालके विद्यमान-औन्नत्यस्य विशेषणवाचकपदं उन्नतः | बालके विद्यमान-धनस्य विशेषणवाचकपदं धनवान्‌ | बालके विद्यमान-लेखन-क्रियायाः विशेषणवाचकपदं लेखनक्रियावान्‌ | बालके विद्यमान-घटाभावस्य विशेषणवाचकपदं घटाभाववान्‌ | बालके विद्यमान-बालकत्वस्य विशेषणवाचकपदं बालकः एव |


एक एव विशेषणम्‌


यदा कोऽपि केवलं "बालकः" वदति, तदा विशेषणं केवलं बालकत्वम्‌ एव | तथा च तत्र बालके विद्यमान-बालकत्वस्य विशेषणवाचकपदं बालकः एव |


अतः बालकः पूर्वोक्तरीत्या विशेष्यवाचकशब्दः, नव्योक्तरीत्या विशेषणवाचकशब्दः; इदं भूमिकाद्वयम्‌ अस्ति सदा विशेष्यवाचकशब्दस्य


उन्नतः "केवलं गुणिवाचकः" | तर्हि कथं विशेषणवाचकः ?


उन्नतः विशेषणवाचक-शब्दः इति अधुना उक्तम्‌ |

उन्नतः केवलं गुणिवाचक-शब्दः इति तु आरम्भतः एव उच्यमानम्‌ |

द्वयमपि कथम्‌ ?


“गुण-विशिष्टं गुणिनम्‌" इत्यस्य तात्पर्यं तदेव | उन्नतः = औन्नत्य-रूप-गुणविशिष्टः पदार्थः | इत्युक्ते अनेन उन्नत-शब्देन गुणी अपि सूचितः, गुणः अपि सूचितः | “उन्नतः वृक्षः" इति वाक्ये औन्नत्यम्‌ इति गुणः सूचितः अस्ति किल; नाम तेन वाक्येन अवगम्यते यत्‌ औन्नत्यम्‌ इति गुणः वृक्षे अस्ति | केन शब्देन इदम्‌ अवगम्यते ? उन्नत-शब्देन | एतदर्थम्‌ उच्यते यत्‌ गुणिवाचकाः शब्दाः ये ये सन्ति, ते शब्दाः गुण-विशिष्ट-गुणिवाचकाः | अतः उन्नत-शब्दस्य यः अर्थः, तस्मिन्‌ अर्थे गुणः अपि अन्तर्भूतः | नाम औन्नत्य-युक्त-वृक्षः | उन्नत-शब्दस्य यः समग्र-अर्थः, तस्मिन्‌ समग्रे अर्थे औन्नत्यम्‌ इत्यस्य एकदेश-वृत्तिः, इत्युक्ते एकः भागः |


केवलं गुणः वक्तव्यः चेत्, औन्नत्यम्‌ | गुण-विशिष्ट-गुणी यदा वक्तव्यः, तदा उन्नतः इति एव प्रयोक्तव्यः | तदा औन्नत्यम्‌ इति गुणः, उन्नतः इति शब्देन बोधितः | किन्तु केवलं गुणः इति न; औन्नत्य-युक्त-वृक्षः बोधितः | नाम औन्नत्यम्‌ अपि बोधितं, तद्युक्तः वृक्षः अपि बोधितः | अतः उन्नतः विशेषणवाचकः इति वदामः | स्वयं विशेषणं न, परन्तु विशेषणस्य अर्थः अस्मिन्‌ गुणिवाचकशब्दे अन्तर्भूतः |


तर्हि निष्कर्षः एवम्‌— यद्यपि उन्नत-शब्दः केवलं गुणिवाचकः, किन्तु अस्मिन्‌ कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः |


उन्नत-शब्दस्य सीमा का ?


तर्हि उन्नतः वृक्षः इत्यत्र, उन्नत-शब्दः विशेषणवाचकः | तत्र उन्नतः इति शब्देन उन्नतत्वम्‌ इति गुणः, तादृशगुणेन युक्तः इति एतावत्‌ एव ज्ञायते | न तु वृक्षः इति | वृक्षः इति ज्ञातव्यं चेत्‌, अग्रे वृक्षः इति शब्दः प्रयोक्तव्यः | 'उन्नतः' इत्येव वदामश्चेत्‌, कः उन्नतः इति न ज्ञायते; कश्चन उन्नतः इत्येतावत्‌ एव ज्ञायते | इत्युक्ते वृक्षः, वृक्षः इति शब्देन एव बोध्यते, न तु उन्नतः इति शब्देन | तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्य-युक्तः कश्चन पदार्थः इति एतावत्‌ एव |


तदर्थम्‌ एव उच्यते औन्नत्य-रूप-गुणेन युक्तम्‌ इति अखण्डं यत्‌ अस्ति, तस्मिन्‌ अखण्डे अर्थे एकदेशरूपेण औन्नत्यम्‌ इति गुणः तत्र भवति | एकदेशः इत्युक्तौ एकः भागः | अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः | अतः वस्तुतः, उन्नतः इति कथनेन वृक्षस्य भानं न भवति, वृक्षस्य बोधः न भवति | वृक्षस्य बोधः अपेक्षितः चेत्, वृक्षः इति एव शब्दः प्रयोक्तव्यः | उन्नतः इति शब्देन औन्नत्यरूप-गुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति | न तु वृक्षस्य बोधः |


तर्हि अग्रे उन्नतः इति शब्दः धर्मिवाचकः किमर्थम्‌ इति चेत्‌, "औन्नत्यरूप-गुणेन युक्तः कश्चन पदार्थः" इत्युक्तम्‌; तादृशः विद्यमानधर्मः वृक्षे अतः वृक्षः धर्मी, उन्नतः च तस्य सूचकः धर्मिवाचकः | किन्तु वस्तुतः सः धर्मी कः इति उन्नत-शब्देन न ज्ञायते; तदर्थं वृक्षः वक्तव्यः | इति उन्नत-वृक्षयोः भेदः |


उन्नत-शब्दः गुणिवाचकः एव न तु गुणवाचकः इति सत्यं; तथापि उन्नत-शब्देन गुणी कः इति उन्नतशब्देन न ज्ञायते | पदार्थः वृक्षः वा, पुरुषः वा, बालकः वा, कुक्कुरः वा, इति यावत्‌ विशेष्यवाचकशब्दः न उच्चार्यते, तावत्‌ न बोध्यते |


विशेष्यभूतः यः वृक्षः, सः वृक्ष-शब्देन बोध्यते | औन्नत्यरूपः यः गुणः, सः उन्नतशब्देन बोध्यते | उन्नतशब्दः वस्तुतः गुणवाचकः न | किन्तु उन्नतशब्दस्य यः अर्थः "गुण-विशिष्ट यः गुणी”, तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते | अतः एव वदामः उन्नत-शब्दः विशेषणवाचकः |


लोके प्रयोगः भिन्नः


लोके प्रयोगः भिन्नः किमर्थम्‌ इति चेत्‌, तत्र उन्नत-शब्देन, कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नत-शब्दः विशेषणम्‌ इति एव तत्र प्रयोगः भवति | किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येत यत्‌ उन्नतशब्दः विशेषणवाचकः न तु विशेषणम्‌ |

औन्नत्यम्‌ = विशेषणम्‌

उन्नतः = विशेषणवाचकः

वृक्षः = विशेष्यवाचकः


यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य

तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि |


अनेन 'विशेष्यवाचकस्य' ... 'विशेषणवाचकस्यापि' इति येषां भाषा किञ्चित्‌ प्रगता, तैः अवगम्येत | सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः | किन्तु ये इतो‍ऽपि अधीतवन्तः, तैरपि तथा बुध्यते चेत्‌‍, दोष एव | श्लोकस्य उच्चारणसमये, जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम्‌ |



तद्वाचकः शब्दः


"उन्नतः वृक्षः" इति वाक्ये वृक्षस्य विशेषणद्वयम्‌ इत्युक्तम्‌ | औन्नत्यम्‌ इति एकं विशेषणं, वृक्षत्वम्‌ इति अपरं विशेषणम्‌ | औन्नत्यम्‌ इति विशेषणं केन पदेन बोध्यते ? तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः उन्नतः इति एव | उन्नत-पदेन एव औन्नत्यं बोध्यते | तर्हि वृक्षत्वम्‌ इति यत्‌ विशेषणं, तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः वृक्षः इति शब्दः एव | तत्‌ कथम्‌ इति चेत्‌, वृक्षः इति शब्देन पदार्थत्रयं बोध्यते | प्रथमः वृक्षः इति जीवः | द्वितीयः वृक्षत्वम्‌ इति वृक्षे विद्यमाना जातिः | (कुत्रचित् 'धर्मः' इति एव वक्तव्यं भवति; अत्र स च धर्मः जातिः एव |) तृतीयः वृक्ष-वृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः | अत्र समवायसम्बन्धः | इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते |

एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते | यथा अत्र वृक्ष-शब्देन "वृक्षत्व-विशिष्ट-वृक्षः" इति अर्थः | नाम वृक्षत्व-सम्बन्धः यत्र अस्ति, तादृशः पदार्थः | इत्युक्तौ वृक्षत्वं, वृक्षः, तयोर्मध्ये विद्यमानः सम्बन्धः | एते त्रयः पदार्थाः ज्ञायन्ते |


अतः उन्नतवृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति— उन्नतत्वं, वृक्षत्वं च | उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः | वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः | एषा व्यवस्था भवति |



धनं, धनवत्त्वं च


अधुना धनवत्त्वं, धनम्‌ | धनवान्‌ इति शब्दः अस्ति | यथा वृक्ष-शब्दस्य विशेषणं किम्‌ ? वृक्षत्वम्‌ | वृक्ष-शब्दस्य वदनेन वृक्षपदार्थः, वृक्षत्वं, तयोः सम्बन्धः च एतत्‌ सर्वं पदार्थत्रयं ज्ञायते | अधुना धनवान्‌ इति शब्दः अस्ति इति चिन्तयतु | धनम्‌ इति शब्देन धनवान्‌ इति शब्दः निष्पन्नः; धनम्‌ अस्मिन्‌ अस्ति धनवान्‌ इति | धनवान्‌ कः ? कश्चन पुरुषः | धनवान्‌ इति शब्देन अपि पदार्थत्रयं बोध्यते | किम्‌ इति चेत्‌, प्रथमः पदार्थः धनवान्‌ एव, नाम धनं यस्य/यस्मिन्‌ अस्ति सः | तस्मिन्‌ पुरुषे विशेषणत्वेन यत् अस्ति, सोऽपि पदार्थः बोध्यते; सः पदार्थः कः ? धनम्‌ एव | वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम्‌ इति स्वीकृतम्‌ | अत्र धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानः धर्मः कः इत्युक्ते, अन्यत्‌ किमपि अस्माभिः स्वीकरणीयं नास्ति | धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानं विशेषणं धनम्‌ एव | धनवति विद्यमानः धर्मः इत्युक्तौ धनम्‌ एव | कथनस्य आशयः एवं यत्‌ धनम्‌ अपि कश्चन 'धर्मः' भवति | तर्हि धनवान्‌ इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते धनं, धनं यस्मिन्‌ अस्ति तादृशपुरुषः, तयोर्मध्ये विद्यमानः संयोगसम्बन्धः | एते त्रयः अंशाः ज्ञायन्ते |

एतदपि वक्तव्यम्‌ अस्ति, धनवान्‌ इति शब्दः गुणिवाचकः उन्नत-शब्दः इव | अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात्‌ बोधः न भवति | नाम कस्मिन्‌ उन्नतत्वम्‌ अस्ति इति न ज्ञायते यावत्‌ वृक्षः इति शब्दः न उच्येत; तावत्‌ एव ज्ञायते यत्‌ कश्चन अस्ति यस्मिन्‌ उन्नतत्वम्‌ इति गुणः विद्यमानः | धनवान्‌ अपि तथा— धनं कस्मिन्‌ अस्ति, पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते | केवलं धनयुक्तः कश्चन अस्ति, इत्येतावदेव ज्ञायते | सः कः इति वक्तव्यं चेत्‌, अग्रे अन्यत्‌ पदं प्रयोक्तव्यम्‌ | “धनवान्‌ बालकः" इति वक्तव्यम्‌ |


किन्तु धनवान्‌ इति शब्देन धनम्‌ अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते, तयोर्मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते | धनवान्‌ इति शब्देन एते त्रयः पदार्थाः ज्ञायन्ते |

धनवत्त्वम्‌ | अत्र कथं व्यवस्था इति उच्यते | धनवान्‌ इति शब्दात्‌ त्व-प्रत्ययः संयोजितः, तेन धनवत्त्वम्‌ इति पदं सञ्जातम्‌ | त्व-प्रत्ययः भावप्रत्ययः; भावार्थे विद्यमानः प्रत्ययः | वस्तुतः भावः इत्यस्य अर्थः कः इति चेत्‌, “तस्मिन्‌ विद्यमानः धर्मः" | इदानीं वृक्षः इति शब्दः अस्ति | वृक्षस्य भावः वृक्षत्वम्‌ | 'वृक्षस्य भावः' इत्यस्य अर्थः कः ? इति चेत्‌, "वृक्षे विद्यमानः कश्चन धर्मः" | अतः त्वप्रत्ययं योजयामश्चेत्‌ वृक्ष-शब्दात्‌, तेन किं भवति ? वृक्षे विद्यमानः धर्मः बोध्यते | तत्र एक एव धर्मः, वृक्षत्वम्‌ | एवमेव, यः कोऽपि शब्दः भवतु— शुक्लः इति अस्ति | शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्‌ | तत्र शुक्लत्वम्‌ इति धर्मः अस्ति, आङ्ग्लाभाषायां 'whiteness' | तर्हि शुक्ल-शब्दात्‌ भावार्थे त्व-प्रत्ययं योजयामः चेत्‌, तस्य अर्थः कः भवति ? “शुक्लः इति गुणः, तस्मिन्‌ विद्यमानः धर्मः" इति | तर्हि शुक्लत्वम्‌ इत्युक्ते “शुक्ले विद्यमानः धर्मः" | मनुष्ये विद्यमानः धर्मः मनुष्यत्वम्‌ |


इदानीं धनवत्त्वम्‌ | धनवान्‌ इति शब्दात्‌ त्व-प्रत्ययं संयोजयामः | पूर्वं यत्र यत्र उदाहरणं दर्शितं, तत्र यथा नियमः, तथैव नियमः अत्रापि स्वीकर्तव्यः | धनवान्‌ + त्व → धनवत्त्वम्‌ | अनेन धनवत्त्वम्‌ इत्यस्य कः अर्थः ? धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानः धर्मः | सः धर्मः कः इत्युक्ते धनम्‌ एव | तदेव अस्माभिः पूर्वं स्वीकृतम्‌ | धनवति विशेषणरूपेण विद्यमानः धर्मः, अत्र धनमेव | अतः अत्र निष्कर्षः कः इति चेत्‌, धनवत्त्वम्‌ इत्युक्तौ धनम्‌ इति सिद्धम्‌ |

अत्र धने धनवत्त्वस्य पर्यवसानं कृतम्‌ | नाम धनवत्त्व-शब्दस्य उच्चारणेन तर्कस्य पङ्क्तिः धनम्‌ एव अधिगच्छति | पर्यवसानं नाम तत्स्वरूपम्‌ | धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति; धनवत्त्वम्‌ अपि तथा | धने धनवत्त्वस्य पर्यवसानं, तत्स्वरूपं कृतम्‌ इत्युक्तौ धनवत्त्वम्‌ अन्यत्र कुत्रापि न भवितुम्‌ अर्हति; धनवत्त्वम्‌ इति धनम्‌ एव |


अधुना एतत्‌ सर्वम्‌ उक्तं; वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयम्‌ अस्ति | द्वाभ्याम्‌ अपि पक्षाभ्याम्‌ अस्माकं लक्षणकार्यं सिध्यति | एकस्मिन्‌ पक्षे धनवत्त्वम्‌ इत्युक्तौ धनमेव | अपरस्मिन्‌ पक्षे धनवत्त्वम्‌ इत्युक्ते धनाधिकरणत्वम्‌ | धनस्य अधिकरणं, तस्मिन्‌ अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वम्‌ | धनवत्त्वं धनमेव इति चेत्‌, धनवत्त्वं संयोगसम्बन्धेन धनवति अस्ति | धनवत्त्वं धनाधिकरणत्वम्‌ इति चेत्‌, स्वरूपसम्बन्धेन धनवति अस्ति |

तथैव गन्धः गन्धवत्त्वं च | गन्धवत्त्वं गन्धः एव इति चेत्‌, समवायसम्बन्धेन पृथिव्याम्‌ अस्ति | गन्धवत्त्वं गन्धाधिकरणत्वम्‌ इति चेत्‌, स्वरूपसम्बन्धेन पृथिव्याम्‌ अस्ति | उभयत्र गन्धवत्त्वं पृथिव्याः लक्षणम्‌ | गन्ध-निष्ठ-आधेयता-निरूपित-अधिकरणताश्रयः पृथिवी | अनेन आधाराधेयभावः प्रदर्शितः; गन्धवत्त्वं, गन्धाधिकरणत्वम्‌ इति पृथिव्याः लक्षणम्‌ | गन्धवत्त्वं गन्धः एव इति चेदपि, गन्धवत्त्वं पृथिव्याः लक्षणम्‌ |


Swarup – November 2015

- - - - - - -


परिशिष्टम्‌

अस्मिन्‌ पाठे अस्माभिः उक्तं यत्‌ पञ्चानां पदार्थानां विशेषणत्वं भवति; अवशिष्टयोः द्वयोः पदार्थयोः का गतिः ? समवायः विशेषश्च, तयोः विशेषणत्वं सम्भवति किम्‌ ? अत्र लघु उत्तरम्‌ अस्ति, आं सम्भवति | किन्तु पृथक्तया उच्यते यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |


प्रथमतया सामान्यनियमः उच्चारणीयः, विशेषणत्वं कुत्र, कस्यां दशायां सम्भवति | विशेषण-विशेष्य-भावः ज्ञानसम्बद्धः; यत्र ज्ञाता अस्ति, कस्यचित्‌ ज्ञानम्‌ अस्ति, तत्र ज्ञानस्य विषयः भवति | यदा किञ्चन वस्तु ज्ञानस्य विषयः भवति, तदा प्रथमनिकषः सम्पूर्णः— इदं वस्तु विशेषणं भवितुम्‌ अर्हति | यत्र ज्ञानं नास्ति, वने उन्नतवृक्षः अस्ति | तस्मिन्‌ वृक्षे औन्नत्यम्‌ इति गुणः वर्तते | यावत्‌ कोऽपि ज्ञाता नास्ति, यावत्‌ औन्नत्य-वृक्षौ ज्ञानस्य विषयः न भवतः, तावत्‌ औन्नत्यसय विशेषणत्वं न सम्भवति | किन्तु तस्मिन्‌ वने ज्ञाता-रूपेण कोऽपि मनुष्यः नास्ति चेदपि गुण-गुणि-सम्बन्धः भवति | अत्र भेदः अस्ति यतोहि विशेषण-विशेष्य-भावः ज्ञानसम्बद्धः, गुण-गुणिनोः सम्बन्धः पदार्थ-सम्बद्धः |


आधार-आधेय-भावः अपि पदार्थ-सम्बद्धः न तु ज्ञानसम्बद्धः | अतः घटः भूतले अस्ति इति स्थितौ, घटः आधेयः, भूतलम्‌ आधारः | ज्ञानस्य विषयः नास्ति चेदपि, ज्ञाता कोऽपि नास्ति चेदपि, तत्र आधार-आधेय-भावः यतोहि अयं भावः पदार्थसम्बद्धः | अतः आधाराधेयभावः गुणगुणिभावः चेत्यनयोः कृते ज्ञाता नापेक्षितः | किन्तु विशेषणविशेष्यभावः ज्ञानसम्बद्धः अतः तत्र ज्ञाता तत्र नितराम्‌ अपेक्षितः | इति सार्वत्रकनियमः | बालके बालकत्वम्‌ इति जातिः अस्ति | तत्र जातिव्यक्त्योः सम्बन्धः अस्ति एव, किन्तु सा च जातिः तदानीं विशेषणम्‌ इति वदामः यदा तादृशं ज्ञानं कस्यचित्‌ मनसि अस्ति |


आहत्य बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः— एते सर्वे विशेषणं भवन्ति यदा ज्ञानस्य विषयः सन्ति; नो चेत्‌ ना | इति सामान्यनियमः |


इतः अग्रे, एषु पञ्चसु आधाराधेयभावः अस्त्येव | औन्नत्यं, बालकत्वं, धनं, लेखन-क्रिया, घटाभावः, एते सर्वे आधेयाः, बालकः च तेषाम्‌ आधारः | अतः प्रश्नः उदेति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र विशेषणम्‌ आधेयम्‌ इति वा ?


अत्र उदाहृयते यत् एकस्मिन्‌ प्रकोष्ठे केचन बालकाः सन्ति, तेषु अन्यतमः रामबालकः; स च लेखनीम्‌ इच्छति | रामस्य पुरतः चतस्रः लेखन्यः सन्ति, किन्तु ताः लेखन्यः न इच्छति सः | तस्य मित्रं तं पृच्छति "का लेखनी इष्यते भवता ?” प्रकोष्ठे अन्यबालकः श्यामः लिखति, हस्ते अस्ति लेखनी | रामः वदति "श्यामस्य हस्ते या लेखनी अस्ति, ताम्‌ इच्छामि" | अत्र लेखनी विशेष्या, श्यामः विशेषणं लेखन्याः | किन्तु लेखनी विशेष्या सत्यपि आधेया न तु आधारः | श्यामः विशेषणं सत्यपि आधारः न तु आधेयः | अतः यत्र आधाराधेयभावः अस्ति, तत्र विशेषणम्‌ आधेयम्‌ अपि भवितुम्‌ अर्हति, आधारः अपि भवितुम्‌ अर्हति |


अग्रे प्रश्नः उदेति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र आधाराधेयभावः इति वा ? इत्युक्तौ विशेषणं सदा आधेयम्‌ अथवा आधारः, द्वयोर्मध्ये एकः भवति एव इति वा ? कुत्रचित्‌ यत्र आधाराधेयभावः नास्ति, तत्रापि विशेषणत्वम्‌ अर्हति वा ?


उत्तरत्वेन चैत्रः इति पुरुषस्य किञ्चित्‌ धनम्‌ अस्ति; किन्तु पार्श्वे नास्ति अपितु वित्तकोशस्य पेटिकायाम्‌ | अत्र धनं पेटिकायां न तु चैत्रस्य सविधे, अतः आधाराधेयभावः नस्ति | किन्तु स्वत्व-स्वामित्व-भावः अस्ति अतः मतुप्‌-प्रत्ययस्य प्रयोगः योग्यः— "चैत्रः धनवान्‌" | विशेषणविशेष्यभावः अस्ति किन्तु आधाराधेयभावः नास्ति यतोहि चैत्रः अत्र, धनम्‌ अन्यत्र | शारीरिकरूपेण यदा धनं पार्श्वे नास्ति, तदा आधाराधेयभावः नास्ति; किन्तु धनं चैत्रस्य तु अस्ति | आधाराधेयभावः धनपेटिकयोः “धनं पेटिकायां,” तदाधारेण कस्यचित्‌ तादृशं ज्ञानम्‌ अस्ति चेत्‌ विशेषणविशेष्यभावः अपि अस्ति | स्वत्व-स्वामित्व-भावः धनचैत्रयोः, अतः तदाधारेण कस्यचित्‌ तादृशं ज्ञानम्‌ अस्ति चेत्‌ विशेषणविशेष्यभावः अपि अस्ति— "चैत्रः धनवान्‌" |


एतावता सारांशः यत्‌ विशेषणविशेष्यभावार्थं ज्ञानस्य विषयः भवेत्‌; आधाराधेयभावः अस्ति चेत्‌ विशेषणम्‌ आधेयं भवितुम्‌ अर्हति, आधारः भवितुम्‌ अर्हति | किन्तु विशेषणत्वार्थम्‌ आधाराधेयभावस्य आवश्यकता नास्ति; कुत्रचित्‌ विशेषणविशेष्यभावः भवति यत्र आधाराधेयभावः नास्त्येव |


अधुना समवायसम्बन्धः विशेषणं भवितुम्‌ अर्हति वा, इति प्रश्नः | उदाहरणार्थ‌म् अभावविषये | वायौ रूपं नास्ति | अत्र यदि रूपं वायौ अभविष्यत्‌, तर्हि समवायसम्बन्धेन अभविष्यत्‌ | अतः वायौ रूपं नास्ति समवायसम्बन्धेन | तत्र रूपाभावस्य प्रतियोगिता रूपे | इयं प्रतियोगिता समवायसम्बन्धावच्छिन्ना | समवायसम्बन्धः अस्याः प्रतियोगितायाः अवच्छेदकसम्बन्धः | अतः इयं प्रतियोगिता भिद्यते समवायसम्बन्धेन | कस्याः प्रतियोगितायाः भिद्यते इति चेत्‌—इयं समवायसम्बन्धावच्छिन्ना प्रतियोगिता कस्याः भिन्ना इति चेत्‌— कालिकसम्बन्धेन रूपं वायौ अस्ति, रूपाभावः नास्ति | कालिकसम्बन्धेन वायुः अपि अस्ति, रूपम्‌ अपि अस्ति | अतः यत्र कालिकसम्बन्धः अवच्छेदकः भवति, तत्र रूपाभावः नास्ति | यत्र समवायसम्बन्धस्य अवच्छेदकत्वम्‌ अस्ति, तत्र प्रतियोगिता भिन्ना, इयं च कालिकसम्बन्धावच्छिन्ना प्रतियोगिता भिन्ना |


अधुना स्मर्यते यत्र घटः भूतले अस्ति, तत्र आधाराधेयभावः अस्ति; कस्यचित्‌ ज्ञानस्य विषयः नास्ति चेदपि आधाराधेयभावः अस्ति यतोहि आधाराधेयभावः पदार्थसम्बद्धः नतु ज्ञानसम्बद्धः | अवच्छेदकावच्छेद्यभावः अपि तथा— ज्ञाता नास्ति चेदपि एतादृशभावः भवति | किन्तु विशेषणत्वं तदा भवति यदा कस्यचित्‌ ज्ञानस्य विषयो भवति | अतः ज्ञाता नास्ति चेत्‌, अवच्छेदकावच्छेद्यभावः अस्ति किन्तु विशेषणविशेष्यभावः नास्ति | केवलं वदामः यत्‌ प्रतियोगिता भिद्यते समवायसम्बन्धस्य अवच्छेदक्त्वेन, तत्‌ तु विशेषणार्थं पर्याप्तं नास्ति | समवायसम्बन्धस्य ज्ञानाभावे अवच्छेदकत्वं भवति किन्तु विशेषणत्वं नास्ति; ज्ञानम्‌ अस्ति चेत्‌, अवच्छेदकत्वम्‌ अपि अस्ति, विशेषणत्वम्‌ अपि अस्ति |


अग्रे, कुत्रचित्‌ समवायसम्बन्धः अवच्छेदेकः, अन्यत्र संयोगसम्बन्धः अवच्छेदः, तत्र सम्बन्धस्य प्रकारभेदात्‌ भिद्यते | यथा गन्धः समवायसम्बन्धेन पृथिव्याम्‌, अपि च घटः संयोगसम्बन्धेन भूतले | अत्र पृथिवी भिद्यते भूतलात्‌ न केवलं गन्धघटभेदात्‌ अपि तु समवायसम्बन्ध-संयोगसम्बन्धभेदात्‌ | समवायसम्बन्धः अस्ति पृथिव्यां, संयोगसम्बन्धः अस्ति भूतले; समवायसम्बन्धस्य प्रकारभेदात्‌ विशेषणत्वं अस्ति |


किन्तु अग्रे, गन्धः समवायसम्बन्धेन पृथिव्यां, शैत्यं समवायसम्बन्धेन जले | उभयत्र समवायसम्बन्धः; अपि च तर्कसङ्ग्रहग्रन्थे उच्यते यत्‌ समवायः इति पदार्थः एक एव | एक एव इति चेत्‌, गन्धः शैत्यं च यद्यपि भिन्नं, किन्तु गन्धः च शैत्यं च समानसमवायसम्बन्धेन स्वस्य आधारे युक्तम्‌ | अत्र समस्या व्युत्पन्ना | समवायसम्बन्धः सर्वत्र समानः इति चेत्‌, यत्र द्वे वस्तू समवायसम्बन्धेन युक्ते, कथं वा सम्बन्धभेदात्‌ भिद्येत ? अत्र प्राचीननैयायिकैः उच्यते यत्‌ यथा अकाशः एक एव, तथापि उपाधिभेदात्‌ नाम देशभेदात्‌ भिन्नः (उत्तरस्यां दिशि, दक्षिणस्यां दिशि), तथैव अत्र गन्धयुक्तसमवायः, शैत्ययुक्तसमवायः इत्यनेन भेदः साध्यते | किन्तु अन्ते तावत्‌ सन्तोषजनकं नासीत्‌ इति भाति यतोहि नव्यनैयायिकैः समवायः एक एव इति सिद्धान्तः त्यक्तः |


अग्रे विशेषः | विशेषः विशेषणं भवति वा ? भवति आं, किन्तु केवलं परमाणोः, अपि च केवलं ज्ञानसन्दर्भे | को‍पि न जानाति चेत्‌ विशेषणत्वं नास्ति, अपि च परमाणुः इति विषयो नासित चेत्, विशेषस्य प्रसङ्गः नास्ति |


एतदर्थं सर्वं विचिन्त्य, अस्मिन्‌ करपत्रे बालकस्य दृष्टान्तावसरे, पञ्च विशेषणानि दत्तानि | बालके औन्नत्यम्‌ इति गुणः, बालकत्वम्‌ इति जातिः, धनम्‌ इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम्‌ अस्ति | समवायस्य च विशेषस्य च कुत्रचित्‌ विशेषणत्वं विद्यते; अत्र पृथक्तया प्रतिपादितं यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |


Swarup – November 2015


---------------------------------


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].