10---nyAyashAstram/06---suvarNaM-taijasaM-dravyam

Revision as of 18:12, 9 May 2021 by Ramapriya (talk | contribs) (Added text and recording)

10---nyAyashAstram/06---suvarNaM-taijasaM-dravyam

ध्वनिमुद्रणानि--

१) suvarNaM-taijasaM-dravyam_2015-12-12

२) suvarNaM-taijasaM-dravyam_2015-12-14 (रक्षा-भगिन्याः वर्गः)


तर्कसङ्ग्रहः इति ग्रन्थे सुवर्णं तैजसम्‌ इति उक्तम्‌ | कथनस्य आशयः एवं यत्‌ सुवर्णे तेजः मुख्यांशः | पृथिवी अपि अस्ति | यथा अस्माकं शरीरे पृथिवी इति मुख्यांशः, किन्तु जलम्‌, अग्निः, वायुः, आकाशः इति द्रव्याणि अपि सन्ति | तथैव सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति इति नैयायिकानां मतम्‌ | अत्र सुवर्णम्‌ इत्यस्य वदनेन सर्वं लौहम्‌ अन्तर्भूतम्— सुवर्णं, रजतम्‌, अयः, ताम्रम्‌ इत्यादिकम्‌ |


पूर्वपक्षः = सुवर्णं पार्थिवं द्रव्यम्‌ | पूर्वपक्षी प्रायः चार्वाकः | पूर्वपक्षिणः अनुमानद्वयम्‌ |

१) सुवर्णं पार्थिवं पीतरूपवत्त्वात्‌ | हरिद्रावत्‌ |

सुवर्णे पीतरूपम्‌ अस्ति | परन्तु पीतरूपं केवलं पृथिव्यां भवति |

तेजसि भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपम्‌ | अन्यत्‌ सर्वं रूपं पृथिव्याम्‌ एव | अतः सुवर्णस्य पीतरूपवत्त्वात्‌ सुवर्णं पृथिवी एव भवेत्‌ | यथा हरिद्रा | हरिद्रा पीतरूपवती, अतः पार्थिवद्रव्यम्‌ | तथैव पीतरूपवत्त्वात्‌ सुवर्णम्‌ अपि पृथिवी भवेत्‌ |


२) सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात्‌ | पुस्तकवत्‌ |

सुवर्णं पार्थिवं गुरुत्वात्‌ | सुवर्णम्‌ उपरिष्टात्‌ त्यजामश्चेत्‌ पतति, यथोहि तस्मिन्‌ गुरुत्वम्‌ अस्ति | पृथिव्यां जले चैव गुरुत्वं वर्तते | उभयत्र गुरुत्वम्‌; अन्यत्र कुत्रापि गुरुत्वं न लभ्यते | यथा तेजसि गुरुत्वं नास्ति | अग्नेः दीपस्य च प्रकाशः उपरि अपि गच्छति, अधः अपि गच्छति यतोहि तेजसि गुरुत्वं नास्ति | परन्तु सुवर्णम्‌ अधः एव पतति अतः तस्मिन्‌ गुरुत्वम्‌ | गुरुत्वं पृथिव्यां जले एव इति उक्तम्‌ | सुवर्णं जलं न इति सर्वेषां सम्मतम्‌ | आहत्य सुवर्णं जलापेक्षया भिन्नं, परन्तु तस्मिन्‌ गुरुत्वम्‌ अस्ति अतः पृथिवी एव स्यात्‌ |


सिद्धान्तः = सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति | सिद्धान्ती नैयायिकः |

पृथिव्यां कुत्रचित्‌ नैमित्तिकं द्रवत्वं भवति | इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत्‌, कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति | यथा घृतम्‌ | अग्निसंयोगे सति, घृतं द्रवः भवति; घृते द्रवत्वम्‌ उत्पद्यते | तस्मिन्‌ घृते पुनः इतोऽपि तेजसंयोगः क्रियते चेत्‌‍, तत्‌ द्रवत्वं नश्यति |

अधुना पात्रद्वयम्‌ अस्ति | बृहति पात्रे जलं संस्थापितम्‌ | तस्मिन्‌ जले पुनः लघु पात्रं स्थापितं, यस्मिन्‌ घृतम्‌ अस्ति | बृहत्पात्रस्य अधः अग्निः आरब्धः | उष्णसंयोगेन घनं घृतं द्रवः भवति; ततः अग्रे यावत्‌ अग्निसंयोगं करोति, घृते विद्यमानं द्रवत्वं न नश्यति; अग्निघृतयोः मध्ये यत्‌ जलम्‌ अस्ति, तत्‌ जलं घृतद्रवत्वनाशं प्रतिबध्नाति | अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम्‌ इत्युच्यते |


असति प्रतिबन्धके, अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति | घृतं यत्‌ घनम्‌ आसीत्‌, अग्निसंयोगेन द्रवः जातः; तदा अत्यन्तानलसंयोगे पुनः घनम्‌ आकारं प्राप्तम्‌ | घृतं ज्वलति, तस्य च कृष्णरूपं भवति | परन्तु जलप्रतिबन्धके सति, अत्यन्तानलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति | जलादिप्रतिबन्धकं नास्ति चेत्‌ अत्यन्तानलसंयोगे सति पार्थिवद्रवत्वं नश्यति |


अधुना सुवर्णम्‌ | अनलसंयोगे सति सुवर्णं द्रवः भवति; अत्यन्तानलसंयोगे सति अपि द्रवत्वं तिष्ठति एव; सुवर्णं पुनः घनं न भवति | यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात्‌, तथापि सुवर्णस्य द्रवत्वं तिष्ठति | अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्‌ | तच्च प्रतिबन्धकं पृथिवी न भवितुम्‌ अर्हति यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति | जलम्‌ अपि न भवितुम्‌ अर्हति सुवर्णे जलस्य अभावात्‌; तत्र सर्वेषाम्‌ अङ्गीकारः | वाय्वादिषु द्रव्येषु रूपाभावात्‌ सुवर्णे न भवितुम्‌ अर्हन्ति | केवलं तेजः अवशिष्यते, अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकं तेजः एव स्यात्‌ |


अत्र किमर्थं सुवर्णं तैजसम्‌ इति विषये विचारः जातः | अधः दीपिकाग्रन्थस्य कश्चन भागः उद्धृतः यस्मिन्‌ एतत्‌ सर्वं प्रतिपादितम्‌ | अग्रे पठ्यतां; कुत्र पर्यन्तं स्वस्य बोधः सम्पूर्णः इति दृश्यताम् |


दीपिका — सुवर्णतैजसत्ववादः


ननु सुवर्णं पार्थिवं पीतत्वात्‌, गुरुत्वात्‌, हरिद्रावत्‌ इति चेत्‌ !

न, अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते

द्रवत्वनाशादर्शनेन, असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः

कार्यकारणभावावधारणात् | सुवर्णस्य अत्यन्तानलसंयोगे सति

अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः | तस्मात्‌

पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ

नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिषु

अनन्तर्भावात्‌ तैजसत्वसिद्धिः | तस्योष्णस्पर्शभास्वररूपयोः

उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात्‌ अनुपलब्धिः |

तस्मात्‌ सुवर्णं तैजसमिति सिद्धम् |


अधः पुनः अयमेव भागः दत्तः; उपरि सारल्यार्थं पूर्णविरामाः स्थापिताः किञ्च अस्मिन्‌ अंशे वास्तविकम्‌ एकं वाक्यम्‌ अतीव दीर्घं; तस्य प्रदर्शनार्थं भिन्नरीत्या अधः लिखितम्‌ |


ननु सुवर्णं पार्थिवं पीतत्वाद्गुरुत्वात्‌ हरिद्रावतिति चेत् न;

अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन,

जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके

पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्

सुवर्णस्य अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन

पार्थिवत्वानुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया

द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः

रूपवत्तया वाय्वादिषु अनन्तर्भावात्तैजसत्वसिद्धिः।

तस्योष्णस्पर्शभास्वररूपयोः उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां

प्रतिबन्धादनुपलब्धिः। तस्मात्सुवर्णं तैजसमिति सिद्धम्।


Swarup – December 2015


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].