10---nyAyashAstram/11---kAlaH: Difference between revisions

m
Protected "11 - कालः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Added text)
m (Protected "11 - कालः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))

(8 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 11 - कालः}}
ध्वनिमुद्रणानि -
{| class="wikitable mw-collapsible mw-collapsed"
!'''ध्वनिमुद्रणानि -'''

|[https://archive.org/download/Vidyadharii-Cintanam/37_kAlaH---paricayaH__lakShaNavAkyam__upAdhi-nirUpaNam_2016-05-02.mp3 १) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-05-02]

|[https://archive.org/download/Nyaya-Shastram---Vidyadharii/36_kAlaH---paricayaH__lakShaNavAkyam__upAdhi-nirUpaNam_2016-04-30.mp3 २) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-04-30]

१) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-05-02

२) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-04-30

Line 33 ⟶ 40:

[अस्य विषयस्य पुनस्स्मरणार्थम्‌ [https://sites.google.com/site/samskritavyakaranam/[10---nyAyashAstram/05---visheShaNaM-visheShyam |इदं पत्रं]] पठ्यताम्‌ |]

Line 40 ⟶ 47:

"घटः अतीतः" इति एकं ज्ञानम्‌ | यथा पूर्वम्‌ "अयं घटः" इति ज्ञाने घटः विषयः, 'अयं घटः' इति ज्ञानं च विषयि (इनि-प्रत्ययः नपुंसकलिङ्गे) | घटः इति विषये विषयता; "अयं घटः" इति ज्ञाने विषयिता | विषयता ज्ञानस्य प्रभा | मनसि अस्य चित्रं भवेत्—

[[File:GataH atitaH.png|left|thumb]]

[[File:GataH_atitaH.png|alt=]]

अस्य चित्रस्य वर्णनार्थं विभिन्न-रीत्या वाक्यानि रचयितुं शक्यन्ते, विषयतां लक्ष्यीकृत्य, विषयितां लक्ष्यीकृत्य इत्यादिकम्‌ | विशयता-ज्ञानयोः कः सम्बन्धः इति चेत्‌, घटनिष्ठविषयतानिरूपकं ज्ञानम्‌ इति विशेष-वाक्यम्‌ |

इयं च विषयता-रूपा प्रभा घटे विद्यमाना, ज्ञानेन विना न भवति | अतः अयं विषयता-रूप-प्रकाशः कस्य इति चेत्‌, ज्ञानस्य एव | अपि च अयं प्रकाशः यत्र पतति, सः ''ज्ञानस्य विषयः'' इति उच्यते | यथा 'अयं घटः' इति ज्ञाने, विषयता-रूपा प्रभा घटे पतति अतः घटः ज्ञानस्य विषयः |

दीप-रूप-ज्ञानस्य प्रकाशः '''विषयता'''— सा च '''द्विविधा प्रकारता विशेष्यता'''

अधुना यत्र अस्मिन्‌ ज्ञाने वस्तुद्वयम्‌ अस्ति, तत्र प्रभाद्वयम्‌ अपि अस्ति | यथा 'भूतलं घटवत्‌ (भूतले घटः)'— 'भूतलम्‌ अधिकरणम्‌' अपि ज्ञानं, 'घठः आधेयः' अपि ज्ञानम्‌ | भूतलम्‌ एकः विषयः, घटः अन्यः विषयः | भूतले विषयता अस्ति, घाटे अपि विषयता अस्ति | अनयोः द्वयोः विषययोः विषयता भिन्ना, अतः अस्य प्रदर्शनार्थं नामकरणं भिन्नम्‌ | भूतलं विशेष्यं, घटश्च विशेषणम्‌ इति कृत्वा भूतले विद्यमाना विषयता विशेष्यता; घटे विद्यमाना विषयता प्रकारता इति पृथक्तया नामकरणम्‌ |

अपि च यथा 'भूतलं घटवत्‌' इत्यस्मिन्‌ भूतलं विशेष्यं, घटः विशेषणं, तथैव 'घटः अतीतः' इत्यस्मिन्‌ घटः विशेष्यः, अतीतत्वं विशेषणम्‌ |

[[File:GataH atita.png]]

एतत्‌ सर्वं मनसि निधाय आहत्य "घटः अतीतः" इति वाक्ये विशिष्टं ज्ञानम्‌ इदम्— "घटनिष्ठविशेष्यतानिरूपकम्‌ अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्‌" |

[[File:GataH atitaH vishayata.png|left|thumb600x600px]]

"घटः अतीतः" इत्यस्य कथनेन एतादृशं विशिष्टं ज्ञानं व्युत्पन्नम्‌ इति कृत्वा अस्य ज्ञानस्य कारणम्‌ एव अयं शब्दप्रयोगः | अपि च अयं "घटः अतीतः" इति शब्दप्रयोगः, कालाख्यं द्रव्यं—कालनामकं द्रव्यं—विना न सम्भवति इति कृत्वा एतादृशज्ञानजनकशब्दप्रयोगस्य कारणं कालः | "घटः अतीतः" इत्यस्य कथनेन निष्पनं ज्ञानं प्रति शब्दप्रयोगः कारणं, पुनः शब्दप्रयोगं प्रति कालः कारणम्‌ |

कालस्य लक्षणम्‌

अधुना लक्षणवाक्यस्य निर्माणार्थं विद्याधरी इति पुस्तके पृ०स० ५५ इत्यस्य चित्रं दृष्ट्वा अत्र अग्रे पठतु—

तर्हि ज्ञाननिष्ठकार्यतानिरूपितकारणता शब्दप्रयोगे; तन्निष्ठकार्यतानिरूपितकारणता, काले | तर्हि अनेन कालस्य किं लक्षणं वक्तुं शक्यते ? अतीतत्वादिप्रकारक-ज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम्‌ | पुनः, अतीतत्वादिप्रकारक-ज्ञाननिष्ठकार्यतानिरूपित-शब्दप्रयोगनिष्ठ-कार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम्‌ |

व्यवहारः इति पदघटितानि अष्टौ लक्षणानि

तर्कसङ्ग्रह-ग्रन्थे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति | अतीतादिव्यवहारहेतुः कालः, संयुक्तादिव्यवहारहेतुः संयोगः, पृथक्‌व्यवहारहेतुः पृथक्त्वम्‌, एकत्वादिव्यवहारहेतुः सङ्ख्या इति एवं व्यवहार-पद-घटितानि अष्ट लक्षणानि सन्ति | धेयं यत्‌ अत्र लक्षणानि व्यवहारशब्दस्य न अपि तु व्यवहार-शब्द-घटितानि— नाम व्यवहार-शब्द-युक्तानि | व्यवहार-शब्द-युक्तानि लक्षणानि अष्ट सन्ति | अपरेषां शब्दानां लक्षणस्य कथनावसरे, व्यवहार-शब्दस्य प्रयोगः कृतः | तेषु शब्देषु अन्यतमशब्दः अस्ति कालः | कालस्य लक्षणं व्यवहार-पदघटितं, व्यवहार-पद-युक्तम्‌— अतीतादिव्यवहारहेतुः कालः |

अतः आदौ व्यवहारशब्दस्य समीचीनबोधः स्यात्‌ | तदनन्तरं अष्टानां लक्षणानाम्‌ अध्ययने सौलभ्यं भवति | धेयं यत्‌ सर्वत्र, सर्वेषु अष्टसु लक्षणेषु, व्यवहार-शब्दस्य अयमेव अर्थः— ज्ञानजनकशब्दप्रयोगः | एकत्वादिव्यवहारहेतुः सङ्ख्या इत्युक्ते एकत्वरूप-ज्ञानजनकशब्दप्रयोगानुकूलगुणः सङ्ख्या | एवं रीत्या सर्वत्र व्यवहार-शब्दस्य अयमेव अर्थः— ज्ञानजनकशब्दप्रयोगः |

Swarup – May 2016

[https://static.miraheze.org/samskritavyakaranamwiki/f/f6/%E0%A5%A7%E0%A5%A7_-_%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A4%83_-_%E0%A5%A7.pdf ११ - कालः - १.pdf]
page_and_link_managers, Administrators
5,097

edits