10---nyAyashAstram/17---kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam

Revision as of 03:06, 13 May 2021 by Ramapriya (talk | contribs) (Added text)

10---nyAyashAstram/17---kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam


ध्वनिमुद्रणानि -

१) kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam_2016-10-08  

२) dvitiiyam-asamavAyikAraNam---cintanam-abhyAsah-ca_2016-10-15

३) paramparAsambandhaH-ekamukhena_+_asamavAyikAraNa-sArAMshaH_+_pRuthaktvam_2016-10-22


कार्यकाराणभावस्य कथनावसरे लक्ष्यं किम्‌ ? एकस्मिन्‌ अधिकरणे कार्यस्य च कारणस्य च वृत्तित्वम् | इत्युक्तौ केन सम्बन्धेन कारणम्‌ अधिकरणे, पुनः केन सम्बन्धेन कार्यम्‌ अधिकरणे, इति वक्तव्यम्‌ | कुत्रचित्‌ द्वयोः— कार्यकारणयोः — सम्बन्धः अधिकरणे साक्षात्‌ सिध्यति | पुनः कुत्रचित्‌ एकस्य साक्षात्‌, एकस्य परम्परया | किन्तु यत्र कार्यकाराणभावः आनुभविकः, तत्र कथञ्चित्‌ अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः एव | अस्मिन्‌ विषये अत्र चिन्तनं भविष्यति |


कार्यकारणभावस्य प्रकटीकरणार्थम्‌ अपेक्षते—

१) कार्यकारणभावार्थं कार्यकारणयोः सामानाधिकरण्यम्‌ अपेक्षितम्‌ | तत्‌ सामानाधिकरण्यं वक्तव्यं चेत्‌, एकस्मिन्‌ अधिकरणे कार्यं कारणं च भवतः इति बोध्यम्‌ |

२) कार्यं कारणञ्च एकस्मिन्‌ अधिकरणे इति प्रकटीकरणार्थं द्वेऽपि केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यम्‌ | केन सम्बन्धेन कार्यम्‌ अधिकरणे, तस्मिन्नेव च अधिकरणे केन सम्बन्धेन कारणं भवति इति इदानीं विचारणीयम् |


उदाहरणानि


समवायिकारणम्

यत् स्वस्मिन्‌ तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत्‌ समवायिकारणम्‌ | अवयवावयविनोः, गुणगुणिनोः क्रियाक्रियवतोः, जातिव्यक्त्योः, विशेषनित्यद्रव्योः च समवायसम्बन्धो भवति |


१) घटः - कपालः

घटं प्रति कपालः समवयिकारणं भवति | अधिकरणं कपालः | घटः कपाले, कपालः कपाले (स्वस्मिन्‌) |

"समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्‌" | अनेन कार्यकारणभावः साधितः |


२) घटपरिमाणम् - घटः

परिमाणं प्रति घटः समवयिकारणं भवति | घटे परिमाणम्‌ | घटस्य परिमाणस्य च सामानाधिकरण्यं वक्तव्यम्‌ | घटः यस्मिन् अधिकरणे अस्ति, तस्मिन्‌ अधिकरणे परिमाणम्‌ अपि अस्ति | "समवायसम्बन्धेन परिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम्‌" | अनेन कार्यकारणभावः साधितः |


३) कपालपरिमाणम् - कपालः

समवायसम्बन्धेन कपालपरिमाणं प्रति, तादात्म्यसम्बन्धेन कपालः कारणम् |


अभ्यासः— पटः-तन्तुः | पटरूपं-पटः |


असमवायिकारणम्

समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं, तत्‌ असमवायिकारणम्‌ |


प्रथमविधम् : घटः - कपालसंयोगः

घटस्य असमवायिकारणं कपालसंयोगः | अधिकरणं कपालः | घटः कपाले, कपालसंयोगः कपाले |

"समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम्‌" |


अभ्यासः— पटः-तन्तुसंयोगः | हस्तपुस्तकसंयोगः-हस्तगता (हस्ते विद्यमाना) क्रिया |

आहत्य यत्र घटः समवायेन जायते, कपाले, तत्रैव तस्मिन्‌ कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति | घटं प्रति कपालद्वयसंयोगः असमवायिकारणम्‌ | अत्र कपालान्तर्भावेन कार्यकारणयोः सामानाधिकारण्यम्‌ | एवम्‌ उभयमेकस्मिन्‌ अधिकरणे इति प्रथमम्‌ असमवायिकारणम्‌ | कार्येण सह एकस्मिन्‌ अर्थे समवेतं सत्‌ कारणम्‌ असमवायिकारणम्‌ |


घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः


अत्र कार्यकारणयोः अधिकरणं समानम्‌ इति साक्षात्‌ न दृश्यते | तदर्थं परम्परया वक्तव्यं भवति एव | किमर्थं वक्तव्यम्‌ इति चेत्‌ कार्यकारणभावः अस्ति इति अस्माकम्‌ अनुभवः | घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम्‌, इत्ययं कार्यकारणभावः आनुभविकः | अस्माभिः सर्वैः अनुभूयते इति करणतः कथञ्चित्‌ कार्यकारणभावः साधनीयः |


यत्र कार्यकारणभावः अस्ति किन्तु सामानाधिकरण्यं साक्षात्‌ नास्ति, तत्र परम्परया वक्तव्यं भवति, अन्यः न कोऽपि उपायः | यत्र कार्यं जायते तत्रैव कारणेन भाव्यम्‌ | अत्र कार्यम्‌ अस्ति, अन्यत्र कारणम्‌ उत्पद्यताम्‌ इति तु कथमपि न भवति |

द्वितीयासमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम्‌ असमवायिकारणम्‌ | घटस्य परिमाणं समवायसम्बन्धेन घटे, कपालस्य परिमाणं समवायसम्बन्धेन कपाले | घटपरिमाण-कपालपरिमाणयोः एकम्‌ अधिकरणम्‌ अप्रसिद्धम्‌ | अतः कार्यस्य वा कारणस्य वा परम्परा-सम्बन्धः स्वीकार्यः |


प्रथमं कपालः कार्यकारणयोः अधिकरणम्‌ इति स्वीकुर्मः | अस्यां दशायां घटपरिमाणस्य साक्षात्‌ सम्बन्धः अधिकरणे नास्ति | अतः घटपरिमाणस्य परम्परा-सम्बन्धः वक्तव्यः कपाले | स्वम्‌ इति घटपरिमाणम्‌ | (स्व-शब्दः कुत्र प्रयोक्तव्यः ? यत्र साक्षात्‌ सम्बन्धः नास्ति, यत्र परम्परया एव सम्बन्धः शक्यः, तत्र स्व-शब्दस्य आवश्यकता भवति |) स्वस्य साक्षात्‌ अधिकरणं घटः | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः घटपरिमाणस्य समवायी घटः |

समवायी | समवायसम्बन्धः द्वयोर्मध्ये भवति चेत्‌, एकः आश्रितः भवति, अन्यः आश्रयः भवति | परिमाणं घटे इति स्वीकरोतु | समवायसम्बन्धेन परिमाणं घटे | आश्रयः घटः, आश्रितं परिमाणम्‌ | अत्र परिमाणसमवायी भवति घटः— इत्युक्ते समवायसम्बन्धेन तत्‌ परिमाणम्‌ अस्मिन्‌ घटे अस्ति | समवायसम्बन्धेन यस्मिन्‌ अस्ति, सः समवायी— नकारान्तशब्दः, इनि प्रत्ययः | समवायः अस्मिन्‌ अस्ति इति समवायी, इति व्युत्पत्तिः | परिमाणसमवायः घटे अस्ति, इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति | अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः | परिमाणस्य समवायः घटे |


तर्हि घटपरिमाणस्य समवायी घटः | घटः पुनः कुत्र अस्ति इति चेत्‌, कपाले | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः घटस्य समवायी कपालः | अनेन स्वसमवायी घटः, घटसमवायी कपालः | आहत्य स्वसमवायिसमवायी कपालः | स्वसमवायिसमवायित्वं कपाले | घटपरिमाणं स्वसमवायिसमवायित्व-सम्बन्धेन कपाले | इति परम्परा-सम्बन्धः | अपि च कपालपरिमाणं कुत्र अस्ति ? साक्षात्‌ कपाले | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्‌ | इत्येव कार्यकारणभावः सिद्धः |

धेयं यत् स्वसमवायी अपि च स्वाश्रयः इत्यत्र समानार्थकशब्दौ | अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्‌, इत्यपि समीचीनम्‌ | समवायी, आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोऽपि सामान्यं, समवायी इतोऽपि विशिष्टं, तावान्‌ एव भेदः | किन्तु अत्र द्वयोः उपयोगः शक्यः | स्वाश्रयः, स्वसमवायी |


उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, कारणसम्बन्धः च साक्षात्‌ अधिकरणे इति स्वीकृतम्‌ | अधुना विपरीतं कुर्मः— कार्यसम्बन्धः साक्षात्‌ अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया | कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः सामानाधिकरण्यम्‌ अपेक्षितमेव | अस्मिन्‌ पर्याये अधिकरणं किम्‌ ? घटः | घटपरिमाणं साक्षात्‌ घटे च | किन्तु कपालपरिमाणम्‌ ? स च कुत्र अस्ति ? कपाले | पुनः घटे भवेत्‌ इति वक्तव्यं चेत्‌, परम्परया एव वक्तुं शक्यम्‌ |

कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः | समवेतं नाम समवायसम्बन्धेन विद्यमानम्‌ | 'समवायी' इत्यनेन अधः गमनं; 'समवेतम्‌' इत्यनेन उपरिगमनम्‌ | पूर्वमपि इदम्‌ अस्माभिः दृष्टम्‌ | "फले एकः रसः अस्ति" इति वाक्ये एकत्वसङ्ख्या, रसश्च द्वावपि गुणौ; एकत्वं फले समवायसम्बन्धेन, रसः अपि फले समवायसम्बन्धेन | तर्हि "फले एकः रसः अस्ति" इत्यस्य कथनावसरे 'एकः रसः' इत्यनेन एकत्वं रसे, ततः 'गुणः गुणे' इति कथं साधनीयम्‌ इति चेत्‌, एकत्वस्य आश्रयः फलं; तत्समवेतः (समवायसम्बन्धेन विद्यमानः) भवति रसः | समवेतत्वं रसे | स्वं च एकत्वम्‌ | अतः स्वसमवायिसमवेतः रसः, स्वसमवायिसमवेतत्वं रसे, अपि च स्वसमवायिसमवेतत्वसम्बन्धेन एकत्वं रसे | अनेन 'फले एकः रसः अस्ति' इति वाक्यं सिद्धम्‌ |


एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेण परम्परासम्बन्धं साधयितुं शक्यते | स्वं कपालपरिमाणं, स्वसमवायी कपालः, तत्र समवेतः भवति घटः, समवेतत्वं घटे | तथा च स्वसमवायिसमवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते | तत्रैव घटे, घटस्य परिमाणं समवायसम्बन्धेन वर्तते | इति कारणस्य सम्बन्धः परम्परासम्बन्धः | तत्र घटपरिमाणं साक्षात्‌ समवायसम्बन्धेन घटे | समवायसम्बन्धेन घटपरिमाणं प्रति, स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्‌ | अत्र स्वसमवायिसमवेतत्वं स्वीकृत्य कारणसम्बन्धः |

आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः | उभयथा वक्तुं शक्यते; उभयत्र कार्यकारणयोः एकम्‌ अधिकरणं सिध्यति | इति द्वितीयविधम्‌ असमवायिकारणम्‌ |


द्वितीयविधम् असमवायिकारणम्‌ : घटपरिमाणम् - कपालपरिमाणम्

स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति, समवायसम्बन्धेन कपालपरिमाणं कारणम् |

- अथवा -

समवायसम्बन्धेन घटपरिमाणं प्रति, स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् |


इत्थञ्च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन्‌ अर्थे समवेतं सत्‌ कारणम्‌ असमवायिकारणम्‌ |

अभ्यासः— पटरूपं-तन्तुरूपम्‌ |


परम्परासम्बन्धः एकमुखेन स्वीकरणीयः

पुस्तकं हस्ते अस्ति, संयोगसम्बन्धेन | अत्र संयोगसम्बन्धः हस्ते अपि, पुस्तके अपि | तदर्थं संयोगः द्विनिष्ठः इति उच्यते |


अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा नास्ति किम्‌ ? समवायेन यस्मिन् अस्ति सः समवायी इति | परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य | किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति— उभयत्र आश्रितः | अतः घटः अपि समवायी, परिमाणम् अपि समवायि खलु ? अनेन गुणः अपि समवायी, द्रव्यम् अपि समवायि | इति चेत्‌, यथा घटः परिमाणसमवायी तथैव परिमाणम् अपि घटसमवायि |

सत्यं समवायसम्बन्धः उभयत्र आश्रितः अतः द्विनिष्ठः एव | किन्तु स च समवायसम्बन्धः एकस्मिन्‌ आश्रये एकेन सम्बन्धेन, अपरस्मिन्‌ आश्रये अपरसम्बन्धेन | समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन; समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन | द्वयमपि सत्यम्‌ | अत्र प्रतियोगी अनुयोगी च, संसर्गीयः न तु अभावीयः | यस्य सम्बन्धः सः प्रतियोगी; यत्र सम्बन्धः सः अनुयोगी | अत्र च इदं 'समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन' इत्यस्य न्याये व्यवहारो नास्ति | 'समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन' इति प्रसिद्धः यतोहि अनेन समवायीकारणं व्यक्तीक्रियते | एवञ्च आश्रयस्य दिशि अधः गमनार्थं, वदनार्थं 'समवायी', आश्रितस्य दिशि उपरि गमनार्थं, वदनार्थं 'समवेतः' इति व्यवहरामः |


अस्तु, ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र अश्रितः द्विनिष्ठः, तथैव परम्परासम्बन्धः अपि स्यात्‌ | किन्तु अत्र भिन्ना समस्या— अत्र सम्बन्धः द्विनिष्ठ एव नास्ति | स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ यद्यपि स्वसमवायिसमवायित्वसम्बन्धः कपाले अस्ति, किन्तु घटपरिमाणे नास्ति | स्वसमवायिसमवायी कपालः | इदं समवायित्वं च कपाले एव भवति |

संयोगः इति यथा उच्यते, तादृशसरलसम्बन्धः नास्ति अत्र पारम्पर्यात्‌ | स्वस्य समवायी घटः, घटस्य समवायी कपालः | स्वसमवायिसमवायित्वं कपाले एव, न तु स्वस्मिन्‌ | अतः एतादृशसम्बन्धः घटपरिमाणेऽपि अस्ति इति वक्तुं न शक्यते | विपरीतरीत्या अपि वक्तुं शक्त्यते— स्वम्‌ इति कपालः | स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणम्‌ | स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे | यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे न तु कपाले |


प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव | अतः परम्परासम्बन्धः यत्र भवति, तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति | अत्र सम्बन्धः द्विनिष्ठः नास्ति | स्वसमवेतसमवेतत्वं परिमाणे न तु कपाले; स्वसमवायिसमवायित्वं कपाले न तु परिमाणे |

Swarup – October 2016


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].