10---nyAyashAstram/23---anumAnapramANam---vibhAgaH-atiriktaH-guNAH
ध्वनिमुद्रणानि -
१) anumAnapramANam---vibhAgaH-atiriktaH-guNAH_2017-06-24
२) anumAnapramANam---anvaya-vyAptiH_+_pakSha-bhinna-adhikaraNe-hetuH_2017-07-01
३) vyatirekavyAptiH_+_anvayavyAptiH_+_svArthAnumAnam_2017-07-08
४) parArthAnumAnasya-pancAvayavAH_+_anvayavyApti-lakShaNam_2017-07-15
५) trINi-vyApti-vAkyAni_+_vyatirekavyApti-sthale-anumAnasya-pancAvayavAH_2017-07-22
६) vyatirekavyApti-lakShaNena-anumAna-prayogaH_2017-07-29
७) vyatirekavyApti-sthale-anumAnasya-pancAvayavAH---vahniH-uShNaH-vahnitvAt_2017-08-05
८) anvayavyAptisthale-ekadesha-dRuShTAntaH---pakSatAvacChedakAvacChedena-sAdhyam_2017-08-19
९) pakSatAvacChedakasAmAnAdhikaraNyena-sAdhyam_+_anvayavyAptisthale-ekadesha-dRuShTAntaH_2017-08-26
१०) anvayadRuShTAntaH-sAmAnyapakaShasya-ekadeshaH---PAA-sthale-bhavati_PAS-sthale-na-bhavati_2017-09-02
विभागसाधकम् अनुमानं किम् इति चेत्—
"आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् |”
'घटपटयोः संयोगः' इति स्थितौ घटः पटात् विभक्तः, अनेन च घटपटयोः संयोगः नष्टः | 'आश्रयनाशाजन्यगुणनाशः' इत्यनेन 'आश्रयनाशेन अजन्यगुणनाशः' | अत्र गुणः इत्युक्तौ संयोगः | आश्रयः इत्युक्तौ घटः पटः च | अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः | अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिध्यति | अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशाजन्यगुणनाशः |
व्यस्तप्रयोगे आश्रयनाशेन अजन्यगुणनाशः, आश्रयनाशात् अजन्यगुणनाशः— द्वयमपि साधु | किन्तु समासप्रसङ्गे यतोहि हेतुतृतीयतत्पुरुषः न भवति, हेतुपञ्चमीतत्पुरुषसमासश्च भवति, अतः अत्र हेतुपञ्चमीतत्पुरुषसमासः, विग्रहवाक्यञ्च आश्रयनाशात् अजन्यगुणनाशः | कारणविवक्षायां या तृतीया भवति, तया तृतीयया तत्पुरुषसमासो न भवति; व्यस्तप्रयोगे किन्तु भवति अवश्यम् |
'समानाधिकरणगुणजन्यः' इति गुणनाशस्य विधेयः, उद्देश्यविधेयभावः— समानाधिकरणगुणजन्यः गुणनाशः | उद्देश्यविधेयभावः इति न ज्ञायते चेत्, विशेषणविशेष्यभावः इति चिन्त्यतां; प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः | समानाधिकरणगुणेन जन्यगुणनाशः; अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः | समानाधिकरणगुणः इति विभागः | संयोगनाशः घटे पटे च, विभागः अपि तथा घटे पटे इत्यस्मात् विभाग-संयोगनाशौ समानाधिकरणौ |
यथा घटे श्यामरूपम् अस्ति; तेजःसंयोगेन तस्य नाशः भवति इति चेत् तेजःसंयोगः च श्यामरूपनाशः च, इमौ द्वौ समानाधिकरणौ | तेजःसंयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते, अतः श्यामरूपनाशः समानाधिकरणगुणजन्यः | अत्र 'समानाधिकरणगुणजन्यः' इत्युक्तौ श्यामरूपनाशसमानाधिकरणगुणजन्यः | कथं ज्ञायते ? वाक्यं दृष्ट्वा— 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः'— नाम आश्रयनाशाजन्यगुणनाश-समानाधिकरणगुणः, तेन जन्यः | तेन कः जन्यः ? आश्रयनाशाजन्यगुणनाशः |
यथा श्यामरूपं, तद्वत् घृते द्रवत्वं | घृते तेजःसंयोगः आनीयते चेत् तेजःसंयोगेन च घृते विद्यमानद्रवत्वरूपनाशः जायते | अत्र द्रवत्वनाशः तेजःसंयोगः च इमौ समानाधिकरणौ; अपि च द्रवत्वनाशः समानाधिकरणगुणजन्यः |
प्रकृते "आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत्” इति अनुमानस्य स्वरूपम् | अनुमानवाक्यस्य च चत्वारः भागाः— पक्षः, साध्यं, हेतुः, दृष्टान्तः |
अनुमानस्य बोधनार्थं 'पर्वतः वह्निमान् धूमात् यथा महानसम्' इति वाक्यं परिशीलयाम | पर्वतः पक्षः; यत्र साधियितुम् इच्छामः, सः पक्षः | इत्युक्ते पर्वते साधयितुम् इच्छामः | किं साधयितुम् इच्छामः ? वह्निं साधयितुम् इच्छामः | तदर्थं वह्निः साध्यः | वह्निं साधयितुम् इच्छामः कुत्र ? पर्वतरूपिपक्षे— पर्वतः पक्षः | अधुना धूमः हेतुः, कारणम् | 'यथा महानसम्' इति दृष्टान्तः | महानसम् इत्युक्तौ पाकशाला; महानसे धूमः अस्ति चेत् वह्निः अस्त्येव इति अस्माकम् अनुभवः | तदर्थं दृष्टान्तत्वेन उपयुज्यते | आहत्य 'पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति, यथा महानसे' इति अनुमानप्रयोगः |
तर्हि पर्वतरूपिपक्षे वह्निं साधयामः | यत् साधयामः तत् साध्यम्, अतः अत्र वह्निः साध्यः | धूमः कारणं, महानसं दृष्टान्तः | पक्षः, साध्यं, हेतुः, दृष्टान्तः इति चत्वारः भागाः अनुमानप्रयोगे |
प्रकृते आश्रयनाशाजन्यगुणनाशः इति पक्षः; यत्र साधियितुम् इच्छामः, सः पक्षः | समानाधिकरणगुणजन्यः साध्यः | आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः | पाकजरूपनाशवत् इति दृष्टान्तः | यथा पर्वतः, तथा आश्रयनाशाजन्यगुणनाशः | इत्युक्तौ 'आश्रयनाशः यत्र न जातः किन्तु तदाश्रितगुणस्य नाशः जातः'— तादृशनाशरूपपदार्थः, यथा 'पर्वतः' इति पदार्थः | अयमेव पदार्थः पक्षः; अतः तस्मिन् प्रदर्शयितुम् इच्छामः यत् साध्यम् अस्ति | तस्मिन् पदार्थे, आश्रयनाशाजन्यगुणनाशः इति पदार्थे— हेतुः अस्ति चेत् साध्यम् अवश्यं भवति इति अनुमानप्रयोगः | यथा पर्वते वह्निः साक्षात् न दृष्टः, किन्तु साधयितुम् इच्छामः— 'पर्वते वह्निः अस्ति; पर्वतः वह्निमान्' इति | एवमेव संयोगनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साधयितुम् इच्छामः |
वस्तुतः समानाधिकरणगुणजन्यत्वं साध्यम् इति वक्तव्यम् | समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्यविधेयभावं साधयितुम् इच्छामः; इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे | समानाधिकरणगुणजन्यत्वम् इति साध्यम्, आश्रयनाशाजन्यगुणनाशः इति पक्षः | तस्मिन् च पक्षे साध्यम् अस्ति इति साधयितुम् इच्छामः | आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः | पर्वते वह्निं साधयामः इति यथा, तथैव आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् | नाम संयोगनाशे विभागजन्यत्वम् | विभागेन जन्यत्वम् अस्ति संयोगनाशे | इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम् |
आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः | यथा धूमः | अत्र प्रकृते किन्तु किञ्चित् वैचित्र्यं वर्तते | यतोहि 'पर्वतः वह्निमान् धूमात्' इत्यस्मिन् पर्वतः इति पक्षः भिन्नवस्तु, धूमश्च तस्मात् भिन्नवस्तु | परञ्च आश्रयनाशाजन्यगुणनाशः इति पक्षः, आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः | नाम पुनः तदेव, तस्य एव धर्मः हेतुरूपेण उक्तम् | कुत्रचित् अनुमानेषु तथा भवति | उदाहरणार्थं 'वह्निः उष्णः वह्नित्वात्' | नाम वह्नौ उष्णत्वम् अस्ति | कथंं जानीमः ? यतोहि तस्मिन् वह्नौ वह्नित्वम् अस्ति | तर्हि तत्र अनुमानप्रयोगः कः ? 'वह्निः उष्णः वह्नित्वात्' |
'पर्वतः वह्निमान् धूमात्' इति स्थले 'यत्र यत्र धूमः तत्र तत्र वह्निः' इति उच्यते | एतादृश-हेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति 'अन्वयव्याप्तिः'— यत्र यत्र हेतुः, तत्र तत्र साध्यम् इति | 'यत्र यत्र' इत्यस्य अनन्तरं यः पदार्थो भवति, सः व्याप्यः | 'तत्र तत्र' इत्यस्य अनन्तरं यः पदार्थो भवति, सः व्यापकः | व्यापकव्याप्ययोः कः अर्थः इति चेत्, विश्वे व्यापकस्य क्षेत्रं बृहत् भवति व्याप्यस्य अपेक्षया | व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्रापेक्षया लघु च | तर्हि हेतुः व्याप्यः, साध्यं व्यापकम् | यथा धूमः, वह्निः | वह्निः भवति चेत् धूमः भवेदेव इति तु नास्ति; कुत्रचित् यत्र वह्निरस्ति, धूमः न भवति | वहिः अस्ति, धूमः नास्ति— एतादृशी स्थितिः भवति | किन्तु धूमः भवति चेत्, तस्य अर्थः एवं यत् वह्निः अस्त्येव | यतोहि द्वयोः कार्यकारणभावः अस्ति | अग्निः कारणं, धूमः कार्यं; वह्निना धूमः उत्पद्यते | अतः धूमः अस्ति चेत्, वह्निः अवश्यम् अस्ति; किन्तु वह्निः अस्ति चेत् धूमः भवितुम् अर्हति, नापि भवितुम् अर्हति | तदर्थम् अत्र न केवलं कार्यकारणभावः, अपि तु व्याप्यव्यापकभावः अपि | अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः; कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति | किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं, नाम अनुमितिः, सिध्यति |
तर्हि एतदाधारेण 'वह्निः उष्णः वह्नित्वात्' इति स्थले चिन्तयितुं शक्नुमः | अत्र च बोध्यं यत् कार्यकारणभावो नास्ति | वह्नित्वम् इति जातिः, उषणत्वम् इति गुणः | वह्नित्वं हेतुः, उष्णत्वं साध्यम् | अत्र च 'उष्णः' इत्यनेन उष्णस्पर्शः | स च उष्णस्पर्शः नाना विधः— वह्निजन्यः अपि भवति उष्णस्पर्शः, सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः | अतः उष्णत्वं कुत्रचित् भवति यत्र वह्नित्वं नास्ति, किन्तु वह्नित्वं भवति चेत् उष्णत्वम् अस्त्येव | अनेन वह्नित्वं व्याप्यं भवति, उष्णत्वञ्च व्यापकं भवति | कार्यकारणभावः यद्यपि नास्ति, किन्तु व्याप्यव्यापकभावः अस्ति |
तर्हि वह्नित्वं हेतुः, उष्णत्वं साध्यम् | वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम् | व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्रापेक्षया लघु च | एतदाधारेण 'यत्र यत्र वह्नित्वं, तत्र तत्र उष्णत्वम्' इत्यपि स्यात् | किन्तु यथोक्तम् उपरि, अत्र एकं वैचित्र्यं वर्तते | तस्य वैचित्र्यस्य कारणं किम् ? हेतुः पक्षे एव वर्तते; वह्निम् अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते | तर्हि कथं वा 'यत्र यत्र वह्नित्वं, तत्र तत्र उष्णत्वम्' ? तदानीं किल 'यत्र यत्र' वक्तुं शक्यते यदा विभिन्नस्थलेषु तच्च वस्तु लभ्येत | किन्तु एकः पदार्थः वह्नित्वं नाम्ना पक्षे एव लभ्यते चेत् 'यत्र यत्र' इति कथम् उच्येत ? अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात् ?
हेतुः केवलं पक्षे प्राप्यते इति नास्ति चेत्, अन्यत्रापि प्राप्यते चेत्, दृष्टान्तः 'अन्वयदृष्टान्तः' इति उच्यते | 'यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम्' इति दृष्टान्ते अन्वयव्याप्तिरस्ति | 'पर्वतः वह्निमान् धूमात् यथा महानसम्' इत्यस्मिन्, धूमरूपहेतुः न केवलं पर्वतरूपपक्षे किन्तु महानसेऽपि अन्यत्रापि— पक्षभिन्नाधिकरणे अपि प्राप्यते अयं हेतुः | अतः अनुमानप्रयोगेण अन्वयव्याप्तिज्ञानम् उत्पद्यते | 'यत्र यत्र धूमः तत्र तत्र वह्निः' इति ज्ञाने अन्वयव्याप्तिः अस्ति— तदाधारेण च 'धूमात् वह्निमान्', ततः च 'पर्वते वह्निरस्ति' इति अनुमितिः सिध्यति |
किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत्, हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते | वह्निः उष्णः वह्नित्वात् | वह्नित्वं केवलं वह्नौ; अन्यत्र न लभ्यते | तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति | दृष्टान्तः भवति, किन्तु सः भिन्नप्रकारकः— व्यतिरेकदृष्टान्तः भवति | 'वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्' इति अनुमानप्रयोगो भवति | 'यत् न एवं तत् न एवं, यथा जलम्' इति व्यतिरेकदृष्टान्तः एव सम्भवति |
अस्तु, किन्तु तथैव कुर्मः चेदपि समस्या जायते किल ? यतोहि 'नास्ति' इत्यस्मात् 'अस्ति' इति प्रमाणितं कथं वा स्यात् ? इत्युक्ते 'वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्' इति वदामः चेत्, नाम 'जले उष्णत्वं नास्ति' इत्यस्य कथनेन, कथं वा प्रमाणितं भवेत् यत् अतः 'वह्नौ उष्णत्वम् अस्ति' ? जले वह्नित्वरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति, इति तादृशतर्कः भवति वा ? न भवति किल | अपि च वदामः चेदपि, तर्हि 'वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्' इति यथा, 'वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम्' इत्यपि स्यात् | समस्या हि समस्या !
दृष्टान्ते हेतुः नास्ति अतः साध्यं नस्ति, तदाधारेण पक्षे हेतुः अस्ति अतः सध्यम् अपि अस्ति— इति कार्यं न करोति | नो चेत् वायौ अपि उष्णत्वं भवेत् | अतः 'यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इत्यस्य आधारेण 'यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति' इति न भवति | दोषपूर्णचिन्तनमिदम् | वस्तुतः 'यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इति वक्तुमेव न शक्यते | 'यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति' इति भवति किम् ?
अन्ततो गत्वा 'यन्नैवं तन्नैवम्' इत्यनेन 'यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति' इति न | व्यतिरेकदृष्टान्तस्थले 'यत्र यत्र हेतुर्नास्ति तत्र तत्र साध्यं नास्ति' इति न; 'यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति' इत्येव भवति | 'यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति' इति अस्ति | अस्य आधारेण च प्रमाणं कर्तुं शक्ष्यामः यत् अतः वह्नौ उष्णत्वमिति साध्यम् अस्ति | कथमिति अग्रे पश्येम |
पूर्वमपि अस्माभिः चत्वारि वाक्यानि परिशीलितानि—
१. अन्वयव्याप्तिः
यत्र यत्र धूमः, तत्र तत्र वह्निः
२. व्यतिरेकव्याप्तिः
यत्र यत्र वह्न्यभावः, तत्र तत्र धूमाभावः
३. अन्वयव्यभिचारः
कारणमस्ति, कार्यं नास्ति [मङ्गलं, कादम्बरी, बाणभट्टः]
४. व्यतिरेकव्यभिचारः
कारणं नास्ति, कार्यमस्ति [मङ्गलं, नास्तिकग्रन्थेषु यथा चार्वाकः]
तर्हि अत्र 'वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्' इति स्थले, द्वितीयविधव्याप्तिः अपेक्षितः | अत्र 'यत्र यत्र हेतुः तत्र तत्र साध्यम्' इति कार्यं न करोति इति बुद्धं यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते | अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इत्यपि कार्यं न करोति इति दृष्टम् | 'यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति' इति कार्यं करोति वा ?
अग्रे व्यतिरेकदृष्टान्तः कथं कार्यं करोति इति पश्यामः | प्रथमतया अन्वयव्याप्तिप्रसङ्गे इतोऽपि बोध्यं; तदा तदाधारेण व्यतिरेकव्याप्तिप्रसङ्गे बोधसौलभ्यं भवेत् | अस्य कृते 'पर्वतः वह्निमान् धूमात्' इत्यस्य उदाहरणं स्वीकुर्मः | 'पर्वतः वह्निमान् धूमात्'— अत्र न केवलम् अन्वयदृष्टान्तः, अपि तु व्यतिरेकदृष्टान्तः अपि, वर्तते | अन्वयव्याप्तिरपि अस्ति, व्यतिरेकव्याप्तिरपि अस्ति अत्र | 'यत्र यत्र धूमः, तत्र तत्र वह्निः' इति अन्वयव्याप्तिः; 'यत्र यत्र वह्निः नास्ति—साध्यं नास्ति— तत्र तत्र हेतुः अपि नास्ति, नाम धूमः अपि नास्ति | यथा ह्रदे | यो यः हेतुमान्, स सर्वोपि साध्यवान् | यः साध्याभाववान्, सः हेत्वभाववान् | व्यतिरेकस्थले साध्याभावः, तदा हेत्वभावः | अन्वयस्थले हेतुः, तदा साध्यम् |
अधुना अन्वयव्याप्तिप्रसङ्गे किञ्चित् परिचयत्वेन कथ्यते | अनुमानं द्विविधं— स्वार्थानुमानं परार्थानुमानं च | स्वार्थानुमानस्थले कश्चन रामः स्वयं पर्वतं पश्यति; पर्वते च पश्यति यत् धूमः अस्ति | अनेन चत्वारि ज्ञानानि आत्मनि क्रमेण उत्पद्यन्ते—
चत्वारि ज्ञानानि
१) पक्षधर्मता ज्ञानम् = हेतुः पक्षे अस्ति
२) व्याप्तिज्ञानम् = यत्र यत्र हेतुः तत्र तत्र साध्यम्
३) परामर्शः = साध्यव्याप्यहेतुमान् पक्षः
४) अनुमितिः = साध्यवान् पक्षः
१) पर्वते धूमः अस्ति
२) यत्र यत्र धूमः तत्र तत्र वह्निः
३) वह्निव्याप्यधूमवान् पर्वतः
४) पर्वतः वह्निमान्
प्रथमतया पक्षधर्मता ज्ञानम् | धर्मता-शब्देन हेतोः पक्षवृत्तित्वम् इत्यर्थः | धूमस्य वृत्तित्वं पर्वते इति ज्ञानम् | रामः पर्वते धूमं पश्यति, अनेन च जानाति यत् 'अयं पर्वतः धूमवान्' | पक्षधर्मता ज्ञानम् | तदा स्मरणात्मकं ज्ञानम् आत्मनि उत्पद्यते— यत्र यत्र धूमः भवति, तत्र तत्र वह्निः भवति इति ज्ञानम् | इदं 'व्याप्तिज्ञानम्' इत्युच्यते | पूर्वं जातस्य अनुभवस्य संस्कारवशात्— धूमदर्शनं संस्कारम् उद्बोधयति— तेन उद्बुद्धसंस्कारेण व्याप्तेः स्मरणं जन्यते | धूमदर्शनं उद्बोधकं, तेन संस्कारः उद्बुद्धः, तस्मात् व्याप्तिविषयकं स्मरणं जायते | तर्हि प्रथमं पक्षधर्मता ज्ञानं; तदा द्वितीयं ज्ञानं व्याप्तिज्ञानम् |
तृतीयं ज्ञानं परामर्शः | 'वह्निव्याप्यधूमवान् अयंं पर्वतः' | अस्मिन् ज्ञाने व्याप्तिः अपि अस्ति, पक्षधर्मता अपि अस्ति | इत्युक्तौ व्याप्तिविशिष्टायाः पक्षधर्मतायाः ज्ञानम् | नाम प्रथमतया पक्षधर्मता ज्ञानं जातं, तदा व्याप्तिज्ञानम् उत्पन्नं, तदा द्वयोः मेलनेन व्याप्तिविशिष्ट-पक्षधर्मता ज्ञानम् | अस्मिन् ज्ञाने द्वौ विषयौ— व्याप्तिः अपि विषयः, पक्षधर्मता अपि विषयः | वह्निना व्याप्तः धूमः पर्वते इति ज्ञानम्, इति परामर्शः इत्युच्यते | वह्निव्याप्यः यः धूमः, तादृशः धूमः अस्मिन् पर्वते वर्तते, इति ज्ञानम् | अनन्तरं 'पर्वतः वह्निमान्' इति ज्ञानं जायते; इदं ज्ञानं परामर्शजन्य-अनुमितिः इत्युच्यते |
अत्र स्मारणार्थं 'वह्निव्याप्यधूमवान्' इति यदा उच्यते, व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति भवति | तत्र वि-उपसर्गपूर्वकः आप्-धातुः, लटि व्याप्नोति; आवरणं करोति इत्यर्थः | व्याप्यः/व्याप्या/व्याप्यम् इति कर्मण्यर्थकं विशेषणं ण्यत्-प्रत्ययान्तम् | पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम् इतीमानि पदानि ण्यत्-प्रत्ययान्तानि | व्याप्यः इत्यस्य विपरीतार्थाकं पदं ण्वुल्-प्रत्ययान्तं व्यापकम् | यः व्याप्नोति सः व्यापकः, यं व्याप्नोति, सः व्याप्यः |
अधुना द्वितीयविधम् अनुमानं— परार्थानुमानम् | अस्मिन् कश्चन श्यामः स्वस्य गृहे अस्ति | स च पर्वतं न पश्यति | किन्तु रामः पर्वतं गत्वा, पर्वते धूमं दृष्ट्वा, 'अहो पर्वतः वह्निमान् !' इति जानाति | रामः कथं जानाति इति चेत्, तस्य आत्मनि क्रमेण इमानि चत्वारि उपर्युक्तानि ज्ञानानि स्वार्थानुमानेन उत्पद्यन्ते | तदा सः श्यामस्य गृहं गच्छति | श्यामस्य गृहं गत्वा रामः पञ्च वाक्यानि श्यामं वदति—
१) पर्वतो वह्निमान्
२) धूमवत्त्वात्
३) यो यो धूमवान् स स वह्निमान् यथा महानसम्
४) तथा च अयम्
५) तस्मात् तथा
१) प्रतिज्ञावाक्यम् = पर्वतो वह्निमान्
२) हेतुवाक्यम् = धूमवत्त्वात्
३) उदाहरणवाक्यम् = यो यो धूमवान् स स वह्निमान् यथा महानसम्
४) उपनयवाक्यम् = तथा च अयम् | वह्निव्याप्यधूमवान् अयं पक्षः |
५) निगमनवाक्यम् = तस्मात् तथा | तस्मात् धूमवत्त्वात् तथा वह्निमान् |
अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यताम् | रामः 'पर्वतो वह्निमान्' इति वदति | श्यामस्य मनसि आकाङ्क्षा भवति— 'कुतः वह्निमान् इति अङ्गीकर्तव्यम् ?' इति पृच्छति सः | तदा आकाङ्क्षा-निवृत्त्यर्थं रामः उत्तरयति 'धूमवत्त्वात्' इति | श्यामः पुनः पृच्छति, 'धूमवत्त्वम् अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः ?' तत्र रामः उत्तरं ददाति, 'यो यो धूमवान् स स वह्निमान् यथा महानसम्' इति व्याप्तिबोधकम् उदाहरणवाक्यम् | एवं च प्रश्नोत्तररूपेण भवति |
परार्थानुमानस्य अन्वयव्याप्तिस्थले, 'पक्षः साध्यवान्' इत्यस्य प्रदर्शनार्थम् एते पञ्च अवयवाः भवन्ति— प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः इति तर्कसङ्ग्रहवाक्यम् | पर्वतो वह्निमान् | धूमवत्त्वात् | यो यो धूमवान् स स वह्निमान् यथा महानसम् | तथा च अयं, नाम वह्निव्याप्यधूमवान् अयं, पर्वतः | तस्मात् तथा | तस्मात् धूमवत्त्वात् अयं पर्वतः तथा वह्निमान् |
एषु पञ्चसु वाक्येषु प्रथम-त्रीणि वाक्यानि सैद्धान्तिकानि न तु प्रकृतपर्वतप्रासङ्गिकानि | नाम, यदा कोऽपि कमपि सूचयति 'पर्वतो वह्निमान्' इति, श्रोता तदा पृच्छति 'कथं ज्ञायते', तदा उत्तरम् आयाति 'धूमवत्त्वात्', तदा 'कथं धूमवत्त्वम् इत्यस्मात् वह्निमत्त्वम्', तदा 'यो यो धूमवान् स स वह्निमान् यथा महानसम्'— एतावत् पर्यन्तं सिद्धान्तः एव | तृतीयेन च व्याप्तिज्ञानं जायते | तदा रामः वदति 'तथा च अयम्', इत्युक्ते 'अस्मिन् पर्वते धूमः अस्ति' | अत्र एव पक्षधर्मता ज्ञानम् उत्पद्यते श्यामस्य आत्मनि— तस्मात् पूर्वं न | अग्रे 'तस्मात् तथा' इति पञ्चमवाक्यस्य कथनानन्तरमेव श्यामस्य आत्मनि परामर्शः, तदा अनुमितिः जायते | (वस्तुतः अस्मिन् मतभेदः वर्तते; केचन वदन्ति यत् उपनयवाक्यं 'धूमवान् अयम्' इत्येव भवति, अन्ये वदन्ति यत् 'वह्निव्याप्यधूमवान् अयम्' इति भवति |)
अतः परार्थानुमानेऽपि इमानि चत्वारि ज्ञानानि भवन्ति यानि स्वार्थानुमाने दृष्टानि | पक्षधर्मता ज्ञानं प्रत्यक्षात्मकमेव भवेत् इति नास्ति | 'हेतुः पक्षे अस्ति' इति ज्ञानं पक्षधर्मता ज्ञानम् | रामः पर्वते धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति यत् पर्वतः धूमवान्; श्यामः 'तथा च अयम्' इति श्रुत्वा जानाति यत् पर्वतः धूमवान्— उभयत्र पक्षधर्मता ज्ञानम् | रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन; श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते, किन्तु परार्थानुमानेन |
इत्थञ्च अन्वयव्याप्तिः कथम् अस्ति, तदाधारेण अनुमानस्य पञ्चावयवाः कथं भवन्ति, ततः च अनुमितिः कथं जायते इति अस्माभिः ज्ञातम् | अनया अन्वयव्याप्त्या 'पक्षः साध्यवान्' इति सिद्धम् | अधुना अन्ते व्याप्यव्यापकभावस्य सुदृढतया बोधनार्थम् अन्वयव्याप्तेः स्वरूपम् अवलोकनीयम् | तदानीमेव अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्तेः ग्रहणार्थम् |
अस्य कृते व्याप्यव्यापकभावः इतोऽपि किञ्चित् ज्ञातव्यः | हेतुः व्याप्यः, साध्यं व्यापकम् | व्याप्यः इत्युक्ते 'व्याप्तिमान्'— यः व्याप्तिमान्, सः व्याप्यः | 'पर्वतः वह्निमान् धूमात्' इत्यत्र, वह्निव्याप्यः नाम कः ? धूमः— वह्निव्याप्यधूमः | वह्निव्याप्तिः धूमे इत्यर्थः | 'वह्निव्याप्तिः' नाम कः इति चेत्, धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निः समानाधिकरण-धूमः; वह्निसामानाधिकरण्यं धूमे | अस्य अर्थः कः ? धूमव्यापकः वह्निः, इत्युक्तौ धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निः | व्याप्तेः स्वरूपं कथयति— 'हेत्वधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी-साध्यसामानाधिकरण्यं व्याप्तिः' | अनेन अन्वयव्याप्तिः | 'यत्र यत्र धूमः तत्र तत्र वह्निः' इति वदामः, तस्य अयमेव अर्थः | नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः, तत्र स च वह्नेः अत्यन्ताभावः न भवति | यतोहि धूमाधिकरणे सर्वदा वह्निः भवति | अतः वह्नि-अत्यन्ताभावः स्वीकर्तुं न शक्यते किन्तु घटपटादि-अत्यन्ताभावः भवति, तस्य प्रतियोगी घटपटादिः, अप्रतियोगी भवति वह्निः, इत्युक्तौ तदेव साध्यम् | स च धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निः; तादृशवह्नि-अधिकरणवृत्तिः धूमः पुनः | वह्न्यधिकरणवृत्तित्वं धूमे | इयमेव धूमे विद्यमानवह्निव्याप्तिः | धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निसामानाधिकरण्यम् | इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः |
अग्रे व्यतिरेकव्याप्तिः कीदृशी, तदाधारेण पञ्चावयवाः कथं भवन्ति, ततः च अनुमितिः कथं जायते इति द्रष्टव्यम् | अत्रैव अस्माकं प्रश्नः किल— 'यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति' इति व्याप्तिज्ञानस्य आधारेण, 'पक्षे हेतुः अस्ति चेत् साध्यम् अपि अवश्यम् अस्ति' इति कथं सिध्यति ? अन्वयव्याप्तिस्थले चिन्तनं यथा, तदपेक्षया व्यतिरेकव्याप्तिस्थले चिन्तनं किञ्चित् अन्यादृशं भवति | सर्वप्रथमं कश्चन मूल-सिद्धान्तः बोध्यः | इदमेव बीजम् अवगम्यते चेत् समग्रबोधः इतोऽपि सुलभः—
कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत्, व्याप्याभावं प्रति व्यापकाभावः व्याप्यः, व्याप्याभावश्च व्यापकः इति सार्वत्रिकनियमः | नाम अभाव-शब्दस्य संयोजनेन व्याप्तिकथनावसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः | तथैव च पुनः पुनः कर्तुं शक्यते— 'अभाव'-शब्दसंयोजनं, विपरीतत्वेन शब्दक्रमः | यथा—
१) व्याप्येन व्यापकः सिध्यति | यत्र यत्र व्याप्यः तत्र तत्र व्यापकः | धूमः, वह्निः → यत्र यत्र धूमः तत्र तत्र वह्निः |
२) व्यापकाभावेन व्याप्याभावः सिध्यति | यत्र यत्र व्यपकाभावः तत्र तत्र व्याप्याभावः | वह्न्यभावः, धूमाभावः → यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः |
३) व्याप्याभावाभावेन व्यापकाभावाभावः सिध्यति | यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावाभावः | धूमाभावाभावः, वह्न्यभावाभावः → यत्र यत्र धूमाभावाभावः तत्र तत्र वह्न्यभावाभावः |
अत्र प्रथमं वाक्यं साधु इति चेत्, द्वितीयं वाक्यमपि साधु | द्वितीयं वाक्यं साधु इति चेत्, तृतीयं वाक्यमपि साधु | अस्य सिद्धान्तस्य आधारेण, व्यतिरेकव्याप्त्या साध्यं सिध्यति | अपि च यत्र हेतुः पक्षभिन्नाधिकरणे न भवति, तत्र व्यतिरेकदृष्टान्तेन एव सिध्यति इत्यस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यात् आरभ्यते |
अत्र विंशतिः पर्वताः सन्ति | तेषु, पञ्चदशसु वह्निः अस्ति, सप्तसु च धूमः अस्ति | पञ्चसु पर्वतेषु वह्न्यभावः अस्ति, त्रयोदशसु पर्वतेषु च धूमाभावः अस्ति | पश्यतु चित्रे वह्निः व्यापकः, धूमः व्याप्यः | यत्र यत्र धूमः अस्ति (सप्तसु पर्वतेषु), तत्र तत्र वह्निः अवश्यम् अस्ति | यतोहि वह्निः धूमस्य अपेक्षया व्यापकः | अधुना विपरीतत्वेन पश्यामः | विंशत्यां पर्वतेषु केवलं सप्तसु धूमः वर्तते, अतः तदधिकेषु धूमाभावः अस्ति, नाम त्रयोदशसु | किन्तु पञ्चदशसु वह्निः अस्ति—नाम विंशत्यां अधिकेषु—अतः न्यूनेषु एव वह्न्यभावः वर्तते, केवलं पञ्चसु | त्रयोदशसु पर्वतेषु धूमाभावः, पञ्चसु च वह्न्यभावः | पश्यतु चित्रे धूमाभावः व्यापकः, वह्न्यभावः व्याप्यः | यत्र यत्र वह्न्यभावः अस्ति (पञ्चसु पर्वतेषु), तत्र तत्र धूमाभावः अवश्यम् अस्ति | अतः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, किन्तु यत्र यत्र व्यपकाभावः तत्र तत्र व्याप्याभावः | यः व्याप्यः आसीत्, नाम धूमः, तस्य अभावः व्यापकः भवति | अपि च यः व्यापकः आसीत्, नाम वह्निः, तस्य अभावः व्याप्यः भवति |
तत्र च सप्तसु पर्वतेषु धूमः + त्रयोदशसु पर्वतेषु धूमाभावः = विंशतिः पर्वताः | नाम एवं न कोऽपि पर्वतः अस्ति यस्मिन् न धूमः अस्ति न वा धूमाभावः | सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः; धूमः नास्ति चेत् धूमाभावः, धूमाभावः नास्ति चेत् धूमः | आहत्य विंशतिः पर्वताः; अधिकेषु धूमः अस्ति चेत्, न्यूनेषु धूमाभावः | एवमेव वह्निना वह्न्यभावेन च सह | तदर्थमेव यः व्यापकः अस्ति (अत्र वह्निः), तस्य अभावः व्याप्यस्य (अत्र धूमस्य) अभावस्य अपेक्षया व्याप्यः भवति | ७ (धूमः) + १३ (धूमाभावः) = २० (पर्वताः) = १५ (वह्निः) + ५ (वह्न्यभावः) |