10---nyAyashAstram/25---AdyapatanasamavAyikAraNaM-gurutvaM---dalasArthakyam

Revision as of 18:33, 11 May 2021 by Ramapriya (talk | contribs) (Added text and audio link)

10---nyAyashAstram/25---AdyapatanasamavAyikAraNaM-gurutvaM---dalasArthakyam


ध्वनिमुद्रणानि--

१) uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam_+_gurutvalakShaNe-dalasArthakyam_2018-04-21

२) gurutvalakShaNe-dalasArthakyam_+_dvividhalakShaNaM-sAmAnyaM-visheShashca_2018-04-28


आद्यपतनासमवायिकारणं गुरुत्वम्‌ | असमवायिकारणं किम्‌ ? असमवायिकारणस्य लक्षणद्वयम्‌ अस्ति— समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणत्वम्‌ इति एकं; समवायसम्बन्धावच्छिन्नकार्यतानिरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नकारणत्वम्‌ इति द्वितीयम्‌ | अत्र प्रथमं लक्षणं ग्राह्यम्‌ | गुरुत्वलक्षणे आद्यपतनासमवायिकारणम्‌ इत्यस्ति | तर्हि कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः; कारणतावच्छेदकसम्बन्धोऽपि समवायसम्बन्धो भवति असमवायिकारणे गुरुत्वे |


तदाधारेण लक्षणस्वरूपं किं निर्मीयते प्रथमतः ? कार्यम्‌ आद्यपतनं, कार्यतावच्छेदकधर्मः आद्यपतनत्वम्‌ | कार्यतावच्छेदकसम्बन्धः समवायः | तर्हि समवायसम्बन्धावच्छिन्न-आद्यपतनत्वावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम्‌ इति प्रथमतया आपतति |


विद्याधर्यामपि तथैव साक्षात्‌ लिखितं, पृ०स० ११० इत्यस्मिन्‌— '...अतः समवायसम्बन्धावच्छिन्न-आद्यपतनत्वावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे भवति | तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्‌ |' अनन्तरं किन्तु कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य निष्कासनानन्तरम्‌ ११२ इति पृष्ठे अस्ति यत्— 'एवं च दोषाभावात्‌ गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति' | तर्हि अनेन भ्रमो जायते; गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं देयं वा, न देयं वा ?


तत्र दलचिन्तने कृते सति, आद्यपतनत्वावच्छिन्नत्वानुपादाने अवशिष्यते समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | तत्र च घटस्य असमवायिकारणकृते कपालद्वयसंयोगातिव्याप्तिः | घटनिष्ठकार्यता समवायसम्बन्धावच्छिन्ना; कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्धावच्छिन्ना | अतः समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता कपालद्वयसंयोगेऽपि अस्ति | तदर्थं गुरुत्वलक्षणे आद्यपतनत्वावच्छिन्नत्वं योजितम्‌ | आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता इति यदा उच्यते, तदा कपालसंयोगे तन्नास्ति | अनेन कपालसंयोगातिव्याप्तिः वारिता |


अधुना कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न दीयते चेत्‌ को दोषः इति प्रश्नः आयाति | आद्यपतनत्वावच्छिन्नत्वस्य योजनेन कपालसंयोगातिव्याप्तेः वारणत्वात्‌ कार्यतायां समवायसम्बन्धावच्छिन्नत्वं नावश्यकम्‌ | तर्हि लक्षणं भवति आद्यपतनत्वावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता | एवं सति असमवायिकारणस्य सामान्यलक्षणं न गच्छति | कुत्रापि च दोषो नास्ति | यदा कार्यतायाम्‌ आद्यपतनत्वावच्छिन्नत्वं निवेश्यते, तदा समवायसम्बन्धावच्छिन्नत्वं देयं नास्त्येव |


एवं चेत्‌ प्रथमतया किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं दत्तम्‌ ? आरम्भे आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता इत्युक्तम्‌ | तत्र नावश्यकं चेत्‌, किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं योजितम्‌ ? तत्तु आपाततः आगतम्‌ | कुतः ? मूले तर्कसङ्ग्रहे गुरुत्वलक्षणं किम्‌ ? आद्यपतन-असमवायिकारणं गुरुत्वम्‌ इति | असमवायिकारणम्‌ इति पदम्‌ अस्ति |


तत्र कोऽपि पृच्छति, तर्हि तत्र 'असमवायि' इति मास्तु, केवलम् आद्यपतनकारणं गुरुत्वम्‌ इति भवतु | तदानीं समवायिकारणम्‌ अपि आगच्छति, असमवायिकारणम्‌ अपि आगच्छति, निमित्तकारणमपि आगच्छति | आद्यपतनकारणं तु स्वयं कन्दुकं, तस्य समवायिकारणत्वात्‌ | निमित्तकारणं दण्डादिकम्‌ | अतः कारणविशेषस्य प्रवेशो नास्ति चेत्‌ त्रिविधकारणानि इति कृत्वा अतिव्याप्तिः | तस्य वारणार्थम्‌ असमवायिकारणं वक्तव्यम्‌ |


अपि च यदा 'असमवायिकारणम्‌' इति पदं मूलवाक्ये (आद्यपतनासमवायिकारणं गुरुत्वम्‌ इत्यस्मिन्‌) शृणुमः, तदा झटिति 'लक्षणं किम्‌' इति प्रश्ने किम्‌ आगच्छति ? असमवायिकारणस्य लक्षणं यदस्ति, प्रथमं लक्षणं, मनसि आगच्छत्येव | समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः, कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः | अतः प्रथमतया यदा लक्षणस्य ऊहां कुर्मः, तदा असमवायिकारणस्य लक्षणं तस्मिन्‌ योजयित्वा वदामः— आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता | मूलवाक्यानुसारम्‌ असमवायिकारणस्य लक्षणं तस्मिन्‌ आगच्छत्येव | तदनन्तरं यदा विचारयामः, तदा पश्यामः यत्‌ कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न दीयते चेदपि को‍ऽपि दोषो नास्ति |


यतोहि लक्षणं द्विविधतया चिन्तयितुं शक्यते— सामान्यलक्षणं, विशेषलक्षणं च | यथा प्रथमम्‌ असमवायिकारणस्य सामान्यलक्षणं, तदा कस्यचित्‌ असमवायिकारणलक्षणम्‌ इति विशेषलक्षणम्‌ | यथा 'असमवायिकारणस्य किं लक्षणम्‌' इति एकः प्रश्नः; द्वितीयप्रश्नः 'घटं प्रति कपालद्वयसंयोगः असमवायिकारणं, कपालद्वयसंयोगात्मकं यदसमवायिकारणं, तस्य किं लक्षणम्‌' इति द्वितीयप्रश्नः | तर्हि अत्र प्रश्नः द्विविधः | 'असमवायिकारणस्य किं लक्षणम्‌' इति सामान्यप्रश्नः | तत्र सामान्योत्तरं देयं— समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | अत्र धर्मस्य प्रवेशो नास्ति | सम्बन्धमात्रप्रवेशः | पुनः यदि पृच्छ्यते कपालद्वयसंयोगनिष्ठं यत्‌ घटासमवयिकारणत्वं, तस्य किं लक्षणम्‌ ? अधुना धर्मस्य प्रवेशं कर्तुं शक्यते | कार्यं कारणं च तथा निर्दिष्टं चेत्‌, वदामः प्रथमतया घटत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता | किन्तु तदा पश्यामः यत्‌ तत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य आवश्यकता नास्ति |


अन्यत्‌ उदाहरणम्‌ | द्रव्यस्य किं लक्षणम्‌ ? गुणवत्त्वं द्रव्यस्य लक्षणम्‌ | नाम द्रव्यस्य सामान्यलक्षणम्‌ | अधुना पृथिवी द्रव्यम्‌ अस्ति | तर्हि को‍ऽपि प्रश्नं कुर्यात्— 'पृथिवी इति द्रव्यस्य किं लक्षणम्‌ ?' पृथिव्याः लक्षणं किम्‌ इति अपृष्ट्वा, पृथिवी-द्रव्यस्य लक्षणं किम्‌ इति | नाम पृथिव्यात्मकद्रव्यस्य लक्षणमिति तात्पर्यम्‌ | न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत्‌ जानाति सः यत्‌ पृथिवी द्रव्यम्‌ अस्ति, अतः, विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति | उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत्‌ अन्येभ्यः द्रव्येभ्यः व्यावर्तयति | स च विशेषः गन्धः |

तर्हि पृथिवी-द्रव्यस्य प्रश्ने सति, उत्तरत्वे प्रथमतया विचारयामः यत्‌ द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्यां च गन्धः अस्ति इति कृत्वा 'गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम्‌' इति | अस्मिन्‌ लक्षणे कश्चन दोषः अस्ति वा ? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषो वर्तते किम्‌ ? त्रिषु दोषेषु अव्याप्तिर्वा अतिव्याप्तिर्वा असम्भवो वा नास्ति | किन्तु यदा दलचिन्तनं कुर्मः, तदा पश्यामः यत्‌ वस्तुतः गन्धवत्त्वम्‌ इत्येव पर्याप्तम्‌ | गुणवत्त्वम्‌ इत्यस्य आवश्यकता नास्ति |


तर्हि किमर्थम्‌ आरम्भे गुणवत्त्वस्य निवेशनं कृतम्‌ ? यः उत्तरदाता, सः प्रश्नं दृष्ट्वा उत्तरयति | प्रश्नः कीदृशः ? पृथिवी-द्रव्यस्य किं लक्षणम्‌ इति | प्रश्नम्‌ अधिकृत्य द्रव्यस्य सामान्यलक्षणम्‌ आगच्छति एव | पुनः पृथिव्याः कश्चन विशेषः वक्तव्यः, अन्येभ्यः व्यावर्तकः | इति विचारे उत्तरं दत्तं तात्कालिकरूपेण | 'गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम्‌' इति | तादृशप्रश्नः अस्ति चेत्‌ तादृशम्‌ उत्तरं भवेत्‌ इति वस्तुतः नास्ति | परन्तु एतादृशप्रश्ने सति, प्रश्नम्‌ अनुसृत्य को‍ऽपि तादृशम्‌ उत्तरं ददाति चेत्‌, एवम्‌ उच्यमाने सति अपि सामान्यतया दोषो नास्ति |


अनेन बुद्धं यत्‌ को‍ऽपि लक्षणं पृच्छति चेत्‌, तर्हि उत्तरदानप्रयासे तस्य वस्तुनः सामान्यलक्षणं ज्ञायते चेत्‌, तल्लक्षणं योजयित्वा कमपि अन्यविशेषं योजयित्वा प्रायः दोषो न भवति | किन्तु यदा विचारयामः प्रत्येकं दलस्य प्रयोजनम्‌ अस्ति न वा इति, तदा तु पर्यवसितं किम्‌ ? वस्तुतः गन्धवत्त्वं यत्‌ उक्तं, तत्‌ किमर्थम्‌ उक्तम्‌ ? जलादिभ्यः व्यावर्तनाय | किन्तु पश्चात्‌ चिन्तनावसरे ज्ञातं यत्‌ अयं विशेषः गन्धवत्त्वं न केवलं जलादिकं व्यावर्तयति, अपि तु सर्वेभ्यः अन्येभ्यः व्यावर्तयति | तादृशसामर्थ्यम्‌ अस्ति | अतः अयमेव विशेषः पर्याप्तः | गुणवत्त्वं नापेक्षितम्‌ इति ज्ञात्वा पश्चात्‌ त्यजामः |


मूलं किमस्ति ? आद्यपतनासमवायिकारणं गुरुत्वम्‌ | अनेन गुरुत्वम्‌ असमवायिकारणम्‌ इति अस्माभिः बुद्धम्‌ | तर्हि झटिति किं लक्षणं निर्मीयते ? समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति | किन्तु अग्रे सामान्यलक्षणं नापेक्षितं; गुरुत्वरूपस्य विशेषस्य लक्षणं वक्तव्यम्‌ | तर्हि कार्यविशेषः कः ? आद्यपतनम्‌ | अनेन धर्मावच्छेदेकं योजनीयम्‌ | आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित-समवायसम्बन्धावच्छिन्नकारणता, इति कथनेन त्रिषु दोषेषु कोऽपि दोषो नास्ति | किन्तु यदा विचार्यते, तदा आद्यपतनत्वावच्छिन्न-पद-योजने सति, तस्मिन्‌ तादृशसामर्थ्यम्‌ अस्ति यत्‌ अन्येभ्यः सर्वेभ्यः व्यावर्तयति, यस्मात्‌ कार्यतायां समवायसम्बन्धावच्छिन्नत्वे वैयर्थ्यम्‌ आगतम्‌ | समवायसम्बन्धावच्छिन्नत्वं नावश्यकम्‌ इति चेत्‌, किमर्थम्‌ आरम्भे संयोजितम्‌ ? प्राप्तम्‌ अस्ति | 'असमवायिकारण'-पद श्रवणे तस्य प्राप्तिरस्ति | अतः दत्तं; परं यदा 'व्यर्थम्‌' इति बुद्धं, तदा त्यक्तञ्च |


Swarup – April 2018


---------------------------------


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].