11---bhAShAvarga-dhvanimudraNAni/03---saMskRutam-2013
अत्र अस्ति अस्माकं प्रारम्भिकस्तरीयः वर्गः | ये संस्कृतस्य अध्ययनस्य आरम्भं कर्तुं इच्छन्ति, ते अत्र आगत्य शृणुयुः | अस्माकं पुस्तकम् अस्ति "अभ्यासपुस्तकम्" इति | Jan-March 2014 भारतदेशे आसम्; तस्मिन् समये मम अन्ये छात्राः एतं वर्गं चालयन्ति स्म | तासां कक्षायां ध्वनिमुद्रणानि न सन्ति; तानि त्यक्त्वा सर्वम् अत्र लभ्यते |
प्रतिसप्ताहं वर्गात् पश्चात्, तस्य दिनस्य ध्वनिमुद्रणं अत्र स्थाप्यते अपि च अग्रे गत्वा तथैव करिष्यते | शनैः शनैः यानि करपत्राणि मया निर्मितानि तानि सर्वाणि अत्र स्थापयिष्यन्ते | किमपि न प्राप्यते चेत् अथवा कोऽपि प्रश्नः सूचना वा चेत्, अवश्यं मम सम्पर्कं कुर्वन्तु-- स्वरूपः <dinbandhu@sprynet.com>.
प्रायः वर्गः #17 इत्यस्मात् आरभ्य प्रत्येकं वर्गस्य अन्ते एकां कथां पठामः (पञ्चतन्त्र कथाः) | अस्य जालपुटस्य अधोभागे pdf-रूपेण एताः सर्वाः कथाः सन्ति, download इत्यर्थम् | अनेन ध्वनिमुद्रणस्य श्रवणसमये पठितुम् अपि शक्नोति |
धेयम्-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".
अभ्यासपुस्तकम् (पुस्तकम् अत्र लभ्यते) (downloadable pdf atra)