13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
तुमुन् प्रत्ययः
 
== <big>'''तुमुन् प्रत्ययः'''</big>   ==
 
 
<big>'''एतत् संभाषणम् पठत अवगच्छत च –'''</big>
 
<big>पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?</big>
 
<big>पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |</big>
 
<big>पुत्रः - – जनाः पुस्तकानि क्रेतुं आगच्छन्ति किल ?</big>
 
<big>पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |  </big>
 
<big>पुत्रः – बहिः क्रिडासाधनानि किमर्थं सन्ति ?</big>
 
<big>पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति । </big>
 
<big>पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।</big>
 
<big>पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।</big>
 
 
<big>अवधेयम् ---</big>
 
<big>कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
 
 
<big>रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |</big>
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|</big>
 
 
<big>अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |</big>
 
<big>यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |</big>  
 
 
<big>“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
=== <big>तुमुन्नन्तरूपाणि ---</big> ===
teachers
752

edits