तुमुन् प्रत्ययः

Revision as of 22:58, 4 June 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH

तुमुन् प्रत्ययः

Home

तुमुन् प्रत्ययः  

एतत् संभाषणम् पठत अवगच्छत च –

पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?

पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |

पुत्रः - – जनाः पुस्तकानि क्रेतुं आगच्छन्ति किल ?

पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |  

पुत्रः – बहिः क्रिडासाधनानि किमर्थं सन्ति ?

पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति । 

पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।

पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।


अवधेयम् ---

कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –


रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |

अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|


अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |

यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |  


“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।

तुमुन्नन्तरूपाणि ---