14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH

Revision as of 15:36, 29 June 2023 by Vidhya (talk | contribs) (Created page with " <big>तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः</big> === '''<big>अ)   सामान्यतत्पुरुषसमास:</big>''' === <big>सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्र...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH


तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः

अ)   सामान्यतत्पुरुषसमास:

सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति |

सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –

१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;

२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;

३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;

४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;

५) सप्तमी-तत्पुरुषसमासः,  यथा - कर्मणि कुशलः = कर्मकुशलः ;

६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |

यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते |


परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) =

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् |