14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 370:
 
<big>सामान्यतः समासः विकल्पेन भवति '''विभाषा''' (२.१.११) इत्यस्य अधिकारात् | अर्थात् व्यस्तप्रयोगः अपि कर्तुं शक्यते, समस्तप्रयोगः अपि कर्तुं शक्यते |  परन्तु स्मर्तव्यं यत् कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति | अग्रे सूत्रस्य पठनावसरे परिशीलयामः कुत्र समासः नित्यः इति |</big>
 
----
 
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२)'''</big> ===
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति|</big>
 
=== '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) ===
<big>अप, परि, बहि इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अपश्च परिश्च बहिश्च अञ्चुश्च तेषामितरेतरयोगद्वन्द्वोऽपपरिबहिरञ्चवः| अपपरिबहिरञ्चवः प्रथमाबहुवचनान्तं पञ्चम्या तृतीयान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य  वचनपरिमाणः इति कृत्वा बहुवचने अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— अपपरिबहिरञ्चवः सुपः पञ्चम्या सुपा सह अव्ययीभावःसमासः विभाषा |</big>
 
 
'''<big>अप, परि ,आङ् इत्यतेषां योगे पञ्चमी</big>'''
 
<big>अप, परि च एतौ द्वौ '''प्रदायः''' (१.४.५८) इति सूत्रेण निपातसंज्ञकौ भवतः | तत्पश्चात् '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण तयोः अव्ययसंज्ञा अपि भवति | बहिस् इति शब्दः स्वरादिगणे अस्ति, अतः '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण अव्ययसंज्ञकः भवति | अप, परि, बहि: इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते इति उपरितनसूत्रेण ज्ञायते | परन्तु एतेषां शब्दानां योगे कथं पञ्चमीविभक्तिः विधीयते इति अग्रे उच्यते | अञ्चुधातुतः निष्पन्नाः दिक्वाचकाः अव्ययानि भवन्ति '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८)  इति सूत्रेण| अतः एव प्राक्, प्रत्यच्, उदच् इत्येतानि अव्ययानि सन्ति|</big>
 
<big>कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | '''कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति |''' एकादश कर्मप्रवचनीयाः अष्टाध्यायां निर्दिष्टाः सन्ति - अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्यायाम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' ( १.४.८८) इति सूत्रेण |</big>
 
<big>१) अनु = लक्षणार्थे, तृतीयार्थे, हीनार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>२) उप = हीनार्थे, अधिकार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>३) अप =  वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>४) परि = लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे, वर्जनार्थे, अनर्थाकार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>५) आङ् = मर्यादार्थे, अभिविध्यर्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>६) प्रति =  लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे  च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>७) अभि = लक्षणार्थे, इत्थंभूताख्यानार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>८) अधि = अनर्थाकार्थे कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>९) सु =  पूजायां कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>१०) अति = पूजायाम् अतिक्रमणे च अर्थे कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>१२) अपि = पदार्थे, सम्भावनार्थे, अन्वसर्गार्थे, गर्हार्थे, समुच्च्यार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>'''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति | वर्जनार्थं नाम विहाय, त्यागः, अतिरिच्य इत्यर्थाः |</big>
 
<big>उदाहरणम् -</big>
 
<big>'''अप''' त्रिगर्तेभ्यः वृष्टः देवः | अप इति वर्जनार्थे अस्ति इत्यतः '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिर्गतः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | अप इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | अतः त्रिगर्तेभ्यः इति उक्तम् |</big>
 
<big>एवमेव '''परि''' त्रिगर्तेभ्यो वृष्टो देवः इति उदाहरणम् | परि इति वर्जनार्थे अस्ति इत्यतः '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण परि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिगर्तः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | परि इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते '''पञ्चम्यपाङ्परिभिः  '''(२.३.१०) इति सूत्रेण |</big>
 
<big>यदा '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे ( त्यागः)  कर्मप्रवचनीयसंज्ञा भवति तदा '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण अप, परि इति पदयोः योगे पञ्चमीविभक्तिः भवति | '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रे आङ् इत्यपि उक्तम् | आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण |</big>
 
<big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे, अभिविध्यर्थे च | मर्यादा नाम तेन विना इत्यर्थः | अभिविधिः नाम तेन सह इत्यर्थः | यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | तद्यथा -</big>
 
<big>१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति</big>
 
<big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
 
<big>एतावता ज्ञातं यत् अप,परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण | तत्पश्चात् तयोः योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |</big>
 
<big>'''अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी'''</big>
 
<big>'''अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९) इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे अपि पञ्चमीविभक्तिः भवति | अञ्चु गतिपूजनयोः इति भ्वादिगणीयः धातुः अस्ति | दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | प्राक्(च्), प्रत्यक्(च्), उदच् इत्येते क्विन्प्रत्ययान्ताः शब्दाः अञ्चुधातुं प्रयुज्य निष्पन्नाः | प्राच्, प्रत्यच्, उदच् इत्येते शब्दाः देशस्य कालस्य वा विशेषणरूप्रेण प्रयुज्यन्ते तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः | यथा - प्राङ् देशः, प्राङ् कालः, प्रत्यङ् देशः, प्रत्यङ् कालः, उदङ् देशः, उदङ् कालः इति |</big>
 
<big>प्राक्(च्), प्रत्यक्(च्), उदच्  इत्येतेषां प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते | प्राक्(च्), प्रत्यक्(च्), उदच् इत्येतेभ्यः शब्देभ्यः स्त्रीत्वविवक्षायां ङीप् इति स्त्रीप्रत्ययं योजयित्वा उदीची दिक् ( north), प्राची दिक् ( east), अवाची दिक् ( south), प्रतीची दिक् ( west)  इत्यादयः दिग्वाचकशब्दाः  निष्पन्नाः |  </big>
 
<big>अञ्च्' (अञ्चुँ गतौ) इति धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः '''ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च''' ( ३.२.५९) इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिक्वाचकशब्दाः सिद्ध्यन्ति | यथा -</big>
 
<big>१) प्र + अञ्च् + क्विन् → प्राच् | पूर्वः इत्यर्थः |</big>
 
<big>२) प्रति + अञ्च् + क्विन् → प्रत्यच् | पश्चिमः इत्यर्थः |</big>
 
<big>३) उद् + अञ्च् + क्विन् → उदच् | उत्तरः इत्यर्थः |</big>
 
<big>प्राच्यां दिशि / प्राच्याः दिशः / प्राची दिक्</big>
 
<big>प्राच्याम् / प्राच्याः / प्राची + अस्ताति → दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः देशवाचिभ्यः शब्देभ्यः, दिक्‌शब्देभ्यः, कालवाचिभ्यः शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो '''दिग्देशकालेष्वस्तातिः''' ( ५.३.२७)  इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते | परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य 'अस्ताति' प्रत्ययस्य '''अञ्चेर्लुक्''' ( ५.३.३०) इत्यनेन लुक् विधीयते | '''लुक् तद्धितलुकि''' ( १.२.४९)  इति स्त्रीप्रत्ययस्य अपि लुक्  भवति | स्त्रीप्रत्यस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते | सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति | अस्य '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८)  इति अव्ययसंज्ञा विधीयते | एवमेव प्रत्यच, उदच् इत्यत्रापि |</big>
 
<big>अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्यायाम् |</big>
 
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रं  समासप्रकरणे अस्ति, तत् सूत्रं वदति बहिः इति सुबन्तं पञ्चम्यन्तेन सुबन्तेन सह समस्यते इति | व्यस्तप्रयोगे ग्रामात् बहिः इति वदामः चेत् तत्र बहिः इति पदस्य योगे पञ्चमी प्रयोगः दृश्यते | यद्यपि तदर्थं कारकप्रकरणे सूत्रं नास्ति तथापि बहिः इति पदस्य योगे तु समासं कर्तुं सूत्रम् अस्ति '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति | एतत् सूत्रमेव ज्ञापकं यत् बहिः इति पदस्य योगे पञ्चमी भवति इति | तदर्थमेव '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रे पञ्चम्या इति पदस्य प्रयोगः दृश्यते | अनेन ज्ञायते यत् बहिः इति पदस्य योगे पञ्चमीविभक्तिः भवति इति |</big>
 
<big>अष्टाध्यायां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |</big>
 
<big>आहत्य अप, परि, बहिः, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः च, इत्येतेषां योगे पञ्चमीविभक्तिः विधीयते इति ज्ञातवन्तः | अधुना तेषां शब्दानां सुबन्तेन सह समासः विकल्पेन  विधीयते '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२)  इत्यनेन सूत्रेण |</big>
 
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रस्य उदाहरणानि -</big>
 
<big>अप इत्युक्ते वर्जने इति अर्थः |  परि इत्यस्य वर्जने, परिमाणम् इत्यादयः अर्थाः सन्ति | अञ्चु इति धातुतः निर्मिताः शब्दाः अपि स्वीकरणीयाः |</big>
 
<big>यथा -</big>
 
<big>१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः| नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति| समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति|</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अप + विष्णु + ङसि |  अत्र अप इति शब्दः वर्जनार्थे अस्ति | '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः अपविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे अप विष्णोः संसारः इति व्यस्तप्रयोगः अपि शक्यते |</big>
 
<big>२) परि विष्णोः संसारः = परिविष्णु / परि विष्णोः संसारः | नाम विष्णुं विहाय संसारः अस्ति | परि इति शब्दः वर्जनार्थकः अस्ति | समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे परिविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः परि विष्णोः संसारः इत्यपि भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' परि + विष्णु + ङसि | अत्र परि इति शब्दः वर्जनार्थे अस्ति| '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः  च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः  परिविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे परि विष्णोः संसारः इति व्यस्तप्रयोगः अपि भवति |</big>
 
<big>३) बहिर्वनात् = बहिर्वनम्/ बहिर्वनात्|</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' बहिस् + वन + ङसि | बहिस् इति पदस्य केनापि सूत्रेण कर्मप्रवचनीयसंज्ञा अपि न विधीयते न वा तस्य योगे पञ्चमीविभक्तिः विधीयते | परन्तु सूत्रकारेण '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रे उक्तं यत् बहिस् -शब्दः पञ्चम्यन्तसुबन्तेन सह समस्यते इति | एतत् सूत्रमेव ज्ञापकम् अस्ति यत् बहिस्-शब्दस्य योगे पञ्चमी भवति इति | अतः एव लौकिकविग्रहवाक्ये पञ्चम्यन्तस्य प्रयोगः क्रियते |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः बहिस्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | समासप्रक्रियायां विभक्तेः लोपः भूत्वा बहिस्+वन इति प्रातिपदिकं सिद्धं भवति | अधुना '''ससजुषो रुः''' ( ८.२.६६) इत्यनेन रुत्वं भूत्वा बहिर्वन इति प्रातिपदिकं सिद्ध्यति |</big>
 
<big>बहिर्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति| अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''बहिर्वनात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>बहिर्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''बहिर्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''बहिर्वनं/ बहिर्वनेन, बहिर्वनं/ बहिर्वने |''' अन्यासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति |</big>
 
<big>बहिर्वनम् इति समासे नकारस्य णत्वं न भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |</big>
 
<big>४) प्राग् वनात् = प्राग्वनम्, प्राग् वनात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' प्राग् + वन + ङसि | अत्र प्राग् इति शब्दः क्विन्प्रत्ययान्तशब्दः अस्ति | प्र +अञ्चु धातुतः क्विन् इति प्रत्ययं योजयित्वा प्राक् इति पदं सिद्ध्यति | '''अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९) इति सूत्रेण अञ्चचु इत्यस्य योगे  पञ्चमीविभक्तिः भवति | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु धातुतः निष्पन्नाः सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः प्राग्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | अतः समासप्रक्रियायां विभक्तेः लोपः भूत्वा प्राग्+वन इति प्रातिपदिकं सिद्धं भवति | अधुना  '''झलां जशोऽन्ते''' (८.२.३९)इति सूत्रेण जश्त्वं भूत्वा प्राग्+वन इति प्रातिपदिकं भवति | तत्पश्चात् सुबुत्पत्तिः भवति |</big>
 
<big>प्राग्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''प्राग्वनात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>प्राग्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने |''' अन्यासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति |</big>
 
<big>प्राग्वनम् इति समासे नकारस्य णत्वं न भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |</big>
 
 
 
<big>एवमेव –</big>
 
<big>अप त्रिगर्तात् = अपत्रिगर्तम्, अप त्रिगर्तात् |</big>
 
<big>परि त्रिगर्तात् = परित्रिगर्तम्, परि त्रिगर्तात् |</big>
 
<big>बहिर्ग्रामात् = बहिर्ग्रामम्, बहिर्ग्रामात् |</big>
 
<big>बहिर्विकारेभ्यः ( outside of transformations) = बहिर्विकारम्, बहिर्विकारेभ्यः |</big>
 
<big>प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |</big>