14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH

Revision as of 06:50, 31 May 2021 by Vamsisudha (talk | contribs)

14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH
२०२१ ध्वनिमुद्रणानि
)  avyayiibhAvasamAssaH-- yathAsAdrishyE_2021-01-09
२) avyayiibhAvasamAsaH--yAvadavadhAraNam+ sup pratina mAtrArthE_2021-01-16
३) avyayiibhAvasamAsaH-- sup pratinA mAtrArthe_ 2021-01-23
४)  avyayiibhAvasamAsaH-- sup pratinA mAtrArthe+ akSHa shalAkA sankhyAya pariNA_ 2021-01-30
५)  avyayiibhAvasaMasaH-- apaparibahiraNycavaH panchamyA_ 2021-02-06
६)   avyayiibhAvasamAsaH-- apa-pari-bahir-aNYcavaH panchamyA _ 2021-02-12
७) avyayiibhAvasamAsaH-- apa-pari-bahir-aNycavaH panchamyA - udAharaNani_ 2021-02-20
८) avyayiibhAvasamAsaH--abhyAsaH+ Ang maryAdhAbhividhyoH_ 2021-02-27
९) avyayiibhAvasamAsaH--Ang maryadhAbhividhyoH+udAharaNani_  2021-03-06
१०) avyayiibhAvasamAsaH-- lakShaNenAbhipratI, AbhimukhyE_ 2021-03-13
११) avyayiibhAvasamAsaH--lakshaNenAbhiprati AbhimukhyE- udAharaNAni_ 2021-03-20
१२) avyayiibhAvasamAsaH- anuryatsamayA_ 2021-03-27
१३) avyayiibhAvasmAsaH--yasyacAyAmaH_ 2021-04-03
१४) avyayiibhAvasamAsaH--anuryatsamayA+ tishtadguprabhRitIni ca_ 2021-04-10
१५)avyayiibhAvasamAsaH-tishtHadguprabhRitIni ca+ pArE madhyE SHaSHThya vA_2021-04-17
१६) avyayiibhAvasamAsaH- pArE madhyE ShaShTyA vA _ 2021-04-24
१७) avyayiibhAvasamAsaH- saMkhyA vaMshyEna_ 2021-05-01
१८)  avyayiibhAvasamAsaH-- nadIbhishca_ 2021-05-08
१९) avyayiibhAvasamAsaH-- bhAshitapumskam+ anyapadArthe ca saMjYAyAm_2021-05-15


अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)

यथाऽसादृश्ये (२.१.७) [2]

सम्प्रति अव्ययीभावः ( २.१.५) इति अधिकारे २.१.७ - २.१.२१ इति अन्तपर्यन्तम् यानि अव्ययीभावसम्बद्धसूत्राणि सन्ति, तानि अवलोकयाम | अस्मिन् क्रमे प्रथमं सूत्रम् अस्ति यथाऽसादृश्ये ( २.१.७) इति| एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | यथाऽसादृश्ये ( २.१.७) इति सूत्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु समास: |


2) सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|


यथाऽसादृश्ये (२.१.७) = सादृश्यम् इति अर्थं विहाय अपरेषु अर्थेषु "यथा" इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति | न सादृश्यम् असादृश्यं तस्मिन् आसादृश्ये | यथा अव्ययम्, असादृश्ये सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— असादृष्ये यथा अव्ययं सुप् सुपा सह अव्ययीभावः समासः |

यथा इति अव्ययं वीप्सार्थे, योग्याथार्थे च सुबन्तेन सह समस्यते यथाऽसादृश्ये (२.१.७) इति सूत्रेण| पदार्थानतिवृत्तिः इत्यस्मिन् अर्थे यथा इत्यस्य समासः सिद्ध्यति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इत्यनेन एव, अतः यथाऽसादृश्ये (२.१.७) इति सूत्रस्य आवश्यकता नास्ति |



यथा—

१) ये ये वृद्धाः = यथावृद्धम् | अत्र यथा इति पदं सादृश्यर्थे नास्ति | ये ये वृद्धाः` इत्यत्र यथाशब्दः वीप्सायां वर्तते, अतः `यथावृद्धम्` इति समासः सिद्धः भवति|

वाक्यं = यथावृद्धं ब्राह्मणानाम् आमन्त्रयस्व | ये ये वृद्धब्राह्मणाः सन्ति तान् आह्वय इत्यर्थः |

२) ये ये अध्यापकाः = यथाध्यापकम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |

३) ये ये छात्राः = यथाछात्रम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |

४) रूपस्य योग्यं = यथारूपम् | अत्र यथाशब्दो योग्यतायां वर्तते |

५) यथा हरिस्तथा हरः – हरेः उपमानत्वं यथाशब्दः द्योतयति | यथा शब्दः सादृश्यार्थं सूचयति| यथा हरिः अस्ति तथैव हरः अपि अस्ति |  यथा हरिस्तथा हरः इति वाक्ये यथा शब्दः सादृस्यार्थे अस्ति, अतः अव्ययीभावसमासः न भवति यथाऽसादृश्ये (२.१.७) इति सूत्रेण |

६) यथा देवदत्तः तथा यज्ञदत्तः | अस्मिन् वाक्ये यथा शब्दः सादृस्यार्थं सूचयति, अतः अव्ययीभावसमासः न भवति|



प्रश्नः उदेति यत् यथा इति अव्ययस्य अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इति सूत्रेणैव अव्ययीभावसमासः सिद्धः, तर्हि किमर्थम् प्रकृतसूत्रे पुनः उक्तः ?


समाधानम् —

यथा इत्यस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | एतेषु अर्थेषु  तु समासः प्राप्तः आसीत्

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इति सूत्रेणैव तर्हि प्रकृतसूत्रस्य का आवश्यकता इति पृष्टे सति प्रकृतसूत्रेण प्राप्तसमासस्य निषेधः क्रियते सादृश्यार्थे |

काशिकायाम् उक्तम् अस्ति — यथार्थे यत् अव्ययं पूर्वेण एव सिद्धे समासे सूत्रम् इदं सादृश्यप्रतिषेधार्थम् इति | अर्थात् यथा इति अव्ययस्य समासः सिद्धः अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इति सूत्रेणैव, तर्हि किमर्थं पाणिनिना पुनः यथाऽसादृश्ये (२.१.७) इति सूत्रं कृतम् इति चेत् सादृश्स्यार्थस्य निषेधार्थम् | यथा इति अव्ययस्य सादृश्यं विहाय अन्येषु अर्थेषु एव अत्र अव्ययीभावसमासः उच्यते |

सारांशः = सादृश्यं-योग्यता-वीप्सा-पदार्थानतिवृत्तिः इति रूपे वर्तमानं यथा इति अव्ययं समस्यते इति अर्थस्य यथार्थत्वात्  ( नाम अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इति सूत्रेणैव)  सिद्धे नियमार्थम् यथाऽसादृश्ये (२.१.७) इति सूत्रम् उच्यते, असादृश्ये एव इति | तर्हि नियमसूत्रं नाम किम् इति अग्रे उच्यते |



नियमसूत्रं नाम किम् ?

वस्तुतः प्रकृतसूत्रं केवलं वदति यत्‌ यथा इति अव्ययस्य अव्ययीभावसमासः भवति परन्तु सादृश्यार्थे न |

सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति  इति नियमसूत्रस्य लक्षणम् | अयम् अव्ययीभावसमासः पुनः उक्तः यथाऽसादृश्ये(२.१.७) इति सूत्रे यतोहि अनेन नियमयति; यथाऽसादृश्ये(२.१.७) इति सूत्रं नियमसूत्रम्‌ | अस्य अव्ययीभावसमासस्य पुनः कथनेन केवलम् असादृश्यार्थे, सादृश्यार्थे न इति फलितार्थः |


उपरि गम्यताम्




यावदवधारणे (२.१.८) [3]

3) अवधारणार्थे यावत् इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|


यावदवधारणे (२.१.८) = अवधारणार्थे यावत् इति अव्ययस्य समर्थेन सुबन्तेन सह समस्यते |  अवधारणं नाम निश्चयः (indication of a number) | इयत्तापरिच्छेदे गम्ये यावत् इति अव्ययं समस्यते, सोऽव्ययीभावः इत्यर्थः | यावद् अव्ययम्, अवधारणे सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति| अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु   ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति| अनुवृत्ति-सहित-सूत्रम्‌— अवधारणे यावत् अव्ययं सुप्  सुपा सह अव्ययीभावः समासः |



यथा –

१) यावन्ति पत्राणि = यावत्पत्रम् | यावन्ति पत्राणि तावन्ति भोजनानि |  यावत् इति शब्दः अवधारणार्थे अस्ति यतो हि कति पत्राणि इति गणयितुं शक्यते |

२) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |

अलौकिकविग्रहवाकयं = यावत् + श्लोक + जस् | अत्र यावदवधारणे (२.१.८) इति सूत्रेण अव्ययीभावसमासः भवति | प्रक्रिया यथा पूर्वं प्रदर्शिता |

यावत् + श्लोक इति प्रातिपदिकम्, अधुना सन्धिकार्याणि करणीयानि |

यावद् + श्लोक → झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वं येन तकारस्य स्थाने दकारादेशः भवति पदान्ते | यावत् इत्यस्य पदसंज्ञा अस्ति इति स्मर्तव्यम् |

यावज्+ श्लोक → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन दकारस्य स्थाने जकारादेशः भवति शकारस्य प्रभावेण |

यावच् + श्लोक → खरि च (८.४.५५) इत्यनेन झलः स्थाने चरादेशो भवति खरि परे | अतः जकारस्य स्थाने चकारादेशः भवति |

यावच् + छ्लोक → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | यावच् इत्यत्र चकारः पदान्ते विद्यमानः झयवर्णः, तस्य अनन्तरं शकारः अस्ति | शकारस्य अनन्तरं लकारः अम्वर्णः अस्ति अतः  शश्छोऽटि (८.४.६३) इत्यनेन शकारस्य स्थाने छकारादेशो भवति | छत्वममीति वाच्यम्‌ इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |

यावच्छ्लोक इति प्रातिपदिकं निष्पन्नं, तस्मात् सुबुत्पत्तिः भूत्व यावच्छ्लोकम् इति अव्ययीभावसमासः सिद्धः भवति | समासे सन्धिः नित्यः इत्यतः एकमेव रूपं भवति |

३) यावान्तः कालाः = यावत्कालम्

४) यावत्यः आसन्द्यः = यावदासन्दि | आसन्दी इति प्रातिपदिकम् |

५) यावन्तः मन्त्राः, तावन्तः पुष्पाणि = यावन्मन्त्राः |

६) यावत्यः कथाः = यावत्कथम् |

अन्यत् उदाहरणम् – यावद् दत्तम् तावद् भुक्तम् | अस्य  अव्ययीभावसमासः न भवति यावदवधारणे (२.१.८) इति सूत्रेण यद्यपि यावत् इति शब्दः अस्ति यतोहि भुक्तम् इति पदम् अवधारणार्थे नास्ति |


झलां जशोऽन्ते (८.२.३९)

पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |

स्तोः श्चुना श्चुः (८.४.४०)

सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |

खरि च (८.४.५५)

झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर्‌ खरि च संहितायाम् ‌|


शश्छोऽटि (८.४.६३)

पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ झयः च अन्यतरस्त्याम्‌ चेत्यनयोः अनुवृत्तिः | वा पदान्तस्य (८.४.५९) इत्यस्मात्‌ पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्‌' | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्‌ |

छत्वममीति वाच्यम्‌ इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |

धेयं यत्‌ शश्छोऽटि इति सूत्रं त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं, श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम्‌ |

उपरि गम्यताम्



सुप् प्रतिना मात्रार्थे ( २.१.९) [4]

4) मात्रार्थे अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|


सुप् प्रतिना मात्रार्थे ( २.१.९) =   समर्थः सुबन्तपदं  मात्राऽर्थे वर्तमानेन प्रतिना शब्देन सह समस्यते, अव्ययीभावश्च समासो भवति| मात्रा इति शब्दस्य पर्यायशब्दाः - बिन्दुः, स्तोकं, लेशः, अल्पम् इत्यादयः | प्रति इति अव्ययं मात्रार्थं द्योतयति | सुप्  प्रथमान्तं, प्रतिना तृतीयान्तं, मात्रार्थे सप्तम्यन्तम् | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति| अव्ययीभावः (२.१.५) इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌—   सुप् मात्रार्थे  प्रतिना सुपा सह अव्ययीभावः समासः |

अस्मिन् सूत्रे सुप् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सुप् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | सुबन्तपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः | सुबन्तपदं पूर्वपदे भवति, उत्तरपदं प्रति इति अव्ययपदं भवति | अयं समासः नित्यः, न तु वैकल्पिकः  यतोहि विभाषा ( २.१.११) इत्यस्मात् सूत्रात् पूर्वम् अस्ति|


अस्मिन् सूत्रे किमर्थं सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिम् निराकृत्य साक्षात् सूत्रे एव सुप् इति उक्तम् ?

अस्य समाधानम् एव यत् अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् इति कृत्वा सूत्रे एव सुप् इति साक्षात् उक्तम् |


यदि सुप् प्रतिना मात्रार्थे ( २.१.९)  इति सूत्रे सुप् इति नोक्तं तर्हि सुप् इत्यस्य अनुवृत्तिः भवति सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् , तेन सह अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इत्यस्मात् सूत्रात् | एतादृशः अनुवृत्तिक्रमः आसीत् पूर्वसूत्रपर्यन्तम् | तर्हि अस्मिन् सूत्रे अपि तथैव भवति | परन्तु तथा भवति चेत् कः क्लेशः इति अग्रे उच्यते |


यदि सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत्| अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत् | अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत् |  अस्यां स्थितौ  अनुवृत्ति-सहित-सूत्रं भवति ‌—  मात्रार्थे प्रति अव्ययं सुप् सुपा सह अव्ययीभावः समासः |  अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्तेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति | परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात् | लोके तु  शाकप्रति इति एव समासः विद्यते यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे, अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति  पाणिनिना | अर्थात् पूर्वाभ्यां सूत्राभ्यां सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम् |


अन्यविषयः कः इति चेत् प्रकृतसूत्रे प्रति इति शब्दः तृतीयाविभक्तौ अस्ति | अतः कथं वा तस्य प्रथमायां परिवर्तनं भवति इत्यपि प्रश्नः उदेति | यदि चिन्तनार्थं वयं वदामः यत् प्रति इति अव्ययं तृतीयायामेव स्यात् तस्य परिवर्तनं मा भूत्, सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः क्रियते प्रकृतसूत्रे | अस्यां स्थितौ किं भविष्यति?


अव्ययम् इति पदं प्रथमान्तं पदम् अभविष्यत्, सुप् इति पदस्य अपि प्रथमान्तमेव | परन्तु प्रति इति अव्ययं तु तृतीयायाम् अस्ति | अनेन मात्रार्थे अव्ययं सुप् प्रतिना सुपा सह समस्यते इति अर्थः निष्पद्यते |  अनुवृत्ति-सहित-सूत्रं भवति ‌—   मात्रार्थे अव्ययं सुप्  प्रतिना  सुपा सह अव्ययीभावः समासः |  एतादृशः अर्थः नेष्यते एव इत्यतः सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अपि निराकृता |


सुप् प्रतिना मात्रार्थे ( २.१.९) इति सूत्रे प्रतिना इति पदं तृतीयान्तं पदम् अस्ति, अतः तस्य उपसर्जनसंज्ञा कदापि न भवति प्रथमानिर्दिष्टं समास उपसर्जनम् ( १.२.४३) इत्यनेन | अनेन अपि ज्ञायते यत् प्रति इति शब्दस्य पूर्वनिपातः नैव भवति इति | परन्तु स्पष्टप्रतिपत्त्यर्थं प्रकृतसूत्रे एव पाणिनिना सुप् इत्युक्तम्  |


सारांशः अस्ति यत् इष्टसाधानार्थं प्रकृतसूत्रे एव सुप् इति कथनम् उचितम्  इति कृत्वा सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः नेष्यते अस्मिन् सूत्रे |


यथा -

१) सूपस्य लेशः = सूपप्रति | किञ्चित् सूपः इत्यर्थः | लेशः इति शब्दः अल्प-मात्रार्थे अस्ति इत्यतः प्रति इति शब्देन तस्य बोधनं क्रियते |

२) शाकस्य लेशः = शाकप्रति | किञ्चित् शाकम्  इत्यर्थः |

अलौकिकविग्रहवाक्यं – शाक+ङस् +प्रति| प्रक्रिया चिन्तनीया |

३) सर्पिषः लेशः = सर्पिःप्रति /  सर्पि≍ प्रति |

अलौकिकविग्रहवाक्यं – सर्पिस्+ङस् +प्रति |

सर्पिस्+ प्रति इति प्रातिपदिकम् |

सर्पिस्+ प्रति   अधुना ससजुषो रुः (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः सर्पिरु+प्रति इति भवति | रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति| सर्पिर्+प्रति इति भवति |

सर्पिर्+प्रति  → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः सर्पिःप्रति इति भवति |

सर्पिः+प्रति अधुना  कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यनेन कवर्गे परे पवर्गे च परे विसर्गस्य स्थाने उपध्मानीयः विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | अतः सर्पिःप्रति /  सर्पि≍प्रति इति समासः सिद्ध्यति |

४) सुखस्य लेशः = सुखप्रति |

५) अन्नस्य लेशः = अन्नप्रति |

६) जलस्य लेशः = जलप्रति |

यदि वदामः वृक्षं वृक्षं प्रति = प्रतिवृक्षम् इति | प्रतिवृक्षम् इति समासे तु प्रति इति अव्ययं मात्रार्थे नास्ति इत्यतः प्रकृतसूत्रेण समासः न कार्यः | अस्मिन् उदाहरणे तु प्रति इति अव्ययं वीप्सार्थे अस्ति |

ससजुषो रुः (८.२.६६)

पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |

खरवसानयोर्विसर्जनीयः (८.३.१५)

पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |


विसर्जनीयस्य सः (८.३.३४)

विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यस्मात्‌ खरि इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— विसर्जनीयस्य सः खरि संहितायाम्‌ |


कुप्वोः ≍ क ≍ पौ च (८.३.३७)

कवर्गे परे पवर्गे च परे विसर्जनीय-विसर्गस्य, जिह्वामूलीयस्य उपध्मानीयस्य च विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | च-शब्देन पक्षे विसर्ग एव | विसर्जनीयस्य सः (८.३.३४) इत्यस्य अपवादः | कुश्च पुश्च कुपू, तयोः कुप्वोः इतरेतरद्वन्द्वः | ≍ कश्च ≍ पश्च ≍ क ≍ पौ, इतरेतरद्वन्द्वः | कुप्वोः सप्तम्यन्तं, ≍ क ≍ पौ प्रथमान्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | विसर्जनीयस्य सः (८.३.३४) इत्यस्मात्‌ विसर्जनीयस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— विसर्जनीयस्य ≍ क ≍ पौ कुप्वोः च |


उपरितने सूत्रे 'कवर्गे परे पवर्गे च' इत्युक्तं; तर्हि कवर्गीयः पवर्गीयः वा हश्‌-वर्णः अस्ति चेदपि एतादृशं भवति किम्‌ ?


कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्‌-वर्णः अस्ति चेत्‌, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात्‌ कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य अवसरः न उदेति एव | अर्थात्  कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गस्य अनन्तरं ककारः,खकारः, पकारः, फकारः च एतेषु कश्चन भवति चेत् |  ककारः, खकारः च परः चेत् जिह्वामूलीयस्य आदेशः विकल्पेन भवति | पकारः, फकारः च परः चेत्  उपध्मानीयस्य आदेशः विकल्पेन भवति |  अन्यस्मिन् पक्षे उभयत्र विसर्गादेशो तिष्ठति |


धेयं यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम्  इत्युच्यते | परन्तु  सुप् प्रतिना मात्रार्थे ( २.१.९) इति सूत्रेण यः अव्ययीभावसमासः निष्पद्यते तस्मिन् पूर्वपदस्य प्राधान्यं नास्ति | शाकप्रति इति अव्ययीभावसमासः  सुप् प्रतिना मात्रार्थे ( २.१.९) इति सूत्रेण निष्पन्नः | अस्मिन् समासे प्रति इति अव्ययस्य प्राधान्यम् अस्ति यतोहि प्रति इति अव्ययं मात्रार्थं सूचयति | नाम शाकस्य लेशः इत्यस्मिन् अर्थे शाकप्रति इति वदामः | अनेन ज्ञायते यत् सर्वदा अव्ययीभावसमासे पूर्वपदस्य प्राधान्यं नास्ति | कुत्रचित् उत्तरपदस्य प्राधान्यम् अपि भवति यथा शाकप्रति इत्यत्र | तदर्थमेव व्याख्यानेषु अव्ययीभावसमासस्य विषये उच्यते यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् इति |



अक्ष-शलाका-संख्याः परिणा (२.१.१०) [5]

अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति| एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति|

अक्ष-शलाका-संख्याः परिणा (२.१.१०) = अक्षशब्दः(dice), शलाकाशब्दः ( ivory piece used in gambling), सङ्ख्यावाचकशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति| द्यूतव्यवहारे पराजय एव अयं समासः | यदा द्यूतक्रीडायां पराजयस्य अर्थः प्रतीयमानः भवति तदानीं सूत्रोक्तानां शब्दानां समासः भवति परि इति अव्ययेन सह|  अक्षश्च शलाका च संख्या च तेषामितरेतरयोगद्वन्द्वः अक्षशलाकासङ्ख्याः| अक्षशलाकासङ्ख्याः प्रथमान्तं, परिणा तृतीयान्तम्| सुप् प्रतिना मात्रार्थे ( २.१.९) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति| सुप् इत्यस्य वचनपरिणामं कृत्वा बहुवचने प्रयुक्तम् | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति| अव्ययीभावः (२.१.५) इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌— अक्षशलाकासङ्ख्याः सुपः परिणा सुपा सह अव्ययीभावः समासः |

यथा- अक्षपरि|  

१) अक्षेण विपरीतं वृत्तम् ( वर्तते) = अक्षपरि | द्यूतव्यवहारे पराजयः इत्यर्थः | एकः पाशः विपरीतरीत्या पतितः, तेन पराजितः अभवत् |

अलौकिकविग्रहवाक्यं = अक्ष + टा + परि | अक्ष-शलाका-संख्याः परिणा (२.१.१०) इति सूत्रेण अव्ययीभावसमासः |

२) शलाकया विपरीतं वृत्तम् = शलाकापरि | एका शलाका विपरीतरीत्या पतति, तेन पराजितः अभवत् |

अलौकिकविग्रहवाकयं = शलाका+टा + परि | अक्ष-शलाका-संख्याः परिणा (२.१.१०) इति सूत्रेण अव्ययीभावसमासः|

३) एकेन विपरीतं वृत्तम् = एकपरि | एकः विपरीतरीत्या पतति, तेन पराजितः अभवत् |

अलौकिकविग्रहवाकयं = एक + टा + परि | अक्ष-शलाका-संख्याः परिणा (२.१.१०) इति सूत्रेण अव्ययीभावसमासः|

४) द्वाभ्यां विपरीतं वृत्तं = द्विपरि |

५) त्रिभिर्विपरीतं वृत्तं = त्रिपरि |

६) चतुर्भिः विपरीतं वृत्तं = चतुष्परि | चतुर्+ भिस्+ परि |

चतुर्+परि → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे, अतः रेफस्य स्थाने विसर्गः आदिष्टः भवति खरि परे → चतुः+परि → अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति इदुदुपधस्य चाप्रत्ययस्य ( ८.३.४१) इति सूत्रेण | इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति → चतुष्परि इति अव्ययीभावसमासः |

५) पञ्चसु तु एकरूपेषु जयः एव भवति इति कृत्वा पञ्चपरि इति समासः न भवति |


खरवसानयोर्विसर्जनीयः (८.३.१५)

पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |

इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१)  

इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे,  खकारे, पकारे, फकारे परे षकारादेशः भवति | इकार-उकार-उपधस्य अप्रत्ययस्य विसर्गस्य षः स्यात् कुप्वोः|  ह्रस्व-इकारात्, ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे, खकारे, पकारे, फकारे परे षकारादेशः भवति | इत् च उत् च तयोरितरेतरयोगद्वन्द्वः  इदुदौ, तौ उपधे यस्य स इदुदुपधः तस्य इदुदुपधस्य | न प्रत्ययः, अप्रत्ययः , तस्य अप्रत्ययस्य, नञ्तत्पुरुषः| कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य बाधकं सूत्रम् अस्ति  इदं सूत्रम् |  इत् च उत्  तयोरितरेतरयोगद्वन्द्वः, इदुदौ, तौ  उपधे यस्य सः, इदुदुपधः,  तस्य इदुदुपधस्य| न प्रत्ययः अप्रत्ययः, तस्य अप्रत्ययस्य, नञ्तत्पुरुषः| विसर्जनीयस्य सः (८.३.३४)  इत्यस्मात् सूत्रात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः| कुप्वोः ≍क≍पौ च ( ८.३.३७)  इत्यस्मात् सूत्रात् कुप्वोः इत्यस्य अनुवृत्तिः | इणः षः (८.३.३९) इत्यस्मात् सूत्रात्  षः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं —  इदुदुपधस्य च अप्रत्ययस्य विसर्जनीयस्य षः कुप्वोः‌ |

उदाहरणानि -

१) प्रत्यूहानां ( विघ्नानां) अभावः = निष्प्रत्यूहम् |  अलौकिकविग्रहः = प्रत्यूह+ आम् + निस् |

निस् + प्रत्यूह → ससजुषो रुः (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः निरु+प्रत्यूह इति भवति| रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति| निर्+प्रत्यूह इति भवति |

निर् + प्रत्यूह  → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः निःप्रत्यूह इति भवति | अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति इदुदुपधस्य चाप्रत्ययस्य ( ८.३.४१) इति सूत्रेण | इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति → निष्प्रत्यूहम् इति अव्ययीभावसमासः |

२) आविस्+ कृतम् = आविष्कृतम् | अत्र समासः नास्ति |

३) दुस् + कृतम् = दुष्कृतम् | एवमेव बहिष्कृतम् |



विभाषाः (२.१.११)

एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य चार्थे द्वन्द्वः (२.२.२९) इति सूत्रपर्यन्तं भवति |  एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | अर्थात् समस्तप्रयोगः अपि शक्यते व्यस्तप्रयोगः अपि शक्यते वाक्ये अस्माकं विवक्षानुगुणम् | अस्मिन् सूत्रे विभाषा इत्यस्य महाविभाषा इति उल्लेखः क्रियते यतः तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं एकपदमिदं सूत्रम् |  सूत्रं स्वयं सम्पूर्णम् |


यत्र विभाषा इत्यस्य सूत्रस्य अधिकारः अस्ति तत्र समासः विकल्पेन भवति | अतः सीतापतिः गच्छति इत्यपि वक्तुं शक्यते नो चेत् सीतायाः पतिः गच्छति इत्यपि वक्तुं शक्यते | यत्र समासः नित्यः तत्र विभाषा (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति |  विभाषा (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि सूत्राणि सन्ति तत्र समासः नित्यः भवति |  अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा (२.१.११) इत्यस्य अधिकारः नास्ति | अतः एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यं भवति | सामान्यतया यानि सूत्राणि विभाषा (२.१.११) इत्यस्य अधिकारे सन्ति तानि विकल्पेन प्रवर्तन्ते | परन्तु कुत्रचित् यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति तथापि समासः विकल्पेन न भवति, अपि तु नित्यरूपेण भवति | यथा उपपदसमासः यः तत्पुरुषसमासस्य प्रभेदः अस्ति, सः समासः नित्यरूपेण विधियते |


सारांशः  -

सामान्यतः समासः विकल्पेन भवति विभाषा (२.१.११) इत्यस्य अधिकारात् | अर्थात् व्यस्तप्रयोगः अपि कर्तुं शक्यते, समस्तप्रयोगः अपि कर्तुं शक्यते |  परन्तु स्मर्तव्यं यत् कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति | अग्रे सूत्रस्य पठनावसरे परिशीलयामः कुत्र समासः नित्यः इति |


अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२)

अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति|

अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२)

अप, परि, बहि इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अपश्च परिश्च बहिश्च अञ्चुश्च तेषामितरेतरयोगद्वन्द्वोऽपपरिबहिरञ्चवः| अपपरिबहिरञ्चवः प्रथमाबहुवचनान्तं पञ्चम्या तृतीयान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य  वचनपरिमाणः इति कृत्वा बहुवचने अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— अपपरिबहिरञ्चवः सुपः पञ्चम्या सुपा सह अव्ययीभावःसमासः विभाषा |


अप, परि ,आङ् इत्यतेषां योगे पञ्चमी

अप, परि च एतौ द्वौ प्रदायः (१.४.५८) इति सूत्रेण निपातसंज्ञकौ भवतः | तत्पश्चात् स्वरादिनिपातमव्ययम्(१.१.३७) इति सूत्रेण तयोः अव्ययसंज्ञा अपि भवति | बहिस् इति शब्दः स्वरादिगणे अस्ति, अतः स्वरादिनिपातमव्ययम्(१.१.३७) इति सूत्रेण अव्ययसंज्ञकः भवति | अप, परि, बहि: इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते इति उपरितनसूत्रेण ज्ञायते | परन्तु एतेषां शब्दानां योगे कथं पञ्चमीविभक्तिः विधीयते इति अग्रे उच्यते | अञ्चुधातुतः निष्पन्नाः दिक्वाचकाः अव्ययानि भवन्ति तद्धितश्चासर्वविभक्तिः ( १.१.३८)  इति सूत्रेण| अतः एव प्राक्, प्रत्यच्, उदच् इत्येतानि अव्ययानि सन्ति|

कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति | एकादश कर्मप्रवचनीयाः अष्टाध्यायां निर्दिष्टाः सन्ति - अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्यायाम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे अपपरी वर्जने ( १.४.८८) इति सूत्रेण |

१) अनु = लक्षणार्थे, तृतीयार्थे, हीनार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |

२) उप = हीनार्थे, अधिकार्थे च कर्मप्रवचनीयसंज्ञा भवति |

३) अप =  वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |

४) परि = लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे, वर्जनार्थे, अनर्थाकार्थे च कर्मप्रवचनीयसंज्ञा भवति |

५) आङ् = मर्यादार्थे, अभिविध्यर्थे च कर्मप्रवचनीयसंज्ञा भवति |

६) प्रति =  लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे  च कर्मप्रवचनीयसंज्ञा भवति |

७) अभि = लक्षणार्थे, इत्थंभूताख्यानार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |

८) अधि = अनर्थाकार्थे कर्मप्रवचनीयसंज्ञा भवति |

९) सु =  पूजायां कर्मप्रवचनीयसंज्ञा भवति |

१०) अति = पूजायाम् अतिक्रमणे च अर्थे कर्मप्रवचनीयसंज्ञा भवति |

१२) अपि = पदार्थे, सम्भावनार्थे, अन्वसर्गार्थे, गर्हार्थे, समुच्च्यार्थे च कर्मप्रवचनीयसंज्ञा भवति |

अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति | वर्जनार्थं नाम विहाय, त्यागः, अतिरिच्य इत्यर्थाः |

उदाहरणम् -

अप त्रिगर्तेभ्यः वृष्टः देवः | अप इति वर्जनार्थे अस्ति इत्यतः अपपरी वर्जने (१.४.८८) इति सूत्रेण अप इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिर्गतः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | अप इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | अतः त्रिगर्तेभ्यः इति उक्तम् |

एवमेव परि त्रिगर्तेभ्यो वृष्टो देवः इति उदाहरणम् | परि इति वर्जनार्थे अस्ति इत्यतः अपपरी वर्जने (१.४.८८) इति सूत्रेण परि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिगर्तः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | परि इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते पञ्चम्यपाङ्परिभिः  (२.३.१०) इति सूत्रेण |

यदा अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे ( त्यागः)  कर्मप्रवचनीयसंज्ञा भवति तदा पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण अप, परि इति पदयोः योगे पञ्चमीविभक्तिः भवति | पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रे आङ् इत्यपि उक्तम् | आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने ( १.४.८९) इति सूत्रेण |

आङ् मर्यादावचने ( १.४.८९) इति सूत्रेण आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे, अभिविध्यर्थे च | मर्यादा नाम तेन विना इत्यर्थः | अभिविधिः नाम तेन सह इत्यर्थः | यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | तद्यथा -

१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति

आङ् मर्यादावचने ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |

एतावता ज्ञातं यत् अप,परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे अपपरी वर्जने (१.४.८८) इति सूत्रेण | तत्पश्चात् तयोः योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण |

अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी

अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (२.३.२९) इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे अपि पञ्चमीविभक्तिः भवति | अञ्चु गतिपूजनयोः इति भ्वादिगणीयः धातुः अस्ति | दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | प्राक्(च्), प्रत्यक्(च्), उदच् इत्येते क्विन्प्रत्ययान्ताः शब्दाः अञ्चुधातुं प्रयुज्य निष्पन्नाः | प्राच्, प्रत्यच्, उदच् इत्येते शब्दाः देशस्य कालस्य वा विशेषणरूप्रेण प्रयुज्यन्ते तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः | यथा - प्राङ् देशः, प्राङ् कालः, प्रत्यङ् देशः, प्रत्यङ् कालः, उदङ् देशः, उदङ् कालः इति |

प्राक्(च्), प्रत्यक्(च्), उदच्  इत्येतेषां प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते | प्राक्(च्), प्रत्यक्(च्), उदच् इत्येतेभ्यः शब्देभ्यः स्त्रीत्वविवक्षायां ङीप् इति स्त्रीप्रत्ययं योजयित्वा उदीची दिक् ( north), प्राची दिक् ( east), अवाची दिक् ( south), प्रतीची दिक् ( west)  इत्यादयः दिग्वाचकशब्दाः  निष्पन्नाः |  

अञ्च्' (अञ्चुँ गतौ) इति धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ( ३.२.५९) इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिक्वाचकशब्दाः सिद्ध्यन्ति | यथा -

१) प्र + अञ्च् + क्विन् → प्राच् | पूर्वः इत्यर्थः |

२) प्रति + अञ्च् + क्विन् → प्रत्यच् | पश्चिमः इत्यर्थः |

३) उद् + अञ्च् + क्विन् → उदच् | उत्तरः इत्यर्थः |

प्राच्यां दिशि / प्राच्याः दिशः / प्राची दिक्

प्राच्याम् / प्राच्याः / प्राची + अस्ताति → दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः देशवाचिभ्यः शब्देभ्यः, दिक्‌शब्देभ्यः, कालवाचिभ्यः शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ( ५.३.२७)  इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते | परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य 'अस्ताति' प्रत्ययस्य अञ्चेर्लुक् ( ५.३.३०) इत्यनेन लुक् विधीयते | लुक् तद्धितलुकि ( १.२.४९)  इति स्त्रीप्रत्ययस्य अपि लुक्  भवति | स्त्रीप्रत्यस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते | सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति | अस्य तद्धितश्चासर्वविभक्तिः ( १.१.३८)  इति अव्ययसंज्ञा विधीयते | एवमेव प्रत्यच, उदच् इत्यत्रापि |

अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्यायाम् |

अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रं  समासप्रकरणे अस्ति, तत् सूत्रं वदति बहिः इति सुबन्तं पञ्चम्यन्तेन सुबन्तेन सह समस्यते इति | व्यस्तप्रयोगे ग्रामात् बहिः इति वदामः चेत् तत्र बहिः इति पदस्य योगे पञ्चमी प्रयोगः दृश्यते | यद्यपि तदर्थं कारकप्रकरणे सूत्रं नास्ति तथापि बहिः इति पदस्य योगे तु समासं कर्तुं सूत्रम् अस्ति अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति | एतत् सूत्रमेव ज्ञापकं यत् बहिः इति पदस्य योगे पञ्चमी भवति इति | तदर्थमेव अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रे पञ्चम्या इति पदस्य प्रयोगः दृश्यते | अनेन ज्ञायते यत् बहिः इति पदस्य योगे पञ्चमीविभक्तिः भवति इति |

अष्टाध्यायां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |

आहत्य अप, परि, बहिः, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः च, इत्येतेषां योगे पञ्चमीविभक्तिः विधीयते इति ज्ञातवन्तः | अधुना तेषां शब्दानां सुबन्तेन सह समासः विकल्पेन  विधीयते अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२)  इत्यनेन सूत्रेण |

अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रस्य उदाहरणानि -

अप इत्युक्ते वर्जने इति अर्थः |  परि इत्यस्य वर्जने, परिमाणम् इत्यादयः अर्थाः सन्ति | अञ्चु इति धातुतः निर्मिताः शब्दाः अपि स्वीकरणीयाः |

यथा -

१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः| नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति| समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति|

अलौकिकविग्रहवाक्यम् अप + विष्णु + ङसि |  अत्र अप इति शब्दः वर्जनार्थे अस्ति | अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण |  अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः अपविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे अप विष्णोः संसारः इति व्यस्तप्रयोगः अपि शक्यते |

२) परि विष्णोः संसारः = परिविष्णु / परि विष्णोः संसारः | नाम विष्णुं विहाय संसारः अस्ति | परि इति शब्दः वर्जनार्थकः अस्ति | समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे परिविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः परि विष्णोः संसारः इत्यपि भवति |

अलौकिकविग्रहवाक्यम् परि + विष्णु + ङसि | अत्र परि इति शब्दः वर्जनार्थे अस्ति| अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण |  अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः  च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः  परिविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे परि विष्णोः संसारः इति व्यस्तप्रयोगः अपि भवति |

३) बहिर्वनात् = बहिर्वनम्/ बहिर्वनात्|

अलौकिकविग्रहवाक्यम् बहिस् + वन + ङसि | बहिस् इति पदस्य केनापि सूत्रेण कर्मप्रवचनीयसंज्ञा अपि न विधीयते न वा तस्य योगे पञ्चमीविभक्तिः विधीयते | परन्तु सूत्रकारेण अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रे उक्तं यत् बहिस् -शब्दः पञ्चम्यन्तसुबन्तेन सह समस्यते इति | एतत् सूत्रमेव ज्ञापकम् अस्ति यत् बहिस्-शब्दस्य योगे पञ्चमी भवति इति | अतः एव लौकिकविग्रहवाक्ये पञ्चम्यन्तस्य प्रयोगः क्रियते |  अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः बहिस्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | समासप्रक्रियायां विभक्तेः लोपः भूत्वा बहिस्+वन इति प्रातिपदिकं सिद्धं भवति | अधुना ससजुषो रुः ( ८.२.६६) इत्यनेन रुत्वं भूत्वा बहिर्वन इति प्रातिपदिकं सिद्ध्यति |

बहिर्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति| अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति बहिर्वनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |

बहिर्वन + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- बहिर्वनं/ बहिर्वनेन, बहिर्वनं/ बहिर्वने | अन्यासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति |

बहिर्वनम् इति समासे नकारस्य णत्वं न भवति प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |

४) प्राग् वनात् = प्राग्वनम्, प्राग् वनात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति |

अलौकिकविग्रहवाक्यम् प्राग् + वन + ङसि | अत्र प्राग् इति शब्दः क्विन्प्रत्ययान्तशब्दः अस्ति | प्र +अञ्चु धातुतः क्विन् इति प्रत्ययं योजयित्वा प्राक् इति पदं सिद्ध्यति | अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (२.३.२९) इति सूत्रेण अञ्चचु इत्यस्य योगे  पञ्चमीविभक्तिः भवति | अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु धातुतः निष्पन्नाः सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः प्राग्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | अतः समासप्रक्रियायां विभक्तेः लोपः भूत्वा प्राग्+वन इति प्रातिपदिकं सिद्धं भवति | अधुना  झलां जशोऽन्ते (८.२.३९)इति सूत्रेण जश्त्वं भूत्वा प्राग्+वन इति प्रातिपदिकं भवति | तत्पश्चात् सुबुत्पत्तिः भवति |

प्राग्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति प्राग्वनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |

प्राग्वन + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु प्राग्वनम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने | अन्यासु विभक्तिषु प्राग्वनम् इति रूपं सिद्धं भवति |

प्राग्वनम् इति समासे नकारस्य णत्वं न भवति प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |


एवमेव –

अप त्रिगर्तात् = अपत्रिगर्तम्, अप त्रिगर्तात् |

परि त्रिगर्तात् = परित्रिगर्तम्, परि त्रिगर्तात् |

बहिर्ग्रामात् = बहिर्ग्रामम्, बहिर्ग्रामात् |

बहिर्विकारेभ्यः ( outside of transformations) = बहिर्विकारम्, बहिर्विकारेभ्यः |

प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |




नदीभिश्च (२.१.२०) [14]


नदीभिश्च (२.१.२०) = सङ्ख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते, अव्ययीभावश्च समासश्च भवति | नदी इति शब्दस्य त्रयः अर्थाः सन्ति- नदीशब्दः, नदीवाचकशब्दः, नदीसंज्ञकः शब्दः च | व्याकरणे नदी इति काचित संज्ञा अपि वर्तते | परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तनिर्देशेन ज्ञायते यत् नदीवाचिना शब्देन सह एव समासः भवति न तु स्वरूपात्मकेन नदीशब्देन सह इति  | नदी इति शब्दस्य द्वारा प्रसिद्धाः नदीविशेषवाचकाः यथा गङ्गा, यमुना, गोधावरी, गण्डकी, नर्मदा इत्यदीनां ग्रहणं भवति |  नदीभिः तृतीयान्तं, चाव्यायम् |   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | संख्या वंश्येन (२.१.१९) इत्यस्मात् सूत्रात् संख्या इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहित-सूत्रं— संख्या सुप् नदीभिश्च सुब्भिः सह अव्ययीभावः समासः विभाषा |

समाहारे च अयम् इष्यते इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः एव इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न  | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) संख्यापूर्वो द्विगुः (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  नदीभिश्च (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | नदीभिश्च (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |


यथा –

सप्तानां गङ्गानां समाहारः = सप्तगङ्गं, सप्तानां गङ्गानां समाहारः | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |

अलौकिकविग्रहवाक्यं सप्तन् + जस् + गङ्गा + जस् | सप्तन् इति सङ्ख्यावाचकशब्दः, गङ्गा  इति नदीवाचकशब्दः,  अतः नदीभिश्च (२.१.२०) इति सूत्रेण अव्ययीभावसमासः विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः सप्तन्+गङ्गा इति भवति | न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जायते |  सप्तन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति → सप्त + गङ्गा | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः सप्तगङ्ग इति प्रातिपदिकं निष्पन्नम्  |


सप्तगङ्ग अधुना सप्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति सप्तगङ्गात् इति, अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |

सप्तगङ्ग+ अम् → अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे | अन्यासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |

द्वयोः यमुनयोः समाहारः = द्वियमुनम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |

अलौकिकविग्रहवाक्यं द्वि + औ + यमुना + औ | प्रक्रिया यथा उपरि प्रदर्शिता आसीत् |


सप्तगङ्गं, द्वियमुनम्, इत्यनयोः उदाहरणयोः तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण समाहारद्विगुसमासः यदा विधीयते तदा स नपुंसकम् (२.४.१७) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | नपुंसकलिङ्गे समासः भवति इति कारणने ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | सप्तगङ्ग, द्वियमुन इति प्रातिपदिके निष्पन्ने भवतः  | तत्पश्चात् नपुंसकलिङ्गे वनशब्दस्य रूपाणि इव रूपाणि भवन्ति  | अतः प्रथमाविभक्तौ एकवचने सप्तगङ्गं, द्वियमुनं च समस्तपदे निष्पन्ने भवतः | तर्हि प्रश्नः उदेति यत् नदीभिश्च (२.१.२०) इति सूत्रस्य का आवश्यकता?

समाधानम् अस्ति यत् नदीभिश्च (२.१.२०) इति सूत्रेण अव्ययीभावसमासस्य कारणेन सर्वासु विभक्तिषु अम्भावः सिद्धयति पञ्चमीं विहाय | तृतीयाविभक्त्यां, सप्तमी-विभक्त्याञ्च अम् आदेशः विकल्पेन भवति | यदि समाहारद्विगुसमासः विहितः तर्हि सर्वासु विभक्तिषु अमादेशः न भवति | चतुर्थ्यां सप्तगङ्गाय, द्वियमुनाय अपि च षष्ठ्यां सप्तगङ्गस्य, द्वियमुनस्य इति रूपाणि भवन्ति | सर्वासु विभक्तिषु अमादेशः (पञ्चमीं विहाय) एव अव्ययीभावसमासस्य प्रयोजनम् | अतः पाणिनिना नदीभिश्च (२.१.२०) इति सूत्रं कृतम् |


एवमेव –

सप्तानां गोदावरीनां समाहारः = सप्तगोदावरम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः | संख्याया नदीगोदावरीभ्यां च इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | सप्तगोदवरी + अच् सप्तगोदावरी+ अ →  यचि भम्‌ (१.४.१८) इत्यनेन सप्तगोदावरी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सप्तगोदावरी इत्यस्य ईकारस्य लोपः भवति सप्तगोदावर्+ अ सप्तगोदावर इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् सप्तगोदावरम् इति समासः सिद्धः भवति |

एवमेव पञ्चानां नदीनां समाहारः = पचनदम् | संख्याया नदीगोदावरीभ्यां च इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | पञ्चनदी + अच् पञ्चनदी + अ →  यचि भम्‌ (१.४.१८) इत्यनेन पञ्चनदी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | पञ्चनदी इत्यस्य ईकारस्य लोपः भवति पञ्चनद्+ अ पञ्चनद इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् पञ्चनदम् इति समासः सिद्धः भवति |

पञ्चानां गङ्गानां समाहारः = पञ्चगङ्गम्


उपरि गम्यताम्



अन्यपदार्थे च संज्ञायाम् ( २.१. २१) [15]

अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |


अन्यपदार्थे च संज्ञायाम् ( २.१. २१) = अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते, अव्ययीभावश्च समासः च भवति | अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति परन्तु अनेन सूत्रेण यः समासः विहितः भवति, तस्मिन् अन्यपदस्य प्राधान्यं भवति बहुव्रीहिसमासवत् | संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायाम् |  यद्यपि अस्मिन् सूत्रे विभाषा (२.१.११) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् `समासः नित्य:'|  यत्र सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति | वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति  | अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण |   अन्यत् च तत् पदम् च, अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः, तस्मिन् अन्यपदार्थे, कर्मधारय-गर्भ-षष्ठीतत्पुरुषः| अन्यपदार्थे सप्तम्यन्तं, चाव्ययं, संज्ञायां सप्तम्यन्तम् | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | नदीभिश्च (२.१.२०) इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावः समासः |


अव्ययीभाससमासे प्रायेण पूर्वपदस्य प्राधान्यम् इत्युच्यते  | कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति, यथा उन्मत्तगङ्गम्, लोहितगङ्गम्  इति | "उन्मत्ता गङ्गा यस्मिन् देशे, उन्मत्तगङ्गम्" तथैव "लोहिता गङ्गा यस्मिन् देशे, लोहितगङ्गम्" इत्यादिषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं वर्तते न तु पूर्वपदस्य, तथापि समासः तु अव्ययीभावः एव  न तु बहुव्रीहिः  | अनयोः समासयोः पूर्वपदस्य प्राधान्यं नास्ति यतो हि समासे अन्यपदार्थस्य प्राधानयम् अस्ति |  अन्यपदार्थः देशः, सः विशेष्यः अस्ति,  उन्मत्तगङ्गम्, लोहितगङ्गञ्च विशेषणे स्तः | प्रकृतसूत्रे समस्तपदं संज्ञायाम् एव भवति | पूर्वमपि अस्माभिः अव्ययीभावप्रसङ्गे पूर्वपदप्राधान्यस्य अपवादः चर्चितः, यथा शाकप्रति, सुखप्रति इत्यादिषु स्थलेषु उत्तरपदस्य प्राधान्यं दृष्टम्, तथैव अस्मिन् समासे अपि   |


वाक्यात् संज्ञायाः बोधः नैव शक्यः, केवलं समासेन  एव संज्ञायाः बोधः जायते, अतः एव प्रकृतसूत्रेण समासः नित्यः इत्युक्तम्  | यदि समासं विना केवलं वाक्येन अपि संज्ञायाः बोधः शक्यते तादृशस्थलेषु समासः वैकल्पिकः भवितुम् अर्हति, परन्तु प्रकृतसूत्रेण तु समासः नित्यः एव |


यथा—

उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् | उन्मत्तगङ्गम् इति एकस्य देशस्य नाम, यत्र गङ्गा उन्मत्ता भूत्वा प्रवहति | अर्थात् यस्मिन् प्रदेशे गङ्गा प्रचण्डा अस्ति, सः प्रदेशः उन्मत्तगङ्गम् इति नाम्ना ज्ञायते |

लौकिकविग्रहे उन्मत्ता गङ्गा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति किन्तु उन्मत्तगङ्गम् इति समस्तपदात् संज्ञायाः बोधः जायते यतोहि उन्मत्तगङ्गम् इति देशविशेषस्य संज्ञा अस्ति |


अलौकिकविग्रहवाक्यं उन्मत्ता +सु + गङ्गा +सु | उन्मत्तगङ्गम् इति देशवाचकपदम् इत्यतः उन्मत्ता अपि च गङ्गा अनयोः शब्दयोः समासः अन्यपदार्थे भवति | उन्मत्ता इत्यस्य नदीवाचकस्य गङ्गा इति शब्देन सह अन्यपदार्थे च संज्ञायाम् ( २.१. २१) इति सूत्रेण अव्ययीभावसमासः विधीयते | प्रातिपदिकसंज्ञा भवति, सुप् प्रत्यययोः लुक् भवति |


उन्मत्ता + गङ्गा → स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (६.३.३४) इति सूत्रेण पूर्वस्त्रिलिङ्गपदस्य पुंवद्भावः भवति उन्मत्तगङ्गा  ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः उन्मत्तगङ्ग इति भवति |

उन्मत्तगङ्ग अधुना उन्मत्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते  पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उन्मत्तगङ्गात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उन्मत्तगङ्ग + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु उन्मत्तगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति- उन्मत्तगङ्गम् / उन्मत्तगङ्गेन, उन्मत्तगङ्गम् / उन्मत्तगङ्गे | अन्यासु विभक्तिषु उन्मत्तगङ्गम् इति रूपं सिद्धं भवति | उन्मत्तगङ्गम् इति देशवाचकं संज्ञापदम् इत्यतः समासः नित्यः, संज्ञाबोधार्थं वाक्यं न सम्भवति |


लोहिता गङ्गा यस्मिन् = लोहितगङ्गम् | लोहितगङ्गम् इति एकस्य देशस्य नाम अस्ति | यस्मिन् प्रदेशे गङ्गा रक्तवर्णं धृत्वा वहति सः प्रदेशः लोहितगङ्गम् इति नाम्ना ज्ञायते |

अलौकिकविग्रहवाक्यं लोहिता +सु + गङ्गा +सु | प्रक्रिया यथा पूर्वं प्रदर्शिता तथैव अस्ति अत्रापि |


अन्यपदार्थे च संज्ञायाम् ( २.१. २१) इति सूत्रे संज्ञायाम् इति पदम् अस्ति इत्यतः संज्ञा यत्र अस्ति तत्रैव अन्यपदार्थे अव्ययीभावसमासः भवति | यदि लोहिता गङ्गा यस्मिन् देशे सः इति वाक्यं तर्हि संज्ञायाः बोधः न भवति यतोहि सामान्यदेशस्य एव बोधः भवति, अतः अव्ययीभावसमासः न भवति अपि तु बहुव्रीहिसमासः लोहितगङ्गः इति भवति  | लोहितगङ्गः देशः  इति वाक्यं भवति | संज्ञा अस्ति चेत् लोहितगङ्गम् इति समस्तपदं भवति नो चेत् लोहितगङ्गः इति बहुव्रीहिसमासः भवति |

अन्यानि उदाहरणानि - कृष्णगङ्गम् , तूष्णींगङ्गम्, शनैर्गङ्गम् | गङ्गतटवर्तिनां प्रदेशविशेषाणां एतानि संज्ञापदानि सन्ति  |


स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु  ( ६.३.३४)

भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः| तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | अलुगुत्तरपदे ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु  |


भाषितपुंस्कः

भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति | पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात्‌ शब्दात्‌ स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव | सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते | त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति |

स्त्रीप्रत्ययाः - एते स्त्रीत्वबोधकप्रत्ययाः सन्ति |


१)आकारान्ताः = टाप्, डाप्, चाप् | यथा अजा, सीमा, सूर्या |

२) ईकारान्ताः = ङीप्, ङीष्, ङीन् |  कर्त्री, गौरी, शारङ्गरवी |

३) ऊकारान्तः = ऊङ् | श्वश्रूः, पङ्गूः, कद्रूः, कमण्डलूः |


सामानाधिकरण्यम् = समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते | यथा - उत्तमा + बालिका → उत्तमबालिका | अनयोः पदयोः सामानाधिकरण्यम् अस्ति यतोहि अनयोः पदयोः समानविभक्तकत्वम् अपि वर्तते, एकार्थबोधकत्वम् अपि विद्ययते  |


प्रियादिगणः = प्रियादिगणे एते शब्दाः पठिताः - प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, भक्ति, सचिवा, अम्बा, कान्ता, क्षान्ता, समा, चपला, दुहिता, वामा च |

पूरणी  = अर्थात् डट् इत्यादि तद्धित-पूरणार्थकप्रत्ययाः यस्य अन्ते सन्ति ते पूरणप्रत्ययान्ताः  | पूर्यते अनेन, अस्मिन् अर्थे पॄ पूरणे इति धातुतः ल्युट्प्रत्ययं कृत्वा पूरण इति शब्दः सिद्ध्यति | गणनायाः साहाय्यार्थं पूरणप्रत्ययान्तानां प्रयोगः क्रियते |  यथा दश जनाः सन्ति , एतेषां गणना कर्तव्या, तर्हि कथं क्रियते ? अयं प्रथमः, अयं द्वितीयः, अयं तृतीयः.. इति पृथक्करणं कर्तुं शक्यते |  अत्र प्रथम, द्वितीय, तृतीय, चतुर्थ इत्यादयः शब्दाः गणनार्थं प्रयुज्यन्ते, अतः एते सर्वे पूरणवाचकाः शब्दाः सन्ति |  एतेषां शब्दानां निर्माणार्थं यस्य प्रत्ययस्य साहाय्यं स्वीक्रियते सः प्रत्ययः पूरणप्रत्ययः इति नाम्ना ज्ञायते |  स्त्रीलिङ्गे प्रथमा, द्वितीया, तृतीया इत्यादयः पूरणप्रत्ययान्ताः स्त्रीवाचकशब्दाः सन्ति  |


उपरि गम्यताम्




अव्ययीभावसमासे नियमाः

अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् अजन्तम्  

१)  ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |

२) अदन्तम् अङ्गम् अस्ति चेत्, नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |

३) अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण |

४) उत्तरपदं नदी, पौरणमासी, आग्रहायणी इत्येतेषु कश्चन शब्दः चेत् -- नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०) इत्यनेन अव्ययीभावसमासस्य उत्तरपदे "नदी", "पौर्णमासी", "आग्रहायणी" एतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |

५) उत्तरपदं गिरि इति शब्दः चेत् - गिरेश्च सेनकस्य ( ५.४.११२) इत्यनेन उत्तरपदे गिरि इति शब्दः चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |


अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् हलन्तम्

१) उत्तरपदम् अन्नन्तं चेत् -

अ) पुंलिङ्गे, स्त्रीलिङ्गे च अनश्च (५.४.१०८)इति सूत्रे टच् इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | अदन्तम् अङ्गम् अस्ति चेत्, नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण |

आ) नपुंसकलिङ्गे च नपुंसकादन्यतरस्याम् ( ५.४.१०९) इति सूत्रेण विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासस्य अन्तिमनकारस्य लोपः भवति न लोपः प्रातिपदिकान्तस्य ( ८.२.७) इत्यनेन

२) उत्तदपदं शरदादिगणे अस्ति चेत्, अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |

३) उत्तरपदं झयन्तम् अस्ति चेत् झयः (५.४.१११) इति सूत्रेण अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासानन्तरं सन्धिकार्याणि भवन्ति |

इत्यनेन अव्ययीभावसमासः इति विषयः समाप्तः|


उपरि गम्यताम्


परिशिष्टम्

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रे अव्ययस्य षोडश अर्थाः दृष्टाः| अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति | तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः कृतः प्राचीनकाले  | अव्ययीभावसमासस्य विषये ये प्रयोगाः कृताः शिष्टैः, तेषां प्रयोगाणां समर्थनं शक्यते एव| प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् सह सुपा ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः| वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः|

दृष्टान्तः

दिशयोः मध्ये= अपदिशम् (द्वयोः दिशयोः अन्तरालम् (interval) इत्यर्थः)

अलौकिकविग्रहवाक्यं

दिशा + ओस् + अप → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |   अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अप इति अव्ययं समर्थेन दिशा इति सुबन्तेन सह समस्यते |

दिशा + ओस् + अप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

दिशा + ओस् + अप इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः दिशा+ओस् +अप इत्यस्मिन्‌ ओस् इत्यस्य लुक्‌ → दिशा+अप इति |

दिशा + अप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण| अतः अप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |

दिशा+अप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति| अत्र अप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|

पुनः अत्र एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति अत्र अपदिशा इति भवति→ अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अपदिशा इत्यस्य अव्ययसंज्ञा भवति |

अपदिशा →  अत्र गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति

अपदिश इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अपदिश इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

अपदिश + सु अपदिश इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अपदिशात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |

अपदिश + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- अपदिशम्/ अपदिशेन, अपदिशम्/ अपदिशे| अन्यासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति |

तृतीयाविभक्तौ -अपदिशम् / अपदिशेन

सप्तमीविभक्तौ - अपदिशम्/अपदिशे|

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय अपदिशम् इति रूपं सिद्धं भवति| पञ्चमीविभक्तौ अपदिशात् इति रूपं भवति|

दिशोः अन्तरालम् = अपदिशम्| अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |


विभक्ति एकवचनं द्विवचनं बहुवचनम्
प्रथमा अपदिशम् अपदिशम् अपदिशम्
द्वितीया अपदिशम् अपदिशम् अपदिशम्
तृतीया अपदिशम्/अपदिशेन अपदिशम्/ अपदिशाभ्याम् अपदिशम्/ अपदिशैः
चतुर्थी अपदिशम् अपदिशम् अपदिशम्
पञ्चमी अपदिशात् अपदिशाभ्याम् अपदिशेभ्यः
षष्ठी अपदिशम् अपदिशम् अपदिशम्
सप्तमी अपदिशम्/अपदिशे अपदिशम्/ अपदिशोः अपदिशम्/ अपदिशेषु
सम्बोधने अपदिशम् अपदिशम् अपदिशम्


एकविभक्ति चापूर्वनिपाते (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः| एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः  | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  |अनुवृत्ति-सहित-सूत्रम्‌— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |


तर्हि एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति परन्तु पूर्वनिपातः न भवति इति ज्ञातम्| यदि उपसर्जनसंज्ञकं पदं गो-शब्दः अथवा स्त्रीलिङ्गशब्दः अस्ति तर्हि  गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनसंज्ञकस्य शब्दस्य ह्रस्वादेशः भवति परन्तु तस्य पूर्वनिपातनं न भवति | गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रस्य विवरणम् अग्रे उच्यते |


गोस्त्रियोरुपसर्जनस्य (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति |गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः |गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् |ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |


एतावता वयम् अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रे अव्ययस्य विभिन्नान् अर्थान् परिशीलितवन्तः| सम्प्रति अन्यानि अव्ययीभावसमास-सम्बद्धसूत्राणि अधीयते|


उपरि गम्यताम्