6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH (view source)
Revision as of 17:34, 11 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 11:
<big>३)</big> [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/74_aShTAdhyAyyAM-pratyayAdesha-sUtrANi__siddha-ting-pratyaya-sUtra-cintanaM-pittvam-apittvaM-ca_2017-04-19.mp3 <big>aShTAdhyAyyAM-pratyayAdesha-sUtrANi_+_siddha-ting-pratyaya-sUtra-cintanaM-pittvam-apittvaM-ca_2017-04-19</big>]
<big
<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/45_anadantAGgAnAM_krute_siddha-tiGpratyayAH_2015-09-22.mp3 anadantAGgAnAM_krute_siddha-tiGpratyayAH_2015-09-22]</big>
Line 22:
<big>सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—</big>
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
<big>२. तिङ्संज्ञकप्रत्यय-सिद्धिः</big>
<big>३. तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्संज्ञकप्रत्यययोः मेलनम्</big>
<u><big>सोपानत्रयस्य एका दृष्टिः</big></u>
<big>अदन्ताङ्गस्य दृष्टान्तः | धात्वर्थविवक्षायां भू धातुः आनीयते | लकारविवक्षायां लट्-लकारः आनीयते | प्रथमपुरुषैकवचनस्य विवक्षायां लटः स्थाने तिप्-आदेशः | भू + तिप् इत्यस्ति | तिप् सार्वधातुकसंज्ञकः, कर्त्रर्थकः, तिङ्संज्ञकः च अतः '''कर्तरि शप्''' इत्यनेन मध्ये शप् इति विकरणप्रत्ययः विहितः | भू + शप् + तिप् | अनुबन्धलोपे भू + अ + ति | अस्यामेव स्थित्याम् उपर्युक्तं सोपानत्रयं प्रारभ्यते |</big>
<big>प्रथमसोपाने विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् | तर्हि अत्र "अ" इति विकरणप्रत्ययं निमित्तीकृत्य '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः क्रियते, भू → भो | एतदेव अस्माकं अङ्गकार्यम् | तदा सन्धिकार्यम्—'''एचोऽयवायावः''' इत्यनेन भो + अ → भ् + अव् + अ → भव | इदं सन्धिकार्यम् अङ्गकार्यं नास्त्येव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम् | सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते—ओकारः अस्ति, परश्च अकारः अस्ति | 'शप्' इति कारणं नास्ति अत्र; यः कोऽपि अकारः भवतु, तादृशं कार्यं भविष्यति एव | ओकाराकारयोः मेलनेन ओ-स्थाने अव्-आदेशः, इति सन्धिकार्यम् | एवं च धातु-विकरणप्रत्यययोः मेलनेन भव इत्यङ्गं जातं, प्रथमं सोपानम् समाप्तम् |</big>
<big>द्वितीयसोपाने तिङ्संज्ञकप्रत्यय-सिद्धिः; अत्र तिप् इति मूलप्रत्ययः, '''हलन्त्यम्''' इत्यनेन पकारस्य इत्-संज्ञा लोपश्च, ति इति सिद्ध-तिङ्प्रत्ययः निष्पन्नः | द्वितीयसोपानं समाप्तम् | भव + ति इत्यस्ति |</big>
<big>तृतीयसोपानं तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् | ति-प्रत्ययः '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः पूर्वम् इक्-प्रत्याहारे स्थितः कश्चन वर्णः यदि स्यात्, तर्हि '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यं स्यात् | किन्तु एतावता अस्माकम् अङ्गम् सर्वदा अदन्तम् आसीत्; यत्र अङ्गस्य अन्तिमः वर्णः अत् (ह्रस्वः अकारः), तत्र गुणकार्यं न सम्भवति | इक् (इ, उ, ऋ, ऌ) अन्ते अस्ति चेदेव गुणकार्यम् अर्हति; यत्र अङ्गम् अदन्तम् अस्ति तु नार्हत्येव | यत्र अङ्गमदन्तम् अस्ति तत्र तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् अतीव न्यूनम्*— अतः तृतीयसोपाने आधिक्येन केवलम् अङ्ग-तिङ्संज्ञकप्रत्ययोः मेलनं भवति | यथा भव + ति → भवति | किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, यत्र अङ्गस्य अन्ते उदाहरणार्थम् उकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति | इति तिङन्तपदस्य निर्माणार्थं सोपानत्रयस्य एका दृष्टिः |</big>
<big><nowiki>*</nowiki>अदन्ताङ्गे सति, यञादि-सार्वधातुकप्रत्यये परे, अङ्गकार्यं भवति |</big>
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
<big>पठ + वः → '''अतो दीर्घो यञि''' (७.३.१०१) इत्यनेन अदन्ताङ्गस्य दीर्घादेशः → पठावः</big>
<u><big>दशानां धातुगणानां गणसमूहौ</big></u>
Line 82 ⟶ 66:
<big>अङ्गान्ते भेदः एव विभजनस्य कारणम् | प्रथमगणसमूहे धातु-विकरणप्रत्यययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र— अङ्गस्य अन्ते अकारः | यथा भू + शप् → भव, नश् + श्यन् → नश्य, लिख् + श → लिख, चुर् + णिच् + शप् → चोरय, इति एषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम् |</big>
Line 88 ⟶ 71:
<big>प्रथमगणसमूहस्य कृते, तिङन्तपदम् उपर्युक्त-सोपानत्रयेण कथं सिध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतम्— चतुर्णाम् अपि गणानां प्रसङ्गे | सम्प्रति द्वितीयगणसमूहे तिङन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयाम |</big>
▲<big>प्रथमगणसमूहस्य कृते, तिङन्तपदम् उपर्युक्त-सोपानत्रयेण कथं सिध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतम्— चतुर्णाम् अपि गणानां प्रसङ्गे | सम्प्रति द्वितीयगणसमूहे तिङन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयाम |</big>
<big>प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम् अनदन्ताङ्गानां कृते समाना | अतः एतत् कार्यम् अधुना परिशीलयाम |</big>▼
▲<big>प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम् अनदन्ताङ्गानां कृते समाना | अतः एतत् कार्यम् अधुना परिशीलयाम |</big>
Line 187 ⟶ 169:
<big><br />४. परस्मैपदस्य विधिलिङ्-लकारः सर्वत्र भिन्नः एव |</big>
<big>पूर्वम् उक्तं यत् विधिलिङि '''यासुट्''' आगमः भवति प्रत्ययात् प्राक् | '''यासुट् '<nowiki/>'''''परस्मैपदेषूदात्तो'<nowiki/>''''' ङिच्च''' (३.४.१०३) | तत्र अनुबन्धलोपे सति "'''यास्'''" इति शिष्यते |</big>
Line 193 ⟶ 176:
<big>b) अनदन्तेषु इय्-आदेशः न भवति | यथा चिनु + यास् + त् → चिनुयात् </big>
<big>'''यासुट् '''परस्मैपदेषूदात्तो''' ङिच्च''' (३.४.१०३) = लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् | विधिसूत्रम् अतिदेशसूत्रं च | '''लिङः''' '''सीयुट्''' (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यासुट्, प्रत्ययात् प्राक् आयाति | यासुट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं, ङित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''परस्मैपदानां''' '''लिङः लस्य उदात्तः यासुट् ङित् च''' |</big>
Line 198 ⟶ 182:
<big>यास्-आगमे, विधिलिङि सकारलोपः सर्वत्र भवति—</big>
<big>'
▲<big>'<nowiki/>''लिङः सलोपोऽनन्तस्य''' (७.२.७९) = सार्वधातुकलिङि, अपदान्तस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः नञ्तत्पुरुषः, तस्य अनन्तस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्, अनन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात् '''सार्वधातुकस्य''' इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '<nowiki/>'''''अङ्गात्''' सार्वधातुकस्य लिङः अनन्तस्य सः लोपः''' |</big>
<big>आशीर्लिङ् आर्धधातुकलकारः इति कारणतः अनेन सूत्रेण सकारलोपः न भवति | विधिलिङि प्रथमपुरुषे यात् याताम् युः; आशीर्लिङि यात् यास्ताम् यासुः | धेयं यत् विधिलिङि आशीर्लिङि च प्रथमपुरुषैकवचने 'यात्' समानम् अस्ति; उभयत्र सकारलोपः, किन्तु भिन्न-सूत्रेण | प्रथमपुरुषैकवचने उभयत्र यास् + त् → यास्त् | विधिलिङि '''लिङः सलोपोऽनन्तस्य''' (७.२.७९) इत्यनेन सकारलोपः | आशीर्लिङि यत्र सकारलोपः भवति, '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इति सूत्रेण भवति | अनेन सूत्रेण पदान्ते संयोगः भवति चेत्, तस्य च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, तर्हि तस्य सकारस्य ककारस्य च लोपः भवति |</big>
<big>अदन्ताङ्गेषु इव, अत्र अपि झि-स्थाने जुस् आदेशः, '''झेर्जुस्''' (३.४.१०८) | जकारस्य इत्-संज्ञा '''चुटू''' इति सूत्रेण; '''तस्य लोपः''' इत्यनेन लोपः | उस् अवशिष्यते |</big>
<big>'''झेर्जुस्''' (३.४.१०८) = लिङ्-लकारस्य झि इत्यस्य स्थाने जुस्-आदेशो भवति | झेः षष्ठ्यन्तं, जुस् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''लिङः लस्य झेः जुस्''' | '''झोऽन्तः''' (७.१.३) इत्यस्य अपवादः |</big>
<big>'''उस्यपदान्तात्''' (६.१.९५) = अपदान्तात् अवर्णात् उसि परे पूर्वपरयोः स्थाने पररूपादेशो भवति | अस्य सूत्रस्य प्रसक्तिः केवलम् अनदन्ताङ्गेषु | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८६) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७६) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''एङि पररूपम्''' (६.१.९३) इत्यस्मात् '''पररूपम्''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् आत् '''उसि अचि''' एकः पूर्वपरयोः पररूपं संहितायाम्''' |</big>
Line 245 ⟶ 222:
<big><br />उपरितन-प्रत्ययानां सिद्ध्यर्थं एषां सूत्राणाम् आवश्यकता इति स्मर्यताम् | अङ्गम् अदन्तं चेदपि अनदन्तं चेदपि एषां सूत्राणां प्रसक्तिः—</big>
<big>'''इतश्च''' (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (इकारस्य) लोपः न तु पूर्णप्रत्ययस्य | '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात् '''लोपः''', '''परस्मैपदेषु''' इत्यनयोः अनुवृत्तिः | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य इतः परस्मैपदस्य लोपः''' |</big>
Line 250 ⟶ 228:
<big>'''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्च अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य तस्थस्थमिपां तान्तन्तामः''' |</big>
<big>'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |</big>▼
▲<big>'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |</big>
Line 357 ⟶ 335:
<big>'''C. <u>अनदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययानां पित्त्वम् अपित्त्वं च</u>'''</big>
<big>मूलतिङ्प्रत्ययान् आधारीकृत्य सिद्ध-तिङ्प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित् अस्ति चेत्, सिद्ध-प्रत्ययः अपि तथा | यथा तिप् पित् अस्ति, अतः लटि ति, लोटि तु, लङि त् इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित् अस्ति चेत्, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् इत्यस्मिन्) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत् अङ्गं यत्र अदन्तम् अस्ति, तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम् अवधानं नासीत् | किन्तु इतः अग्रे अङ्गम् अनदन्तम्; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम् | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम् | चिनु + ति → ति पित् अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → चिनो + ति → चिनोति |</big>
<big>पित्-प्रत्ययाः पुनः द्विविधाः; अपित्-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्-वर्णः अस्ति चेत्, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्-वर्णः अस्ति चेत्, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |</big>
<big>यथा, प्रत्ययः पित् अस्ति चेत्, गुणकार्यस्य प्रसक्तिः; अपित् अस्ति चेत् गुणः नार्हति | प्रत्ययः अजादिः अस्ति चेत् स्वरसन्धिः अर्हति; हलादिः अस्ति चेत् नार्हति | एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति | इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः | अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयाम |</big>
Line 439 ⟶ 419:
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन् वर्गे यत् कार्यं भवति, तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
<big>अधुना अन्तिमः एकः विचारणीयः | उपरि उक्तम् आसीत् यत् पित्त्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः | मूलस्य पित्त्वं चेत्, सिद्धस्यापि पित्त्वम् इति | किञ्च अत्र अपवादद्वयं प्रतीयते |</big>
<big>१. लोट्-लकारस्य उत्तमपुरुषे '''आनि''', '''आव''', '''आम''','''ऐ''', '''आवहै''', '''आमहै''' | '''आनि''' मिप इत्यस्मात् आगतः अतः तस्य पित्त्वम् अस्ति | किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति | तेषां पित्त्वं कुतः आगतम् ?</big>
<big>लोटि सर्वत्र परस्मैपदे आत्मनेपदे च उत्तमपुरुषे आड् आगमः | अयम् आगमः ("आ") प्रत्ययानाम् आदौ युज्यते | येन सूत्रेण अयम् आड्-आगमः विहितः, तेन एव सूत्रेण व्युत्पन्न-प्रत्ययस्य पित्त्वं विधीयते |</big>
<big>'''आडुत्तमस्य पिच्च''' (३.४.९२) = लोट्-लकारस्य लस्य स्थाने यः उत्तमपुरुष-प्रत्ययः भवति, तस्य आट्-आगमो भवति, अपि च तस्य पित्त्वं भवति | '''आद्यन्तौ टकितौ''' इत्यनेन आट्-आगमः प्रत्ययात् प्राक् आयाति | आड् प्रथमान्तम्, उत्तमस्य षष्ठ्यन्तम्, पित् प्रथमान्तम्, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''लोटो लङ्वत्''' (३.४.८५) इत्यस्मात् सूत्रात् '''लोटः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''लोटः लस्य उत्तमस्य आट् पित् च''' |</big>
<big>अनेन लोट्-लकारे, उत्तमपुरुषे सर्वेषां प्रत्ययानाम् आड्-आगमः, अपि च सर्वेषां प्रत्ययानां पित्त्वम् |</big>
<big>तात् इति प्रत्ययस्य मूलरूपं तातङ्; ङित्वात् अपित् |</big>
<big>२. परस्मैपदे विधिलिङि यद्यपि मूलप्रत्येषु तिप्, सिप्, मिप् च पितः सन्ति, तथापि यात्, याः, याम् इति सिद्धप्रत्ययानां पित्त्वं नास्ति | किमर्थम् ?</big>
<big>परस्मैपदस्य विधिलिङि यासुट्-आगमः भवति, इति अस्माभिः दृष्टम् | '''यासुट् परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् | ङिद्वत् अतः '''क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | धातु-विकरणप्रत्यययोः मेलनेन यत् अङ्गं निष्पन्नं, तेन अङ्गेन ङिद्वत् यासुट्-आगमः दृश्यते न तु तिप्, सिप्, मिप् ये मूले पितः | मूल-प्रत्ययः पित् भवतु नाम, परन्तु अङ्गेन इदं पित्त्वं न दृश्यते यतः मध्ये ङिद्वत् यासुट्-आगमः अस्ति | मध्ये ङिद्वत् यासुट्-आगमः, अतः अङ्गेन केवलं ङिद्वत्त्वं दृश्यते | तस्मात् किमपि पित्-निमित्तकं कार्यं नार्हम् | फलितार्थः एवं यत् सिद्ध-प्रत्ययानां पित्त्वं नास्ति |</big>
<big><u>सारांशः</u></big>
<big>अस्मिन् करपत्रे बहुकिमपि उक्तं— प्रत्ययानां व्युत्पत्तिः दत्ता यत्र अदन्ते अनदन्ते भेदः वर्तते | एषां व्युत्पत्तीनां च बोधनेन महान् लाभः | तदा चतुर्विधाः सिद्ध-तिङ्प्रत्ययाः प्रदर्शिताः; ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह-तिङन्तरूपाणि तेषु आधारितानि |</big>
|