6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH

Revision as of 05:58, 9 May 2021 by Haritosh (talk | contribs)

6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH

ध्वनिमुद्रणानि--


2017 वर्गः

१) sArvadhAtukaprakriyA---anadantam-angam_+_siddha-ting-pratyayAH_2017-03-29

२) sArvadhAtukaprakriyA---anadantam-angam_+_siddha-ting-pratyayAH-parasmaipade-Atmanepade-ca_2017-04-05

३) aShTAdhyAyyAM-pratyayAdesha-sUtrANi_+_siddha-ting-pratyaya-sUtra-cintanaM-pittvam-apittvaM-ca_2017-04-19


2015 वर्गः

१) anadantAGgAnAM_krute_siddha-tiGpratyayAH_2015-09-22

२) anadantAGgasya_siddha-tiGpratyayAH--2_parasmaipade-vidhiling_Atmanepade-laT-loT-lang-vidhiling_2015-09-29

३) anadantAGgasya_siddha-tiGpratyayAH--3_adantAngasya-anadantAngasya-ca-tiGpratyaya-bhedAH_+_siddhatingpratyayAnAM_caturvidhatvam_2015-10-06


सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌


२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः


३. तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌संज्ञकप्रत्यययोः मेलनम्‌


सोपानत्रयस्य एका दृष्टिः


अदन्ताङ्गस्य दृष्टान्तः | धात्वर्थविवक्षायां भू धातुः आनीयते | लकारविवक्षायां लट्‌-लकारः आनीयते | प्रथमपुरुषैकवचनस्य विवक्षायां लटः स्थाने तिप्‌-आदेशः | भू + तिप्‌ इत्यस्ति | तिप्‌ सार्वधातुकसंज्ञकः, कर्त्रर्थकः, तिङ्‌संज्ञकः च अतः कर्तरि शप् इत्यनेन मध्ये शप्‌ इति विकरणप्रत्ययः विहितः | भू + शप्‌ + तिप्‌ | अनुबन्धलोपे भू + अ + ति | अस्यामेव स्थित्याम्‌ उपर्युक्तं सोपानत्रयं प्रारभ्यते |


प्रथमसोपाने विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌ | तर्हि अत्र "अ" इति विकरणप्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणः क्रियते, भू → भो | एतदेव अस्माकं अङ्गकार्यम्‌ | तदा सन्धिकार्यम्‌—एचोऽयवायावः इत्यनेन भो + अ → भ्‌ + अव्‌ + अ → भव | इदं सन्धिकार्यम्‌ अङ्गकार्यं नास्त्येव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम्‌ | सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते—ओकारः अस्ति, परश्च अकारः अस्ति | 'शप्‌' इति कारणं नास्ति अत्र; यः कोऽपि अकारः भवतु, तादृशं कार्यं भविष्यति एव | ओकाराकारयोः मेलनेन ओ-स्थाने अव्‌-आदेशः, इति सन्धिकार्यम्‌ | एवं च धातु-विकरणप्रत्यययोः मेलनेन भव इत्यङ्गं जातं, प्रथमं सोपानम्‌ समाप्तम्‌ |


द्वितीयसोपाने तिङ्‌संज्ञकप्रत्यय-सिद्धिः; अत्र तिप्‌ इति मूलप्रत्ययः, हलन्त्यम्‌ इत्यनेन पकारस्य इत्‌-संज्ञा लोपश्च, ति इति सिद्ध-तिङ्‌प्रत्ययः निष्पन्नः | द्वितीयसोपानं समाप्तम्‌ | भव + ति इत्यस्ति |


तृतीयसोपानं तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यम् | ति-प्रत्ययः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः पूर्वम्‌ इक्‌-प्रत्याहारे स्थितः कश्चन वर्णः यदि स्यात्‌, तर्हि सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यं स्यात्‌ | किन्तु एतावता अस्माकम्‌ अङ्गम् सर्वदा‌ अदन्तम्‌ आसीत्‌; यत्र अङ्गस्य अन्तिमः वर्णः अत्‌ (ह्रस्वः अकारः), तत्र गुणकार्यं न सम्भवति | इक्‌ (इ, उ, ऋ, ऌ) अन्ते अस्ति चेदेव गुणकार्यम्‌ अर्हति; यत्र अङ्गम्‌ अदन्तम्‌ अस्ति तु नार्हत्येव | यत्र अङ्गमदन्तम्‌ अस्ति तत्र तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यम् अतीव न्यूनम्‌*— अतः तृतीयसोपाने आधिक्येन केवलम्‌ अङ्ग-तिङ्‌संज्ञकप्रत्ययोः मेलनं भवति | यथा भव + ति → भवति | किन्तु अग्रे गत्वा यत्र अङ्गम्‌ अदन्तं नास्ति, यत्र अङ्गस्य अन्ते उदाहरणार्थम्‌ उकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति | इति तिङन्तपदस्य निर्माणार्थं सोपानत्रयस्य एका दृष्टिः |


*अदन्ताङ्गे सति, यञादि-सार्वधातुकप्रत्यये परे, अङ्गकार्यं भवति |


अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |


पठ + वः → अतो दीर्घो यञि (७.३.१०१) इत्यनेन अदन्ताङ्गस्य दीर्घादेशः → पठावः


दशानां धातुगणानां गणसमूहौ


धातूनां दश गणाः सन्ति इति वयं जानीमः | एते दश गणाः पुनः समूहद्वये विभाजिताः सन्ति इत्यपि जानीमः |

१. प्रथमगणसमूहः = भ्वादिः, दिवादिः, तुदादिः, चुरादिः इति चत्वारः गणाः

२. द्वितीयगणसमूहः = अदादिः, जुहोत्यादिः, स्वादिः, रुधादिः, तनादिः, क्र्यादिः इति षट्‌ गणाः


अङ्गान्ते भेदः एव विभजनस्य कारणम्‌ | प्रथमगणसमूहे धातु-विकरणप्रत्यययोः मेलनेन निष्पन्नम्‌ अङ्गम्‌ अदन्तम्‌ अस्ति सर्वत्र— अङ्गस्य अन्ते अकारः | यथा भू + शप्‌ → भव, नश्‌ + श्यन्‌ → नश्य, लिख्‌ + श → लिख, चुर्‍ + णिच्‌ + शप्‌ → चोरय, इति एषु चतुर्षु धातुगणेषु अङ्गम्‌ अदन्तम्‌ |


द्वितीयगणसमूहे सर्वाणि अङ्गानि अनदन्तानि | यथा स्वादिगणे शक्‌ + श्नु → शक्नु इति उकारान्तम्‌ अङ्गं; क्र्यादिगणे क्री + श्ना → क्रीणा इति आकारान्तम्‌ अङ्गम्‌ |


प्रथमगणसमूहस्य कृते, तिङन्तपदम्‌ उपर्युक्त-सोपानत्रयेण कथं सिध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतम्‌— चतुर्णाम्‌ अपि गणानां प्रसङ्गे | सम्प्रति द्वितीयगणसमूहे तिङन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयाम |


प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम्‌ अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्‌संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम्‌ अनदन्ताङ्गानां कृते समाना | अतः एतत्‌ कार्यम्‌ अधुना परिशीलयाम |


प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्‌प्रत्ययाः भिन्नाः


प्रथमतया ज्ञातव्यं यत्‌ प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्‌प्रत्ययाः किञ्चित्‌ भिन्नाः | प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्ध-तिङ्‌प्रत्ययाः विहिताः; द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्ध-तिङ्‌प्रत्ययाः विहिताः | तर्हि समूहद्वयस्य सिद्ध-तिङ्‌प्रत्ययानां भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम्‌ |


सर्वे सिद्ध-तिङ्‌प्रत्ययाः निष्पन्नाः भवन्ति मूल-तिङ्‌प्रत्ययेभ्यः—


परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः


तिप्‌     तस्‌      झि

सिप्‌     थस्‌      थ

मिप्‌     वस्‌     मस्‌‍


आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः


त       आताम्     झ

थास्‌    आथाम्‌    ध्वम्‌

इड्‌      वहि       महिङ्‌


अदन्ते अनदन्ते च सिद्ध-तिङ्‌प्रत्ययानां पार्थक्यं कुत्र इति विषयः | वस्तुतः किञ्चिदेव भेदः अस्ति | अदन्तानां सिद्धप्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता (पाठः , च) अतः पुनः अत्र न क्रियते | सा पूर्वप्रदर्शिता व्युत्पत्तिः ‌अधोभागस्य आधारः | अनदन्ताङ्गानां तिङ्‌-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्‌-प्रत्ययेभ्यः भिद्यन्ते, तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम्‌ |


अधः अनदन्ताङ्गानां तिङ्‌-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्‌-प्रत्ययेभ्यः भिद्यन्ते, तत्र प्रत्ययः नीललोहितवर्णेन, तिर्यक्‌-रूपेण लिखितः |


A. परस्मैपदस्य तिङ्‌-प्रत्ययाः — अदन्ते अनदन्ते च भेदः


१. परस्मैपदस्य लट्‌-लकारे कोऽपि भेदः नास्ति | अङ्गम्‌ अदन्तं स्यात्‌ अनदन्तं वा स्यात्‌, परस्मैपदसंज्ञकेषु प्रत्ययेषु न कोऽपि भेदः |


अतः अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—


ति      तः     अन्ति*

सि      थः     थ

मि      वः     मः


*अङ्गम्‌ अभ्यस्तं चेत्‌, अति भवति न तु अन्ति | अभ्यस्तं नाम यत्र द्वित्वं भवति, यथा जुहोत्यादिगणे | अतः दा-धातोः लटि प्रथमपुरुषबहुवचने ददति |


अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | झोऽन्तः (७.१.३) इत्यस्मात्‌ झः (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌ |


२. परस्मैपदस्य लोट्‌-लकारे केवलम्‌ एकः भेदः | मध्यमपुरुषे सिपः स्थाने हि-आदेशः सर्वत्र— अदन्ताङ्गेषु अनदन्ताङ्गेषु च— भवति एव | अदन्ताङ्गेषु तस्य हि-इत्यस्य लुक्‌ (लोपः) भवति | अनदन्ताङ्गेषु तस्य लुक्‌ न भवति |


अ) मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि-आदेशः सर्वत्र भवति |


सेर्ह्यपिच्च (३.४.८७) = लोट्‌-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित्‌ भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लोटो लङ्‌वत्‌ (३.४.८५) इत्यस्मात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य सेः हि अपित्‌ च |


आ) अङ्गम्‌ अदन्तं चेत्‌ तस्य हि-प्रत्ययस्य लोपः |


अतो हेः (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | चिणो लुक्‌ (६.४.१०४) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य‌ (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात्‌ भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गात्‌ हेः लुक्‌ |


तर्हि अङ्गम्‌ अनदन्तं चेत्‌, हि इत्यस्य लोपः न भवति | (कुत्रचित्‌ अपवादभूतेषु अनदन्तेषु हि-लोपः भवति; तत्‌ तु पृथक्‌ गणेषु पश्येम |)


अनदन्ताङ्गानां कृते लोटि सिद्ध-प्रत्ययाः—

तु, तात्‌      ताम्‌     अन्तु

हि, तात्‌     तम्‌      त

आनि         आव    आम


३. परस्मैपदस्य लङ्‌-लकारे कोऽपि भेदः नास्ति |


अनदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—

त्‌     ताम्‌     अन्‌

स्‌     तम्‌      त

अम्‌    व       म


४. परस्मैपदस्य विधिलिङ्‌-लकारः सर्वत्र भिन्नः एव |

पूर्वम्‌ उक्तं यत्‌ विधिलिङि यासुट् आगमः भवति प्रत्ययात्‌ प्राक् | यासुट्‌ 'परस्मैपदेषूदात्तो' ङिच्च (३.४.१०३) | तत्र अनुबन्धलोपे सति "यास्‌" इति शिष्यते |

a) यदि अङ्गम्‌ अदन्तं तर्हि तस्य यासुडागमस्य स्थाने इय्‌ इति आदेशः | अतो येयः (७.२.८०) इत्यनेन यासः स्थाने इय्‌ आदेशः | यथा पठ्‌ + अ + यास्‌ + त् → पठ्‌ + अ + इय्‌ + त्‌ → पठ (इति अङ्गम्‌) + इत् (इति सिद्ध-तिङ्‌प्रत्ययः) → पठेत्‌ |

b) अनदन्तेषु इय्‌-आदेशः न भवति | यथा चिनु + यास्‌ + त्‌ → चिनुयात्‌ ‌

यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) = लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | विधिसूत्रम्‌ अतिदेशसूत्रं च | लिङः सीयुट्‌ (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यासुट्‌, प्रत्ययात्‌ प्राक्‌ आयाति | यासुट्‌ प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्‌, उदात्तः प्रथमान्तं, ङित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लिङः सीयुट्‌ (३.४.१०२) इत्यस्मात्‌ लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— परस्मैपदानां लिङः लस्य उदात्तः यासुट्‌ ङित्‌ च |

यास्‌-आगमे, विधिलिङि सकारलोपः सर्वत्र भवति—


'लिङः सलोपोऽनन्तस्य (७.२.७९) = सार्वधातुकलिङि, अपदान्तस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः नञ्तत्पुरुषः, तस्य अनन्तस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यस्मात्‌ सार्वधातुकस्य इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— 'अङ्गात्‌ सार्वधातुकस्य लिङः अनन्तस्य सः लोपः |


आशीर्लिङ्‌ आर्धधातुकलकारः इति कारणतः अनेन सूत्रेण सकारलोपः न भवति | विधिलिङि प्रथमपुरुषे यात् याताम्‌ युः; आशीर्लिङि यात्‌ यास्ताम् यासुः | धेयं यत्‌ विधिलिङि आशीर्लिङि च प्रथमपुरुषैकवचने 'यात्‌' समानम्‌ अस्ति; उभयत्र सकारलोपः, किन्तु भिन्न-सूत्रेण | प्रथमपुरुषैकवचने उभयत्र यास्‌ + त्‌ → यास्त्‌ | विधिलिङि लिङः सलोपोऽनन्तस्य (७.२.७९) इत्यनेन सकारलोपः | आशीर्लिङि यत्र सकारलोपः भवति, स्कोः संयोगाद्योरन्ते च (८.२.२९) इति सूत्रेण भवति | अनेन सूत्रेण पदान्ते संयोगः भवति चेत्‌, तस्य च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, तर्हि तस्य सकारस्य ककारस्य च लोपः भवति |


अदन्ताङ्गेषु इव, अत्र अपि झि-स्थाने जुस्‌ आदेशः, झेर्जुस्‌ (३.४.१०८) | जकारस्य इत्‌-संज्ञा चुटू इति सूत्रेण; तस्य लोपः इत्यनेन लोपः | उस्‌ अवशिष्यते |


झेर्जुस्‌ (३.४.१०८) = लिङ्‌-लकारस्य झि इत्यस्य स्थाने जुस्‌-आदेशो भवति | झेः षष्ठ्यन्तं, जुस्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | लिङः सीयुट्‌ (३.४.१०२) इत्यस्मात्‌ लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लिङः लस्य झेः जुस्‌ | झोऽन्तः (७.१.३) इत्यस्य अपवादः |


उस्यपदान्तात् (६.१.९५) = अपदान्तात्‌ अवर्णात्‌ उसि परे पूर्वपरयोः स्थाने पररूपादेशो भवति | अस्य सूत्रस्य प्रसक्तिः केवलम्‌ अनदन्ताङ्गेषु | न पदान्तम्‌ अपदान्तं, तस्मात्‌ अपदान्तात्‌ | उसि सप्तम्यन्तम्‌, अपदान्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | आद्गुणः (६.१.८६) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ पररूपम्‌ इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ आत्‌ उसि अचि एकः पूर्वपरयोः पररूपं संहितायाम्‌ |


यास्‌ + तिप → यास्‌ + त्‌ → सकारलोपः → यात्‌

तस्‌ → ताम्‌ → यास्‌ + ताम्‌ → सकारलोपः → याताम्‌

यास्‌ + झि → लिङि झि-स्थाने जुस्‌ → या + उस्‌ → उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः → युस्‌ → रुत्वविसर्गौ (न विभक्तौ तुस्माः इत्यनेन सकार-लोप-निषेधः; स्‌ स्थाने "रु”*, रु स्थाने विसर्गः**) → युः

यास्‌ + सिप्‌ → यास्‌ + स्‌ → सकारलोपः → या + स्‌ → रुत्वविसर्गौ → याः

थस्‌ → तम्‌ → यास्‌ + तम्‌ → यातम्‌

थ → त → यास्‌ + त → यात

मिप्‌ → अम्‌ → यास्‌ + अम्‌ → सकारलोपः, सवर्णदीर्घः → याम्‌

वस्‌ → व → यास्‌ + व → सकारलोपः → याव

मस्‌ → म → यास्‌ + म → सकारलोपः → याम


* ससजुषो रुः (८.२.६६)

** खरवसानयोर्विसर्जनीयः (८.३.१५)


उपरितन-प्रत्ययानां सिद्ध्यर्थं एषां सूत्राणाम्‌ आवश्यकता इति स्मर्यताम्‌ | अङ्गम्‌ अदन्तं चेदपि अनदन्तं चेदपि एषां सूत्राणां प्रसक्तिः—

इतश्च (३.४.१००) = ङित्‌-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्‌प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (इकारस्य) लोपः न तु पूर्णप्रत्ययस्य | इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात्‌ लोपः, परस्मैपदेषु इत्यनयोः अनुवृत्तिः | नित्यं ङितः (३.४.९९) इत्यस्मात्‌ ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ङितः लस्य इतः परस्मैपदस्य लोपः |

तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः | तश्च थश्च थश्च मिप्‌ च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम्‌ | ताम्‌ च तम्‌ च तश्च अम्‌ च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | नित्यं ङितः (३.४.९९) इत्यस्मात्‌ ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ङितः लस्य तस्थस्थमिपां तान्तन्तामः |

नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्‌, ङितः षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | स उत्तमस्य (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ङितः लस्य सः उत्तमस्य नित्यं लोपः |


अनदन्ताङ्गानां कृते विधिलिङि सिद्ध-प्रत्ययाः—

यात्‌     याताम्‌     युः

याः     यातम्‌     यात

याम्‌     याव      याम


B. आत्मनेपदस्य तिङ्‌-प्रत्ययाः — अदन्ते अनदन्ते च भेदः


१. आत्मनेपदस्य लटि, लोटि, लङि च समानेषु त्रिषु प्रत्ययेषु भेदः | अधः पश्यन्तु—


अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—

ते     आते      अते

से     आथे      ध्वे

ए       वहे         महे


अनदन्ताङ्गानां कृते लोटि‌ सिद्ध-प्रत्ययाः—

ताम्‌   आताम्‌   अताम्‌

स्व    आथाम्‌    ध्वम्‌

ऐ      आवहै      आमहै


अनदन्ताङ्गानां कृते लङि‌ सिद्ध-प्रत्ययाः—

त    आताम्‌    अत

थाः  आथाम्‌    ध्वम्‌

इ     वहि         महि


त्रिषु लकारेषु भेदः भवति (१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने (२) प्रथमपुरुषस्य बहुवचने

अतः उदाहरणार्थम्—

यत्र अङ्गम् अदन्तम्‌ अस्ति, रूपाणि एवं भवन्ति लटि— प्रकाशते, प्रकाशेते, प्रकाशन्ते |

यत्र अङ्गम् अनदन्तम्‌ अस्ति, रूपाणि एवं भवन्ति लटि— चिनुते, चिन्वाते, चिन्वते |


तथा किमर्थमिति अधः वीक्ष्यताम्‌—


(१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने


पूर्वम्‌ अस्माभिः दृष्टं यत्‌ अङ्गम्‌ अदन्तम्‌ अस्ति चेत्‌, तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति, तस्य स्थाने इकारः भवति | द्विवचने मूलप्रत्ययौ 'आताम्' 'आथाम्' अनयोः स्थितस्य आकारस्य स्थाने 'इ' | आतो ङितः (७.२.८१) = अदन्तात्‌ अङ्गात्‌ परस्य आकारस्य स्थाने इत्वं स्यात्‌ | तर्हि लटि इते, इथे; लोटि इताम्, इथाम्‌; लङि इताम्‌, इथाम्‌ |


परन्तु अङ्गम्‌ अनदन्तं चेत्‌ आकारस्य स्थाने इ-आदेशः न भवत्येव | अनदन्ताङ्गेषु लटि आते, आथे इत्येव भवतः; लोटि आताम्‌, आथाम्‌ इत्येव भवतः; लङि आताम्‌, आथाम्‌ इत्येव भवतः |


(२) प्रथमपुरुषस्य बहुवचने


आत्मनेपदे अङ्गम्‌ अदन्तं चेत्‌, तर्हि लटि, लोटि, लङि च झोऽन्तः (७.१.३) इत्यनेन झ्‌-स्थाने अन्त्‌-आदेशः भवति | अतः लटि अन्ते, लोटि अन्ताम्‌, लङि अन्त इति सिद्ध-प्रत्ययाः भवन्ति |


अदन्ताङ्गेषु—

झोऽन्तः (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌ प्रत्ययस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य प्रत्ययस्य झः अन्तः |


अनदन्ताङ्गेषु झकारस्य स्थाने अन्त्‌-आदेशः न भवति, अपि तु अत्‌-आदेशः एव भवति | जुहोत्यादिगणे अदभ्यस्तात् (७.१.४) इति सूत्रेण; अपरेषु गणेषु आत्मनेपदेष्वनतः (७.१.५) इति सूत्रेण | इमे द्वे सूत्रे झोऽन्तः (७.१.३) इति सूत्रं प्रबाध्य झ्‌-स्थाने अत्‌-आदेशम्‌ आनयतः |


अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | झोऽन्तः (७.१.३) इत्यस्मात्‌ झः (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌ |


आत्मनेपदेष्वनतः (७.१.५) = आत्मनेपदेषु ह्रस्व-अकार-भिन्नवर्णात्‌ परस्य झकार-अवयवस्य स्थाने अत्‌-आदेशो भवति | न विभक्तौ तुस्माः (१.३.४) इत्यस्य निषेधेन अत्‌ इत्यस्य तकारस्य इत्‌-संज्ञा न भवति | न अत्‌ अनत्‌, तस्मात्‌ अनतः | आत्मनेपदेषु सप्तम्यन्तम्‌, अनतः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | आत्मनेपदेषु इत्यस्य षष्ठ्यर्थे सप्तमी; आत्मनेपदावयवस्य झकारस्य इति लभ्यते | झोऽन्तः (७.१.३) इत्यस्मात्‌ झः इत्यस्य अनुवृत्तिः | अदभ्यस्तात् (७.१.४) अत्‌ इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌ प्रत्ययादेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनतः अङ्गात्‌‍ आत्मनेपदेषु प्रत्ययादेः झः अत्‌ |


२. विधिलिङ्गि कोऽपि भेदः नास्ति |


विधिलिङि‌ सिद्ध-प्रत्ययाः—


ईत      ईयाताम्‌     ईरन्‌

ईथाः    ईयाथाम्‌     ईध्वम्‌

ईय      ईवहि        ईमहि


एतावता मूलशिक्षा इयम्, अदन्ताङ्गस्य अनदन्ताङ्गस्य च सिद्धतिङ्‌प्रत्यय-तुलना


परस्मैपदे लटि = न कोऽपि भेदः

परस्मैपदे लोटि = अङ्गम्‌ अदन्तं चेत्‌ हि-लोपः; अङ्गम्‌ अनदन्तं चेत्‌ हि-लोपो न |

परस्मैपदे लङि = न कोऽपि भेदः

परस्मैपदे विधिलिङि = इय्‌-यासुट्‌-भेदात्‌ सर्वत्र भेदः

आत्मनेपदे लटि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने

आत्मनेपदे लोटि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने

आत्मनेपदे लङि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने

आत्मनेपदे विधिलिङि = न कोऽपि भेदः


C. अनदन्ताङ्गानां सिद्ध-तिङ्‌प्रत्ययानां पित्त्वम्‌ अपित्त्वं च

मूलतिङ्‌प्रत्ययान्‌ आधारीकृत्य सिद्ध-तिङ्‌प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित्‌ अस्ति चेत्‌, सिद्ध-प्रत्ययः अपि तथा | यथा तिप्‌ पित्‌ अस्ति, अतः लटि ति, लोटि तु, लङि त्‌ इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित्‌ अस्ति चेत्‌, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌ इत्यस्मिन्‌) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत्‌ अङ्गं यत्र अदन्तम्‌ अस्ति, तत्र तिङ्‌प्रत्ययम्‌ अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्‌प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम्‌ अवधानं नासीत्‌ | किन्तु इतः अग्रे अङ्गम्‌ अनदन्तम्‌; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्‌प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम्‌ | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम्‌ | चिनु + ति → ति पित्‌ अस्ति अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → चिनो + ति → चिनोति |

पित्‌-प्रत्ययाः पुनः द्विविधाः; अपित्‌-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्‌-वर्णः अस्ति चेत्‌, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्‌-वर्णः अस्ति चेत्‌, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |

यथा, प्रत्ययः पित्‌ अस्ति चेत्‌, गुणकार्यस्य प्रसक्तिः; अपित्‌ अस्ति चेत्‌ गुणः नार्हति | प्रत्ययः अजादिः अस्ति चेत्‌ स्वरसन्धिः अर्हति; हलादिः अस्ति चेत्‌ नार्हति | एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति | इमां विविधताम्‌ अग्रिमे करपत्रे द्रक्ष्यामः | अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयाम |


ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ |


               परस्मैपदम्‌                                               आत्मनेपदम्‌

                                                लट्‌-लकारः

        ति      तः     अन्ति                                    ते      आते     अते

         सि     थः       थ                                       से     आथे      ध्वे

         मि      वः       मः                                       ए      वहे      महे


हलादिपित्सार्वधातुकप्रत्ययाः— ति, सि, मि

अजादिपित्सार्वधातुकप्रत्ययाः— ०

हलाद्यपित्सार्वधातुकप्रत्ययाः— तः, थः, थ, वः, मः, ते, से, ध्वे, वहे, महे

अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्ति, आते, अते, आथे, ए


                                                 लोट्‌-लकारः


  तु, तात्‌    ताम्‌     अन्तु                                 ताम्‌      आताम्‌     अताम्‌

  हि, तात्‌    तम्‌       त                                    स्व       आथाम्‌     ध्वम्‌

  आनि    आव     आम                                   ऐ       आवहै   आमहै


हलादिपित्सार्वधातुकप्रत्ययाः— तु

अजादिपित्सार्वधातुकप्रत्ययाः— आनि, आव, आम, , आवहै, आमहै

हलाद्यपित्सार्वधातुकप्रत्ययाः— हि, तात्‌, ताम्‌, तात्‌, तम्‌, त, ताम्‌, स्व, ध्वम्‌

अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्तु, आताम्‌, अताम्‌, आथाम्‌


                                                      लङ्‌-लकारः


         त्‌        ताम्‌      अन्‌                                    त      आताम्‌     अत

         स्‌        तम्‌        त                                     थाः     आथाम्‌    ध्वम्‌

         अम्‌      व         म                                      इ       वहि        महि


हलादिपित्सार्वधातुकप्रत्ययाः— त्‌, स्‌

अजादिपित्सार्वधातुकप्रत्ययाः— अम्‌

हलाद्यपित्सार्वधातुकप्रत्ययाः— ताम्‌, तम्‌, त, व, म, त, थाः, ध्वम्‌, वहि, महि

अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्‌, आताम्‌, अत, आथाम्‌, इ


                                                   विधिलिङ्‌-लकारः


  यात्‌      याताम्‌     युः                                      ईत     ईयाताम्‌     ईरन्‌

  याः       यातम्‌     यात                                     ईथाः   ईयाथाम्‌     ईध्वम्‌

  याम्‌      याव       याम                                     ईय      ईवहि        ईमहि


हलादिपित्सार्वधातुकप्रत्ययाः— ०

अजादिपित्सार्वधातुकप्रत्ययाः— ०

हलाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) यकारादयः परमैपदिनः

अजाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) ईकारादयः आत्मनेपदिनः


आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्‌, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |


अधुना अन्तिमः एकः विचारणीयः | उपरि उक्तम्‌ आसीत्‌ यत्‌ पित्त्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः | मूलस्य पित्त्वं चेत्‌, सिद्धस्यापि पित्त्वम्‌ इति | किञ्च अत्र अपवादद्वयं प्रतीयते |


१. लोट्‌-लकारस्य उत्तमपुरुषे आनि, आव, आम,, आवहै, आमहै | आनि मिप इत्यस्मात्‌ आगतः अतः तस्य पित्त्वम्‌ अस्ति | किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति | तेषां पित्त्वं कुतः आगतम्‌ ?


लोटि सर्वत्र परस्मैपदे आत्मनेपदे च उत्तमपुरुषे आड्‌ आगमः | अयम्‌ आगमः ("आ") प्रत्ययानाम्‌ आदौ युज्यते | येन सूत्रेण अयम्‌ आड्‌-आगमः विहितः, तेन एव सूत्रेण व्युत्पन्न-प्रत्ययस्य पित्त्वं विधीयते |


आडुत्तमस्य पिच्च (३.४.९२) = लोट्‌-लकारस्य लस्य स्थाने यः उत्तमपुरुष-प्रत्ययः भवति, तस्य आट्‌-आगमो भवति, अपि च तस्य पित्त्वं भवति | आद्यन्तौ टकितौ इत्यनेन आट्‌-आगमः प्रत्ययात्‌ प्राक्‌ आयाति | आड्‌ प्रथमान्तम्‌, उत्तमस्य षष्ठ्यन्तम्‌, पित् प्रथमान्तम्‌, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लोटो लङ्वत्‌ (३.४.८५) इत्यस्मात्‌ सूत्रात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य उत्तमस्य आट्‌ पित्‌ च |


अनेन लोट्‌-लकारे, उत्तमपुरुषे सर्वेषां प्रत्ययानाम्‌ आड्‌-आगमः, अपि च सर्वेषां प्रत्ययानां पित्त्वम्‌ |


तात्‌ इति प्रत्ययस्य मूलरूपं तातङ्‌; ङित्वात्‌ अपित्‌ |


२. परस्मैपदे विधिलिङि यद्यपि मूलप्रत्येषु तिप्‌, सिप्‌, मिप्‌ च पितः सन्ति, तथापि यात्‌, याः, याम्‌ इति सिद्धप्रत्ययानां पित्त्वं नास्ति | किमर्थम्‌ ?


परस्मैपदस्य विधिलिङि यासुट्‌-आगमः भवति, इति अस्माभिः दृष्टम्‌ | यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | ङिद्वत्‌ अतः क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं, तेन अङ्गेन ङिद्वत्‌ यासु‌ट्‌-आगमः दृश्यते न तु तिप्‌, सिप्‌, मिप्‌ ये मूले पितः | मूल-प्रत्ययः पित्‌ भवतु नाम, परन्तु अङ्गेन इदं पित्त्वं न दृश्यते यतः मध्ये ङिद्वत्‌ यासुट्‌-आगमः अस्ति | मध्ये ङिद्वत्‌ यासुट्‌-आगमः, अतः अङ्गेन केवलं ङिद्वत्त्वं दृश्यते | तस्मात्‌ किमपि पित्‌-निमित्तकं कार्यं नार्हम्‌ | फलितार्थः एवं यत्‌ सिद्ध-प्रत्ययानां पित्त्वं नास्ति |


सारांशः


अस्मिन्‌ करपत्रे बहुकिमपि उक्तं— प्रत्ययानां व्युत्पत्तिः दत्ता यत्र अदन्ते अनदन्ते भेदः वर्तते | एषां व्युत्पत्तीनां च बोधनेन महान्‌ लाभः | तदा चतुर्विधाः सिद्ध-ति‌ङ्‌प्रत्ययाः प्रदर्शिताः; ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह-तिङन्तरूपाणि तेषु आधारितानि |


Swarup – June 2013 (Updated September 2015)


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.


To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].

१ - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः.pdf (95k) Swarup Bhai, Apr 29, 2018, 2:46 PM