6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(5 intermediate revisions by the same user not shown)
Line 242:
 
 
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌''' |</big>
 
<big>चर्त्वम्‌</big>
Line 617:
 
 
<big>'''खरि च''' (८.४.५५) = खरि परे झलः स्थाने चरादेशो भवति | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍‌चर्''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां चर्‍‌चर् खरि च संहितायाम्''' ‌|</big>
 
 
<big>चर्‍चर्-प्रत्याहारे च्‌, ट्‌, त्‌, क्‌, प्‌ इत्येते वर्णाः (वर्गाणां प्रथमवर्णाः) अन्तर्भूताः | श्‌, ष्‌, स्‌ अपि अन्तर्भूताः, परन्तु अनेन सूत्रेण श्‌-स्थाने श्‌, ष्‌-स्थाने ष्‌, स्‌-स्थाने स्‌ इति कारणतः कोऽपि भेदः नास्ति तत्र | पदान्ते इदं सूत्रं '''झलां जशोऽन्ते''' इत्यस्य बाधकम्‌ |</big>
 
 
Line 673:
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभी + तः → बिभीतः</big>
 
<big>४) अजाद्यपित्सु = '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन संयोगपूर्वस्य इयङ्‌-आदेशः | जिह्री + अति → जिह्र्‍जिह्र् + इय्‌ + अति → जिह्रियति</big>
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' इत्यनेन असंयोगपूर्वस्य यण्‌-आदेशः | बिभी + अति → बिभ्‌ + य्‌ + अति → बिभ्यति</big>
Line 699:
<big>यथासामान्यम्‌—</big>
 
<big>अबिभी + स्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → अबिभे + स्‌ → '''ससजुषो रुः''' इत्यनेन रुत्वम्‌ → अबिभेर्‍अबिभेर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अबिभेः</big>
 
 
Line 705:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
Line 842:
 
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण , पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
 
 
Line 851:
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + ति → बिभर्‍बिभर् + ति → बिभर्ति</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + आनि → बिभर्‍बिभर् + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → बिभराणि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभृ + तः → बिभृतः</big>
Line 865:
 
 
<big>अबिभृ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अबिभर्‍अबिभर् + त्‌ → त्‌-लोपः → अबिभर्‍अबिभर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अबिभः</big>
 
<big>तथैव अबिभृ + स्‌ → अबिभर्‍अबिभर् + स्‌ → स्‌-लोपः → अबिभर्‍अबिभर् → अबिभः</big>
 
 
Line 879:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
<big>२. जुसि गुणः</big>
 
<big>अबिभृ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अबिभृ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्‍ अबिभर्+ उः → अबिभरुः</big>
 
 
Line 930:
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण , पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
 
 
<big>पॄ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → पॄपॄ → '''उरत्''' प्रबाध्य इत्यनेन पपॄ →'''अर्तिपिपर्त्योश्चउरण्‌ रपरः''' इत्यनेन अभ्यासस्यअण्‌ ह्रस्व-इकारादेशः,रपरः → पर्पॄ '''उरण्‌ रपरःहलादिः शेषः''' इत्यनेन अण्‌हलः रपरःलोपःपिर्पॄपपॄ → '''हलादिः शेषःअर्तिपिपर्त्योश्च''' इत्यनेन हलःअभ्यासस्य लोपःह्रस्व-इकारादेशः → पिपॄ इति अङ्गम्‌ |</big>
 
 
Line 942:
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + ति → पिपर्‍पिपर् + ति → पिपर्ति</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + आनि → पिपर्‍पिपर् + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → पिपराणि</big>
 
<big>३) हलाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि''' च इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पिपॄ + तः → पिपुर्‍पिपुर् + तः → पिपूर्‍पिपूर् + तः → पिपूर्तः</big>
 
<big>४) अजाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पिपॄ + अति → पिपुर्‍पिपुर् + अति → पिपुरति</big>
 
 
<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्यॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ऋकारःॠकारः अस्ति, न तु ऋकारःॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ऋवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतःॠतः अङ्गस्य उत्‌''' |</big>
 
 
Line 960:
 
 
<big>पिपॄ + तः → '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम् → पिपुर्‍पिपुर् + तः → '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर्‍पिपूर् + तः → पिपूर्तः</big>
 
<big>लङि‌—</big>
Line 967:
 
 
<big>अपिपॄ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अपिपर्‍अपिपर् + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अपिपर्‍अपिपर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अपिपः</big>
 
<big>तथैव अपिपॄ + स्‌ → अपिपर्‍अपिपर् + स्‌ → स्‌-लोपः → अपिपर्‍अपिपर् → अपिपः</big>
 
 
Line 981:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
<big>२. जुसि गुणः</big>
 
 
<big>अपिपॄ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अपिपॄ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर्‍‍अपिपर् + उः → अपिपरुः</big>
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
page_and_link_managers, Administrators
5,097

edits