<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ॠऋ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्''' (३.३.१०८, वार्तिकम्) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्''' (७.४.७६) इत्यस्मात् '''इत्''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात् '''शलौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ''' |</big>
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>

<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्यॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ऋकारःॠकारः अस्ति, न तु ऋकारःॠकारः इति अङ्गम्; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ऋवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''ॠत इद् धातोः''' (७.१.१००) इत्यस्मात् '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ओष्ठ्यपूर्वस्य ऋतःॠतः अङ्गस्य उत्''' |</big>
|