6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(18 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 06A - जुहोत्यादिगणे अजन्तधातवः}}
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 71 ⟶ 72:
 
<big>जुहोत्यादिगणे विकरणप्रत्ययः शप्‌ आसीत्‌, अनन्तरं तस्य श्लु‌ अभवत्‌ | लुमता शपः अदर्शनं जातम्‌, अतः धात्वङ्गे शप्‌-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ |</big>
 
 
 
<big>अधुना नूतनप्रश्नः उदेति यत्‌ अदादिगणे लुक्‌ अपि लुमान्‌ अस्ति, जुहोत्यादिगणे श्लु अपि लुमान्‌ | द्वयमपि लुमान्‌ चेत्‌, द्वयोः भेदः कः ? वस्तुतः द्वयोः कुत्रचित्‌ साम्यं, कुत्रचित्‌ च भेदः | साम्यं अस्मिन्‌, यत्‌ लुमान्‌ सन्‌ प्रत्ययलक्षणं न भवति | पुनः भेदः, यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च | यथा अदादिगणे '''उतो वृद्धिर्लुकि हलि''' इति सूत्रम्‌ अस्माभिः दृष्टं, येन गुणं प्रबाध्य वृद्धिर्भवति | श्लु इत्यनेन तादृशं कार्यं न प्राप्यते | किन्तु श्लोः विशिष्टं कार्यमपि अस्ति, यत्‌ लुक् इत्यनेन न सिध्यति | तत्र प्रमुखं कार्यम्‌ इदम्‌—</big>
Line 80 ⟶ 79:
 
 
<big>जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददादादा, धा → दधाधाधा, भी → बिभीभीभी, हु → जुहुहुहु |</big>
 
 
 
<big>पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च |</big>
Line 88 ⟶ 85:
 
<big>अत्रास्ति द्वित्वप्रकरणम्‌—</big>
 
 
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१)</big>
Line 116 ⟶ 111:
 
 
<big>द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |</big>
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
 
<big>'''अजादेर्द्वितीयस्य''' (६.१.२) | अधिकारसूत्रम्‌— अजादिधातोः द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रं — '''अजादेः द्वितीयस्य''' ('''एकाचः द्वे''') |</big>
 
 
<big>बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | '''एकाच्‌-भागः''' इत्युक्ते यदा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |</big>
 
 
<big>धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌</big>
 
<big>यथा भू + य ( यङ्प्रत्ययः) → '''भूय''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वम्‌ → '''भूय''' इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य</big>
 
 
<big>किन्तु धातुः अजादिः अस्ति चेत् '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति—</big>
 
<big>अश्‌ य ( यङ्प्रत्ययः) → '''अश्य''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम्‌ → अश्य इति धातौ '''अ'''श्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम्‌ → अ श्य श्य</big>
 
 
<big>'''न न्द्राः संयोगादयः''' (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न्‌ च द्‍ च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यस्मात्‌ '''अजादेः''' इत्यस्य अनुवृत्तिः | अच्‌ चासौ आदिश्च अजादिः, तस्मात्‌ अजादेः कर्मधारयः | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादेः संयोगादयः न्द्राः''' '''न द्वे''' |</big>
 
 
<big>यथा—</big>
 
<big>ऊर्णु → ऊ इति प्रथमः एकाच्‌-भागः, र्णु इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम्‌ → ऊर्णु नु</big>
 
 
<big>उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष</big>
 
 
 
<big>द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |</big>
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—'''पूर्वः अभ्यासः द्वयोः''' |</big>
Line 124 ⟶ 149:
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
 
 
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम्‌ इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
 
 
 
Line 147 ⟶ 170:
 
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | '''अत्र''' '''लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य अचः ह्रस्वः''' |</big>
 
<big>खा खाद्‌ → ख खाद्‌</big>
 
<big>नी नी → नि नी</big>
 
<big>लू लू → लु लू</big>
 
<big>से सेव्‌ → सि सेव्‌</big>
 
<big>गो गोष्ट्‌ → गु गोष्ट्‌</big>
 
<big>ढौ ढौक्‌ → ढु ढौक्‌</big>
 
 
 
Line 153 ⟶ 189:
 
<big>*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |</big>
 
<big>पठ्‌ → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा | एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्, भस्‌ |</big>
 
 
 
 
 
<big>'''शर्पूर्वाः खयः''' (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर् परञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | '''हलादिः शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य शर्पूर्वाः खयः शेषाः''' |</big>
 
<big>स्पर्ध्‌ → स्पर्ध्‌ स्पर्ध्‌ → प स्पर्ध्‌</big>
 
<big>एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर् |</big>
 
 
Line 160 ⟶ 208:
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
 
<big>खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌</big>
 
<big>गम्‌ → गम्‌ गम्‌ → ग गम्‌ → ज गम्‌</big>
 
<big>ग्रह्‌ → ग्रह्‌ ग्रह्‌ → ग ग्रह्‌ → ज ग्रह्‌</big>
 
<big>घृ → घृ घृ → घर् घृ → झ घृ → ज घृ</big>
 
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
 
<big>हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌</big>
 
 
<big>'''उरत्''' (७.४.६६) = अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
 
<big>वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर् वृष्‌ → व वृष्‌</big>
 
<big>कृष्‌ → कृष्‌ कृष्‌ → कृ कृष्‌ → कर् कृष्‌ → क कृष्‌ → च कृष्‌</big>
 
<big>हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर् हृष्‌ → ह हृष्‌ → ज हृष्‌</big>
 
<big>ऋकारान्तधातवः—</big>
 
<big>भृ → भृ भृ → भर् भृ → भ भृ → ब भृ</big>
 
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
 
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
 
<big>तॄ → तॄ तॄ → तर् तॄ → त तॄ</big>
 
 
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌''' |</big>
 
<big>चर्त्वम्‌</big>
 
<big>थु थुड्‌ → तु थुड्‌</big>
 
<big>फ फल्‌ → प फल्‌</big>
 
<big>छु छुप्‌ → चु छुप्‌</big>
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
 
<big>जश्त्वम्‌</big>
 
<big>भु भू → बु भू</big>
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍ प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌''' |</big>
 
<big>ढु ढौक्‌ → डु ढौक्‌</big>
 
<big>झ झर्झ्‌ → ज झर्झ्‌</big>
 
<big>अस्माभिः ज्ञायते यत्‌ सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
Line 178 ⟶ 270:
 
 
<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम्‌ अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्‌ परेपरः अस्ति— `तिङ्‌ वा कृत्‌ वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—</big>
 
* <big>शप्‌ विधीयते '''कर्तरि शप्‌''' इत्यनेन</big>
Line 192 ⟶ 284:
 
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>
 
 
 
Line 199 ⟶ 290:
 
<big>जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
 
 
 
Line 215 ⟶ 305:
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
 
<big>अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्‌प्रत्ययाः एते | जुहोत्यादिगणे एते एव योजनीयाः—</big>
Line 269 ⟶ 357:
 
<big>A. माङ्‌ माने (मा), ओहाङ्‌ गतौ (हा), ओहाक्‌ त्यागे (हा), गा स्तुतौ (गा)</big>
 
 
 
<big>द्वित्वम्‌ अभ्यासकार्यं च—</big>
Line 276 ⟶ 362:
 
<big>भृञाद्यन्तर्गणः | डुभृञ्‌ धारणपोषणयोः, माङ्‌ माने, ओहाङ्‌ गतौ—इमे त्रयः धातवः भृञादयः |</big>
 
 
 
<big>'''भृञामित्‌''' (७.४.७६) = भृञ्‌ माङ्‌ ओहाङ्‌ इत्येषां धातूनाम्‌ अभ्यासस्य ह्रस्वः इकारादेशो भवति श्लौ परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | भृञां षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''णिजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''त्रयाणां, शलौ‌''' इत्यनयोः अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भृञाम् त्रयाणाम्‌ अङ्गस्य अभ्यासस्य‌‌ इत्‌ शलौ''' |</big>
 
 
 
<big>त्रिषु धातुषु माङ्‌ माने (अनुबन्धलोपे मा), ओहाङ्‌ गतौ (अनुबन्धलोपे हा) आकारान्तधातू | द्वयमपि ङित्त्वात्‌ आत्मनेपदिधातुः |</big>
Line 449 ⟶ 531:
 
<big>ददा + हि → देहि | दधा + हि → धेहि | (अस्‌-धातोः एधि इति भवति; अग्रे अदादिगणस्य हलन्तधातुपाठे प्रक्रिया द्रष्टव्या |)</big>
 
 
 
<big>दा-धातोः अङ्ग-तिङ्‌प्रत्यययोः मेलने कुत्रचित्‌ चर्त्वसन्धिः भवति '''खरि च''' इत्यनेन सूत्रेण | चर्त्वसन्धौ तत्तत्‌ वर्गस्य प्रथमसदस्यादेशः भवति | ('''खरि च''' इति सूत्रम्‌ अधः विवृतम्‌ |) यथा—</big>
Line 466 ⟶ 546:
 
<big>परस्मैपदम्‌</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
Line 539 ⟶ 617:
 
 
<big>'''खरि च''' (८.४.५५) = खरि परे झलः स्थाने चरादेशो भवति | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍‌चर्''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां चर्‍‌चर् खरि च संहितायाम्''' ‌|</big>
 
 
<big>चर्‍चर्-प्रत्याहारे च्‌, ट्‌, त्‌, क्‌, प्‌ इत्येते वर्णाः (वर्गाणां प्रथमवर्णाः) अन्तर्भूताः | श्‌, ष्‌, स्‌ अपि अन्तर्भूताः, परन्तु अनेन सूत्रेण श्‌-स्थाने श्‌, ष्‌-स्थाने ष्‌, स्‌-स्थाने स्‌ इति कारणतः कोऽपि भेदः नास्ति तत्र | पदान्ते इदं सूत्रं '''झलां जशोऽन्ते''' इत्यस्य बाधकम्‌ |</big>
 
 
<big>डुधाञ् ञित्त्वात्‌ उभयपदी धातुः | दधा इति अङ्गम्‌ |</big>
 
 
 
<big>परस्मैपदम्‌</big>
Line 553 ⟶ 629:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 585 ⟶ 659:
 
<big>त्रयः इ/ईकारान्तधातवः सन्ति | वर्गद्वये विभक्ताः यतः अजाद्यपित्सु कार्यं पृथक्तया क्रियेत | कि ज्ञाने (कि-धातुः), ञिभी भये (भी-धातुः) च असंयोगपूर्वौ धातू; ह्री लज्जायां (ह्री-धातुः) संयोगपूर्वः |</big>
 
 
 
<big>कि → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
Line 601 ⟶ 673:
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभी + तः → बिभीतः</big>
 
<big>४) अजाद्यपित्सु = '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन संयोगपूर्वस्य इयङ्‌-आदेशः | जिह्री + अति → जिह्र्‍जिह्र् + इय्‌ + अति → जिह्रियति</big>
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' इत्यनेन असंयोगपूर्वस्य यण्‌-आदेशः | बिभी + अति → बिभ्‌ + य्‌ + अति → बिभ्यति</big>
Line 621 ⟶ 693:
 
<big>किमर्थम्‌ 'अजादौ जुसि परे' इति चेत्‌ 'शृणुयुः' | अत्र जुस्‌ भवति किन्तु स च जुस्‌ अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्‌-आगमे सति गुणः न भवति |</big>
 
 
 
<big>'''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) = लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''परस्मैपदानां लिङः लस्य उदात्तः यासुट्‌ ङित्‌ च''' |</big>
Line 629 ⟶ 699:
<big>यथासामान्यम्‌—</big>
 
<big>अबिभी + स्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → अबिभे + स्‌ → '''ससजुषो रुः''' इत्यनेन रुत्वम्‌ → अबिभेर्‍अबिभेर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अबिभेः</big>
 
 
Line 635 ⟶ 705:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
Line 666 ⟶ 736:
 
<big>ह्री लज्जायां परस्मैपदी धातुः | जिह्री इति संयोगपूर्वम्‌ ईकारान्तम् अङ्गम्‌ |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 687 ⟶ 755:
 
<big>हु → द्वित्वम्‌ अभ्यासकार्यं च परिशीलनीयम्‌</big>
 
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | जुहु + ति → जुहो + ति → जुहोति</big>
Line 719 ⟶ 785:
 
<big>यथा— जुहु + हि → जुहु + धि → जुहुधि |</big>
 
 
 
<big>हु-धातुः परस्मैपदी | जुहु इति अङ्गम्‌ |</big>
Line 726 ⟶ 790:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 744 ⟶ 806:
 
<big>पञ्च ऋकारान्तधातवः सन्ति—डुभृञ्‌ धारणपोषणयोः (भृ), सृ गतौ (सृ), घृ क्षरणदीप्त्योः (घृ), हृ प्रसह्यकरणे (हृ), ऋ गतौ (ऋ) च |</big>
 
 
 
<big><u>अभ्यासकार्यम्‌</u></big>
Line 782 ⟶ 842:
 
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण , पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
 
 
Line 791 ⟶ 851:
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + ति → बिभर्‍बिभर् + ति → बिभर्ति</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + आनि → बिभर्‍बिभर् + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → बिभराणि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभृ + तः → बिभृतः</big>
Line 805 ⟶ 865:
 
 
<big>अबिभृ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अबिभर्‍अबिभर् + त्‌ → त्‌-लोपः → अबिभर्‍अबिभर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अबिभः</big>
 
<big>तथैव अबिभृ + स्‌ → अबिभर्‍अबिभर् + स्‌ → स्‌-लोपः → अबिभर्‍अबिभर् → अबिभः</big>
 
 
Line 819 ⟶ 879:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
<big>२. जुसि गुणः</big>
 
<big>अबिभृ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अबिभृ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्+ उः → अबिभरुः</big>
 
 
<big>अबिभृ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अबिभृ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्‍ + उः → अबिभरुः</big>
 
 
Line 833 ⟶ 891:
 
<big>डुभृञ्‌ धारणपोषणयोः ञित्त्वात्‌ उभयपदी धातुः | बिभृ इति अङ्गम्‌ |</big>
 
 
 
<big>परस्मैपदम्‌</big>
Line 840 ⟶ 896:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 876 ⟶ 930:
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ऋ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
 
 
<big>पॄ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → पॄपॄ → '''उरत्''' इत्यनेन पपॄ →'''उरण्‌ रपरः''' इत्यनेन अण्‌ रपरः → पर्पॄ '''→ हलादिः शेषः''' इत्यनेन हलः लोपः → पपॄ → '''अर्तिपिपर्त्योश्च''' इत्यनेन अभ्यासस्य ह्रस्व-इकारादेशः → पिपॄ इति अङ्गम्‌ |</big>
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ॠ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
 
 
<big>पॄ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → पॄपॄ → '''उरत्''' प्रबाध्य '''अर्तिपिपर्त्योश्च''' इत्यनेन अभ्यासस्य ह्रस्व-इकारादेशः, '''उरण्‌ रपरः''' इत्यनेन अण्‌ रपरः → पिर्पॄ → '''हलादिः शेषः''' इत्यनेन हलः लोपः → पिपॄ इति अङ्गम्‌ |</big>
 
 
Line 890 ⟶ 942:
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + ति → पिपर्‍पिपर् + ति → पिपर्ति</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + आनि → पिपर्‍पिपर् + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → पिपराणि</big>
 
<big>३) हलाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि''' च इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पिपॄ + तः → पिपुर्‍पिपुर् + तः → पिपूर्‍पिपूर् + तः → पिपूर्तः</big>
 
<big>४) अजाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पिपॄ + अति → पिपुर्‍पिपुर् + अति → पिपुरति</big>
 
 
<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्यॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ऋकारःॠकारः अस्ति, न तु ऋकारःॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ऋवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतःॠतः अङ्गस्य उत्‌''' |</big>
 
 
Line 908 ⟶ 960:
 
 
<big>पिपॄ + तः → '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम् → पिपुर्‍पिपुर् + तः → '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर्‍पिपूर् + तः → पिपूर्तः</big>
 
 
 
<big>लङि‌—</big>
Line 917 ⟶ 967:
 
 
<big>अपिपॄ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अपिपर्‍अपिपर् + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अपिपर्‍अपिपर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अपिपः</big>
 
<big>तथैव अपिपॄ + स्‌ → अपिपर्‍अपिपर् + स्‌ → स्‌-लोपः → अपिपर्‍अपिपर् → अपिपः</big>
 
 
Line 931 ⟶ 981:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
<big>२. जुसि गुणः</big>
 
 
<big>अपिपॄ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अपिपॄ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर्‍‍अपिपर् + उः → अपिपरुः</big>
 
 
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
Line 961 ⟶ 1,009:
<big>अनेन जुहोत्यादिगणस्य अजन्तधातवः समाप्ताः |</big>
 
 
<big>Swarup – August 2013 (Updated May 2016)</big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/3/3e/%E0%A5%AC_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%29.pdf ६ - जुहोत्यादिगणे अजन्तधातवः (c).pdf] (135k) Swarup Bhai, May 19, 2019, 6:18 PM v.1</big>
 
 
<big>Swarup – August 2013 (Updated May 2016)</big>
page_and_link_managers, Administrators
5,097

edits