page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
(16 intermediate revisions by 2 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 06A - जुहोत्यादिगणे अजन्तधातवः}}
{| class="wikitable mw-collapsible mw-collapsed"
Line 78 ⟶ 79:
<big>जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा →
<big>पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्-लकारे), सनि, यङि च |</big>
Line 108 ⟶ 109:
<big>'''दाश्वान्साह्वान्मीढ्वांश्च''' (६.१.१२)</big>
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच् → पच् पच् | इ → इ इ | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''प्रथमस्य एकाचः द्वे''' |</big>
<big>'''अजादेर्द्वितीयस्य''' (६.१.२) | अधिकारसूत्रम्— अजादिधातोः द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रं — '''अजादेः द्वितीयस्य''' ('''एकाचः द्वे''') |</big>
<big>बहुत्र धातुः एकाच् एव; तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत् '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | धातुः अनेकाच् चेत्, अपि च अजादिः इति चेत् '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | '''एकाच्-भागः''' इत्युक्ते यदा हि प्रथमः अच्-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |</big>
<big>धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत्</big>
<big>यथा भू + य ( यङ्प्रत्ययः) → '''भूय''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वम् → '''भूय''' इति धातुः अनेकाच्, हलादिः च अतः प्रथमस्य एकाच्-भागस्य द्वित्वम् → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम् → भू भू य</big>
<big>किन्तु धातुः अजादिः अस्ति चेत् '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति—</big>
<big>अश् य ( यङ्प्रत्ययः) → '''अश्य''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम् → अश्य इति धातौ '''अ'''श्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम् → अ श्य श्य</big>
<big>'''न न्द्राः संयोगादयः''' (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न् च द् च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यस्मात् '''अजादेः''' इत्यस्य अनुवृत्तिः | अच् चासौ आदिश्च अजादिः, तस्मात् अजादेः कर्मधारयः | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अजादेः संयोगादयः न्द्राः''' '''न द्वे''' |</big>
<big>यथा—</big>
<big>ऊर्णु → ऊ इति प्रथमः एकाच्-भागः, र्णु इति द्वितीयः एकाच्-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम् → ऊर्णु नु</big>
<big>उन्द् + सन् → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्-भागाः उ, न्दि, ष → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → 'न्दि' इति द्वितीयः एकाच्-भागः → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम् → प्रथमः तृतीयः च एकाच्-भागौ यथावत् तिष्ठतः → उन्दि + दि + ष → उन्दिदिष</big>
Line 116 ⟶ 149:
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—'''उभे द्वे अभ्यस्तम्''' |</big>
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम् इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
<big>अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—</big>
Line 135 ⟶ 170:
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्, एकपदमिदं सूत्रम् | '''अत्र''' '''लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य अचः ह्रस्वः''' |</big>
<big>खा खाद् → ख खाद्</big>
<big>नी नी → नि नी</big>
<big>लू लू → लु लू</big>
<big>से सेव् → सि सेव्</big>
<big>गो गोष्ट् → गु गोष्ट्</big>
<big>ढौ ढौक् → ढु ढौक्</big>
Line 141 ⟶ 189:
<big>*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्, आदौ अच्-वर्णः न तु हल्-वर्णः इति कारणतः '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्-वर्णानां लोपो भवति | अट् → अट् अट् → अ अट् |</big>
<big>पठ् → पठ् पठ् → प्रथमः पठ् इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ् | तथैव ज्ञा → ज ज्ञा | एवमेव विचारणीयम्— धन्, निज्, विष्, खाद्, धिष्, विज्, तुर्, भस् |</big>
<big>'''शर्पूर्वाः खयः''' (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर् परञ्च खय्, तस्य तु खय् एव शेषो भवति, अन्ये हलः च लुप्यन्ते | '''हलादिः शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम् | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात् वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ('''अङ्गस्य''') '''अभ्यासस्य शर्पूर्वाः खयः शेषाः''' |</big>
<big>स्पर्ध् → स्पर्ध् स्पर्ध् → प स्पर्ध्</big>
<big>एवमेव विचारणीयम्— स्पन्द्, स्पूर्ज्, स्तम्भ्, स्तुभ्, स्खल्, स्पश्, स्तिघ्, स्फुर् |</big>
Line 148 ⟶ 208:
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् |</big>
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
<big>खन् → खन् खन् → ख खन् → छ खन् → च खन्</big>
<big>गम् → गम् गम् → ग गम् → ज गम्</big>
<big>ग्रह् → ग्रह् ग्रह् → ग ग्रह् → ज ग्रह्</big>
<big>घृ → घृ घृ → घर् घृ → झ घृ → ज घृ</big>
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
<big>हस् → हस् हस् → ह हस् → झ हस् → ज हस्</big>
<big>'''उरत्''' (७.४.६६) = अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य उः अत्''' |</big>
<big>वृष् → वृष् वृष् → वृ वृष् → वर् वृष् → व वृष्</big>
<big>कृष् → कृष् कृष् → कृ कृष् → कर् कृष् → क कृष् → च कृष्</big>
<big>हृष् → हृष् हृष् → हृ हृष् → हर् हृष् → ह हृष् → ज हृष्</big>
<big>ऋकारान्तधातवः—</big>
<big>भृ → भृ भृ → भर् भृ → भ भृ → ब भृ</big>
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
<big>तॄ → तॄ तॄ → तर् तॄ → त तॄ</big>
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभ्यासे झलां जश् चर् च संहितायाम्''' |</big>
<big>चर्त्वम्</big>
<big>थु थुड् → तु थुड्</big>
<big>फ फल् → प फल्</big>
<big>छु छुप् → चु छुप्</big>
<big>जश्त्वम्</big>
<big>भु भू → बु भू</big>
<big>ढु ढौक् → डु ढौक्</big>
<big>झ झर्झ् → ज झर्झ्</big>
<big>अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
Line 164 ⟶ 270:
<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्
* <big>शप् विधीयते '''कर्तरि शप्''' इत्यनेन</big>
Line 178 ⟶ 284:
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव | तदर्थम् अभ्यासकार्यम् अपि तत्रैव |</big>
<big>२. <u>तिङ्प्रत्यय-सिद्धिः</u></big>
Line 183 ⟶ 290:
<big>जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
Line 509 ⟶ 617:
<big>'''खरि च''' (८.४.५५) = खरि परे झलः स्थाने चरादेशो भवति | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात् '''
<big>
Line 565 ⟶ 673:
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभी + तः → बिभीतः</big>
<big>४) अजाद्यपित्सु = '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन संयोगपूर्वस्य इयङ्-आदेशः | जिह्री + अति →
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' इत्यनेन असंयोगपूर्वस्य यण्-आदेशः | बिभी + अति → बिभ् + य् + अति → बिभ्यति</big>
Line 591 ⟶ 699:
<big>यथासामान्यम्—</big>
<big>अबिभी + स् → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → अबिभे + स् → '''ससजुषो रुः''' इत्यनेन रुत्वम् →
Line 597 ⟶ 705:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः |
Line 734 ⟶ 842:
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण
Line 743 ⟶ 851:
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + ति →
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + आनि →
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभृ + तः → बिभृतः</big>
Line 757 ⟶ 865:
<big>अबिभृ + त् → '''सार्वधातुकार्धधातुकयोः''' →
<big>तथैव अबिभृ + स् →
Line 771 ⟶ 879:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः |
<big>२. जुसि गुणः</big>
<big>अबिभृ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्-आदेशः → अबिभृ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः →
Line 822 ⟶ 930:
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण
<big>पॄ → '''श्लौ''' इत्यनेन द्वित्वम् → पॄपॄ → '''उरत्'''
Line 834 ⟶ 942:
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + ति →
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + आनि →
<big>३) हलाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण् रपरः''' इत्यनेन रपरत्वं, '''हलि''' च इत्यनेन उपधायाः उकारस्य दीर्घत्वम् | पिपॄ + तः →
<big>४) अजाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण् रपरः''' इत्यनेन रपरत्वम् | पिपॄ + अति →
<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य
Line 852 ⟶ 960:
<big>पिपॄ + तः → '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण् रपरः''' इत्यनेन रपरत्वम् →
<big>लङि—</big>
Line 859 ⟶ 967:
<big>अपिपॄ + त् → '''सार्वधातुकार्धधातुकयोः''' →
<big>तथैव अपिपॄ + स् →
Line 873 ⟶ 981:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः |
<big>२. जुसि गुणः</big>
<big>अपिपॄ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्-आदेशः → अपिपॄ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः →
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
|