6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH: Difference between revisions

copy-paste text
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(copy-paste text)
Line 1:
ध्वनिमुद्रणानि--
<please replace this with content from corresponding Google Sites page>
 
2018-वर्गः
 
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/135_dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare__vishiShTAbhyAsaH----_2018-09-19.mp3 dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare_+_vishiShTAbhyAsaH---लोलुञ्च्‌-लटि_2018-09-19]
 
२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/136_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---_____2018-09-26.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---लोलुञ्च्‌_+_जाग्रह्‌_+_पाप्रच्छ्‌_2018-09-26]
 
३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/137_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---_____2018-10-03.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---पाप्रच्छ्‌_+_बाभ्रस्ज्_+_जाज्या_2018-10-03]
 
४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/138_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---_______2018-10-10.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---वाव्यध्‌_+_वावष्‌_+_वाव्यच्‌_+_वाव्रश्च्‌_2018-10-10]
 
५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/139_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---____----_2018-10-17.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---वाव्रश्च्‌_+_मामङ्घ्‌_+_प्रच्छ्‌-क्त-क्त्वा-तुमुन्‌-तृच्‌_2018-10-17]
 
६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/140_dhAtu-pAThe-hal-sandhi-abhyAsaH---saMyoga-sambaddha-kAryANi_2018-10-24.mp3 dhAtu-pAThe-hal-sandhi-abhyAsaH---saMyoga-sambaddha-kAryANi_2018-10-24]
 
७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/141_dhAtu-pAThe-hal-sandhi-abhyAsaH---rephavakArayoH-parayoH-ikaH-diirgaH_2018-10-31.mp3 dhAtu-pAThe-hal-sandhi-abhyAsaH---rephavakArayoH-parayoH-ikaH-diirghaH_2018-10-31]
 
 
 
सन्धि-कार्यस्य अभ्यासार्थं यङ्लुगन्तधातवः सर्वोत्तमाः यतोहि प्रक्रियायां विकरणप्रत्ययो नास्ति | धात्वन्ते सर्वे हल्‌-वर्णाः लभ्यन्ते; एषां च वर्णानां तिङ्‌-प्रत्ययेन साक्षात्‌ सम्पर्कः भवति | अधुना वास्तविकम्‌ अभ्यासं कुर्मः; पश्येम कीदृशानि रूपाणि लभ्यन्ते लटि, लोटि, लङि, विधिलिङि च | अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति | क्रमेण एषां त्रयाणां चिन्तनम्‌ अवश्यं करणीयम्—
 
 
<u>सोपानानि</u>
 
१) अतिदेशः
 
कित्‌/ङित्‌ इत्यनयोः मार्गद्वयम्‌ – अनुबन्धः, अतिदेशः | अतः परीक्षणं द्विवारं करणीयम्‌ |
 
२) अङ्गकार्यम्‌
 
३) सन्धिः
 
 
<u>कित्‌/ङित्‌ अङ्गकार्यम्‌</u>—
 
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) |
 
२) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां हलन्तधातूनाम्‌ इत्‌-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) |
 
३) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च्‌ + श + ति → वृश्चति | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |
 
 
'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति |
 
'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परे अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति |
 
'''न सम्प्रसारणे सम्प्रसारणम्'''‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति |
 
 
४) दीर्घ ॠकारान्तधातुः, प्रत्ययः अजादिः चेत्‌ → इर्‍, उर्‍ | '''ॠत इद्‌ धातोः''' (७.१.१००) | प्रत्ययः हलादिः चेत्‌, ईर्‍, ऊर्‍ | '''हलि च''' (८.२.७७) |
 
 
'''ॠत इद्‌ धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) |
 
'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति |
 
'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधा-स्थितस्य इकः दीर्घत्वं हलि परे |
 
'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः भवति | पवर्गीयः वर्णः पूर्वः यस्य, सः ओष्ठ्यपूर्वः |
 
 
'''<u>यङ्लुगन्तधातूनां कृते सिद्ध-तिङ्‌प्रत्ययाः</u>'''
 
 
अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ | यङ्लुगन्तधातूनाम्‌ आत्मनेपदं न भवति |
 
    
 
  लट्‌-लकारः                            लोट्‌-लकारः
 
 
'''ति'''/'''ईति     ''' तः     अति             '''तु'''/'''ईतु'''/तात्‌      ताम्‌      अतु
 
'''सि'''/'''ईषि'''      थः      थ                हि/तात्‌          तम्‌        त
 
'''मि'''/'''ईमि'''      वः       मः               '''आनि           आव     आम'''
 
 
लङ्‌-लकारः                                     विधिलिङ्‌-लकारः
 
 
'''त्‌'''/'''ईत्‌'''            ताम्‌       उः             यात्‌             याताम्‌          युः
 
'''स्‌(ः)/ईः'''     तम्‌        त              याः             यातम्‌           यात
 
'''अम्‌'''               व          म              याम्‌             याव             याम
 
 
<u>धातवः</u>
 
 
 
लुञ्च्‌ → लोलुञ्च्‌
 
ग्रह्‌ → जाग्रह्‌
 
प्रच्छ्‌ → पाप्रच्छ्‌
 
भ्रस्ज पाके → भ्रस्ज्‌ → बाभ्रस्ज्
 
(षस्ज्‌ गतौ → सासस्ज्‌, ओलस्जी व्रीडायाम्‌ → लस्ज्‌ → लालस्ज्‌, टुमस्जो शुद्धौ → मस्ज्‌ → मामस्ज्‌)
 
ज्या → जाज्या
 
व्यधि → वाव्यध्‌
 
वश्‌ → वावश्‌
 
व्यच्‌ → वाव्यच्‌
 
व्रश्च्‌ → वाव्रश्च्‌
 
मघि → मामङ्घ्‌
 
 
'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |
 
 
<u>संयोगान्तपदे सन्धिकार्यम्‌</u>
 
 
पदं द्विविधं, संयोगान्तम्‌ असंयोगान्तं च | संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इत्यत्र परिशील्यते |
 
 
१. संयोगान्तस्य पदस्य लोपः
 
 
'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |
 
 
अबाबन्ध‌ + त्‌ →
 
 
२. संयोगादिसकारस्य लोपः
 
 
व्रश्च्‌, भ्रस्ज्‌, लस्ज्‌, मस्ज्‌, षस्ज्‌
 
 
'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = पदान्ते झलि परे च, संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' | (धातुप्रसङ्गे '''झलि''' इत्युक्तौ तकारादिप्रत्ययेषु, थकारादिप्रत्ययेषु, धकारादिप्रत्ययेषु, सकारादिप्रत्ययेषु च |)
 
 
अबाभ्रस्ज्‌ + त्‌ →
 
अवाव्रश्च्‌ + त्‌ →
 
अलालस्ज्‌ + त्‌ →
 
 
३. संयोगादिककारस्य लोपः
 
 
अतातक्ष्‌ + त्‌ →
 
 
४. रेफादिसंयोगस्य लोपाभावः
 
 
'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्‌ संयोगान्तस्य पदस्य सस्य लोपः''' |
 
 
अमृज्‌ + त्‌ → '''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन वृद्धिः → अमार्ज्‌ + त्‌ →
 
 
'''मृजेर्वृद्धिः''' (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति (सार्वधातुके च आर्धधातुके च प्रत्यये परे) | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकः अथवा आर्धधातुकः भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इकोगुण्वृद्धी''' (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ '''इकः''' इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मृजेः अङ्गस्य इकः वृद्धिः''' |
 
 
अचोकूर्द्‌ + त्‌ →
 
 
५. रेफपूर्वः छकारः
 
 
'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः''' |
 
 
अजोहुर्छ्‌ + त्‌ →
 
 
६. रेफपूर्वः वकारः
 
 
अतोतुर्व्‌ + त्‌ →
 
 
<u>रेफवकारयोः परयोः इकः दीर्घः</u>
 
 
पदान्ते--
 
'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | र्‍ च व्‌ र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, दीर्घाः प्रथमान्तम्‌, इकः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''र्वोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते''' |
 
 
अपदान्ते--
 
'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |
 
 
इदं सूत्रं '''पदस्य''' (८.१.१६) इत्यस्य अधिकारे अस्ति; तर्हि पदान्ते एव भवति वा ? “हलि च" इत्यस्य सामर्थ्येन अपदान्ते इति भवति | '''झलो झलि''' (८.२.२६) अपि तथा | यदा कदापि अग्रे निमित्तम्‌ अस्ति, तदा बलात्‌ अपदान्ते इति भवति | यत्र सप्तम्यन्तं निमित्तम्‌ अस्ति, तत्र '''पदस्य''' (८.१.१६) इति न गच्छति, यद्यपि तस्य अधिकारे स्यात्‌ |
 
 
अपदान्ते--
 
'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌ उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात्‌ '''र्वोः''', '''इकः''', '''दीर्घः''' एषाम्‌ अनुवृत्तिः | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः हलि र्वोः''' '''उपधायां च''', '''उपधायाम्‌ इकः''' '''दीर्घः''' |
 
 
सुप्‌-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—
 
 
'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) =
 
'''स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌'''
 
 
सु     औ     जस्‌
 
अम्‌   औट्‌   शस्‌
 
टा    भ्याम्‌   भिस्‌
 
ङे    भ्याम्‌   भ्यस्‌
 
ङसि  भ्याम्‌  भ्यस्‌
 
ङस्‌  ओस्‌   आम्‌
 
ङि   ओस्‌    सुप्‌
 
 
'''स्‌'''      औ    अस्‌
 
अम्‌    औ    अस्‌
 
आ     '''भ्याम्‌'''   '''भिस्‌'''
 
ए      '''भ्याम्‌'''   '''भ्यस्‌'''
 
अस्‌   '''भ्याम्‌'''   '''भ्यस्‌'''
 
अस्‌   ओस्‌   आम्‌
 
इ      ओस्‌    '''सु'''
 
 
१) गॄ इति धातुः (गॄ निगरणे तुदादौ, गिरति)
 
 
गॄ → गॄ + क्विप् → “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति परिभाषया क्विप्‌ प्रत्ययः संयुज्यते चेदपि धातोः धातु‌-संज्ञा तिष्ठति → क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः → '''लशक्वतद्धिते''' (१.३.८) ककारस्य, '''हलन्त्यम्''' (१.३.३) पकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व्‌ → '''अपृक्त एकाल् प्रत्ययः''' (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → गॄ [धातुः अपि, प्रातिपदिकम्‌ अपि '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण] → '''ॠत इद्धातोः''' (७.१.१००) → गि → '''उरण्‌ रपरः''' (१.१.५१) → गिर्‍ इति धातुरूपि प्रातिपदिकम्‌
 
 
 
<font size="4"><br /></font>
teachers
73

edits