6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH
6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH
ध्वनिमुद्रणानि--
2018-वर्गः
१) dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare_+_vishiShTAbhyAsaH---लोलुञ्च्-लटि_2018-09-19
२) yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---लोलुञ्च्_+_जाग्रह्_+_पाप्रच्छ्_2018-09-26
३) yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---पाप्रच्छ्_+_बाभ्रस्ज्_+_जाज्या_2018-10-03
६) dhAtu-pAThe-hal-sandhi-abhyAsaH---saMyoga-sambaddha-kAryANi_2018-10-24
७) dhAtu-pAThe-hal-sandhi-abhyAsaH---rephavakArayoH-parayoH-ikaH-diirghaH_2018-10-31
सन्धि-कार्यस्य अभ्यासार्थं यङ्लुगन्तधातवः सर्वोत्तमाः यतोहि प्रक्रियायां विकरणप्रत्ययो नास्ति | धात्वन्ते सर्वे हल्-वर्णाः लभ्यन्ते; एषां च वर्णानां तिङ्-प्रत्ययेन साक्षात् सम्पर्कः भवति | अधुना वास्तविकम् अभ्यासं कुर्मः; पश्येम कीदृशानि रूपाणि लभ्यन्ते लटि, लोटि, लङि, विधिलिङि च | अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति | क्रमेण एषां त्रयाणां चिन्तनम् अवश्यं करणीयम्—
सोपानानि
१) अतिदेशः
कित्/ङित् इत्यनयोः मार्गद्वयम् – अनुबन्धः, अतिदेशः | अतः परीक्षणं द्विवारं करणीयम् |
२) अङ्गकार्यम्
३) सन्धिः
कित्/ङित् अङ्गकार्यम्—
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) |
२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां हलन्तधातूनाम् इत्-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | अनिदितां हल उपधाया क्ङिति (६.४.२४) |
३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च् + श + ति → वृश्चति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परे अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति |
४) दीर्घ ॠकारान्तधातुः, प्रत्ययः अजादिः चेत् → इर्, उर् | ॠत इद् धातोः (७.१.१००) | प्रत्ययः हलादिः चेत्, ईर्, ऊर् | हलि च (८.२.७७) |
ॠत इद् धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधा-स्थितस्य इकः दीर्घत्वं हलि परे |
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः भवति | पवर्गीयः वर्णः पूर्वः यस्य, सः ओष्ठ्यपूर्वः |
यङ्लुगन्तधातूनां कृते सिद्ध-तिङ्प्रत्ययाः
अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम् | यङ्लुगन्तधातूनाम् आत्मनेपदं न भवति |
लट्-लकारः लोट्-लकारः
ति/ईति तः अति तु/ईतु/तात् ताम् अतु
सि/ईषि थः थ हि/तात् तम् त
मि/ईमि वः मः आनि आव आम
लङ्-लकारः विधिलिङ्-लकारः
त्/ईत् ताम् उः यात् याताम् युः
स्(ः)/ईः तम् त याः यातम् यात
अम् व म याम् याव याम
धातवः
लुञ्च् → लोलुञ्च्
ग्रह् → जाग्रह्
प्रच्छ् → पाप्रच्छ्
भ्रस्ज पाके → भ्रस्ज् → बाभ्रस्ज्
(षस्ज् गतौ → सासस्ज्, ओलस्जी व्रीडायाम् → लस्ज् → लालस्ज्, टुमस्जो शुद्धौ → मस्ज् → मामस्ज्)
ज्या → जाज्या
व्यधि → वाव्यध्
वश् → वावश्
व्यच् → वाव्यच्
व्रश्च् → वाव्रश्च्
मघि → मामङ्घ्
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
संयोगान्तपदे सन्धिकार्यम्
पदं द्विविधं, संयोगान्तम् असंयोगान्तं च | संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इत्यत्र परिशील्यते |
१. संयोगान्तस्य पदस्य लोपः
संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगान्तस्य पदस्य लोपः |
अबाबन्ध + त् →
२. संयोगादिसकारस्य लोपः
व्रश्च्, भ्रस्ज्, लस्ज्, मस्ज्, षस्ज्
स्कोः संयोगाद्योरन्ते च (८.२.२९) = पदान्ते झलि परे च, संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च | (धातुप्रसङ्गे झलि इत्युक्तौ तकारादिप्रत्ययेषु, थकारादिप्रत्ययेषु, धकारादिप्रत्ययेषु, सकारादिप्रत्ययेषु च |)
अबाभ्रस्ज् + त् →
अवाव्रश्च् + त् →
अलालस्ज् + त् →
३. संयोगादिककारस्य लोपः
अतातक्ष् + त् →
४. रेफादिसंयोगस्य लोपाभावः
रात्सस्य (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात् पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रात् संयोगान्तस्य पदस्य सस्य लोपः |
अमृज् + त् → मृजेर्वृद्धिः (७.२.११४) इत्यनेन वृद्धिः → अमार्ज् + त् →
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति (सार्वधातुके च आर्धधातुके च प्रत्यये परे) | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकः अथवा आर्धधातुकः भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
अचोकूर्द् + त् →
५. रेफपूर्वः छकारः
राल्लोपः (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् च्छ्वोः इत्यस्य अनुवृत्तिः; अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः |
अजोहुर्छ् + त् →
६. रेफपूर्वः वकारः
अतोतुर्व् + त् →
रेफवकारयोः परयोः इकः दीर्घः
पदान्ते--
र्वोरुपधाया दीर्घः इकः (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | र् च व् र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, दीर्घाः प्रथमान्तम्, इकः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते |
अपदान्ते--
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |
इदं सूत्रं पदस्य (८.१.१६) इत्यस्य अधिकारे अस्ति; तर्हि पदान्ते एव भवति वा ? “हलि च" इत्यस्य सामर्थ्येन अपदान्ते इति भवति | झलो झलि (८.२.२६) अपि तथा | यदा कदापि अग्रे निमित्तम् अस्ति, तदा बलात् अपदान्ते इति भवति | यत्र सप्तम्यन्तं निमित्तम् अस्ति, तत्र पदस्य (८.१.१६) इति न गच्छति, यद्यपि तस्य अधिकारे स्यात् |
अपदान्ते--
उपधायां च (८.२.७८) = येषां धातूनाम् उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत्, तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्मात् र्वोः, इकः, दीर्घः एषाम् अनुवृत्तिः | हलि च (८.२.७७) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धातोः हलि र्वोः उपधायां च, उपधायाम् इकः दीर्घः |
सुप्-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२) =
स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्
सु औ जस्
अम् औट् शस्
टा भ्याम् भिस्
ङे भ्याम् भ्यस्
ङसि भ्याम् भ्यस्
ङस् ओस् आम्
ङि ओस् सुप्
स् औ अस्
अम् औ अस्
आ भ्याम् भिस्
ए भ्याम् भ्यस्
अस् भ्याम् भ्यस्
अस् ओस् आम्
इ ओस् सु
१) गॄ इति धातुः (गॄ निगरणे तुदादौ, गिरति)
गॄ → गॄ + क्विप् → “क्विबन्ता विजन्ता धातुत्वं न जहति” इति परिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातु-संज्ञा तिष्ठति → क्विप्-प्रत्ययस्य सर्वापहार-लोपः → लशक्वतद्धिते (१.३.८) ककारस्य, हलन्त्यम् (१.३.३) पकारस्य इत्-संज्ञा, तस्य लोपः (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व् → अपृक्त एकाल् प्रत्ययः (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, वेरपृक्तस्य (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → गॄ [धातुः अपि, प्रातिपदिकम् अपि कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण] → ॠत इद्धातोः (७.१.१००) → गि → उरण् रपरः (१.१.५१) → गिर् इति धातुरूपि प्रातिपदिकम्