6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH: Difference between revisions

no edit summary
(copy-paste text)
No edit summary
Line 250:
 
 
 
गिर्‍ + सु → गिर्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → गिर्‍ → '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्मात्‌ '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा → गिर्‌ इति धातुः अपि, प्रातिपदिकम्‌ अपि, पदम्‌ अपि → '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) → गीर्‍ → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → गीः इति प्रथमाविभक्तौ एकवचने |
 
तथैव भ्याम्‌, भिस्‌, भ्यस्‌, सु | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यनेन एषु स्थलेषु पूर्वभागस्य पद-संज्ञा |
 
अजाज्वर्‍ + त् → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → अजाजूर्‍ + त्‌ → अजाजूर्‍ → अत्र '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?
 
अत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति | अतः प्रसक्तिरस्ति | पर्जन्यवत्‌ | किन्तु कार्यं किमपि नास्ति यतोहि ऊठ्-आदेशः पूर्वमेव जातः |
 
घुर्‍, तुर्‍, पुर्‍, क्षुर्‍ | यङ्लुकि जोघुर्‍ → अजोघुर्‍ + त्‌ → एषु स्थलेषु गुणो भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य कर्यं न कुत्रापि भवति |
 
अत्र तर्हि प्रश्नः उदेति यत्‌ यदि अजाजूर्‍ इत्यस्य त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति कथनस्य का आवश्यकता ? यया रीत्या त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप्‌ इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात्‌ |
 
गॄ-धातुः यदा क्विबन्तं भवति तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात्‌ | अत्र वार्ता अस्ति यत्‌ अत्र पर्यन्तं समस्या नास्ति | अजाज्वर्‍ + त्‌ → 'अजाज्वर्‍' इति रूपं प्रत्ययान्तम्‌ इति दृष्ट्या पदसंज्ञकम्‌; अप्रत्ययान्तम्‌ ति दृष्ट्या धातुसंज्ञकम्‌ | त्‌-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा '''भूवादयो धातवः''' (१.३.१) अथवा '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्‍' इति रूपम्‌ एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्‌ |
 
गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत्‌ धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत्‌ प्रातिपदिकसंज्ञकम्‌ | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर्‍ + त्‌ → 'अजाजूर्‍' इत्यस्मिन्‌ संज्ञाद्वयम्‌ आसीत्‌ | गॄ → गिर्‌ इति यावदपि संज्ञाद्वयम्‌ |
 
परन्तु अग्रे गिर्‍ इति प्रातिपदिकात्‌ यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम्‌ अस्ति येन '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात्‌ | अत्र “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” वक्तव्यम्‌ अस्ति येन धातुसंज्ञा तिष्ठेत्‌— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यनेन दीर्घादेशः स्यात्‌ |
 
सारांशः एवं यत्‌ यः प्रत्ययान्तः अस्ति—यथा क्विबन्ताः—तस्य धातुसंज्ञा न भवति | '''भूवादयो धातवः''' (१.३.१) इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः | '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन ये द्वादश धातुप्रत्ययाः, ते एव धातुभ्यः विधीयन्ते चेत्‌ धातुसंज्ञा भवति | अतः क्विबन्तम्‌ अस्ति चेत्‌, धातुसंज्ञा नास्ति | यथा लिख्‌ + श → लिख; अत्रापि लिख्‌ इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति |
 
अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्‌—'''आकडारादेका''' ''' संज्ञा''' (१.४.१) |
 
इमानि संज्ञासूत्राणि अवलोकताम्‌—
 
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५)
 
'''कृत्तद्धितसमासाश्च''' (१.२.४६)
 
'''भूवादयो धातवः''' (१.३.१)
 
'''सुप्तिङन्तं पदम्‌''' (१.४.१४)
 
 
''''''आकडारादेका''' संज्ञा''' (१.४.१) = २.२.३.८ इति यावत्‌ | ययोः प्रत्यययोः अस्मिन्‌ सूत्रपरिधौ संज्ञा विधीयते, तयोः समावेशो न भवति |
 
 
तर्हि अत्र प्रश्नः उदेति यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति किमर्थम्‌ उक्तम्‌ |
 
 
हन्‌ + लङ्‌ → '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) इत्यनेन लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति → अहन्‌ → अहन्‌ इत्यस्य धातुसंज्ञा इति तु अस्त्येव → अहन्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अहन्‌ → अधुना प्रत्ययलक्षणेन '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा अपि अस्ति | यदि '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति नोक्तं स्यात्‌, तर्हि यतोहि अहन्‌ इति धातुः अर्थवान्‌, अतः '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म | तदा च '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन तस्य न-लोपः इति भवति स्म | '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन या प्रातिपदिकसंज्ञा, सा ''''''आकडारादेका''' संज्ञा''' (१.४.१) इत्यनेन एकाकिनी एव भवति इति तु नास्ति | अतः अत्र न काऽपि बाधा— त्रयाणामपि संज्ञानाम्‌ एकत्र प्राप्तिः | तदा अत्र '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१), '''स्वौजस्‌...'''(४.१.२) इत्याभ्यां सु, औ, जस्‌ इत्यादयः प्रत्ययाः विधीयमानाः स्युः | अस्य निवारणार्थम्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति वक्तव्यम्‌ आसीत्‌ |
 
 
यदा सुबादीनां विधानार्थं गिर्‍ इति क्विबन्तं निश्चिततया जातं, तदा सामान्यचिन्तनेन तस्य धातुसंज्ञा नष्टा | तदा '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य प्रसक्तिः न भवति सम | एवमेव नी-धातुः | नी + औ |
 
 
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |
 
 
२) जॄ + श्यन्‌ + ति →
 
 
३) चुरादौ-- कॄत्‌
 
 
कॄत्‌ → कित्‌      '''उपधायाश्च''' (७.१.१०१)
 
कित्‌ → किर्त्‌ '''    उरण रपरः''' (१.१.५१)
 
किर्त्‌ → कीर्त्‌‍ '''    उपधायां च''' (८.२.७८)
 
 
'''उपधायाश्च''' (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' '''उपधायाश्च''' |
 
 
स्वादौ चिरि, जिरि |
 
 
४) मुर्छा-धातुः
 
धातुः मुर्छ्‌, मूर्छ्‌, मुर्च्छ्‌, मूर्च्छ्‌ ?
 
 
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ '''ह्रस्वस्य''', '''तुक्‌''' इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |
 
 
५) मोमुर्छ्‌
 
 
६)  सुबन्तेषु हल्‌-सन्धि-अभ्यासः
 
 
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— '''अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌''' |
 
 
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यस्मात्‌ '''अर्थवत्‌''', '''प्रातिपदिकम्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |
 
 
'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यस्मात्‌ '''सर्वनामस्थानम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट्''' '''सर्वनामस्थानम्‌ अनपुंसकस्य''' |
 
 
'''शि सर्वनामस्थानम्‌''' (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्‌, सर्वनामस्थानम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्— '''शि सर्वनामस्थानम्‌''' |
 
 
'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात्‌ आरभ्य '''उरः प्रभृतिभ्यः कप्‌''' (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यस्मात्‌ '''पदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने''' '''पदम्‌''' |
 
 
'''यचि भम्‌''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |
 
 
'''आकडारादेका संज्ञा''' (१.४.१) = अस्मात सूत्रात्‌ आरभ्य '''कडारा कर्मधारये''' (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |
 
 
'''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) = नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च |
 
 
'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः''' |
 
 
'''अल्लोपोऽनः''' (६.४.१३४) = भसंज्ञकाङ्गावयवः अन्‌ इति भागस्य अकारस्य लोपो भवति | अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन्‌ तस्याकारस्य लोपः | अत्‌ लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनः षष्ठ्यनं, त्रिपदमिदं सूत्रम्‌ | अनः इत्यस्य अवयवष्ठीविभक्तिः | '''भस्य''' (६.४.१२९) , '''अङ्गस्य''' (६.४.१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य अनः अतः लोपः''' |
 
 
'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | रः 'पदस्य' इत्यस्य विशेषणम्‌; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | खर्‍ च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात् '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः''' '''संहितायाम्‌''' |
 
 
[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A5%A7%E0%A5%A8a_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF-%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83.pdf][[:File:१२a हल् -सन्धि-अभ्यासः.pdf|१२a हल् -सन्धि-अभ्यासः.pdf]] (file)
 
 
Swarup – September 2015
 
<font size="4"></font>
 
<font size="4"><br /></font>
teachers
73

edits