6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam: Difference between revisions

copy paste text, pdf insertion
No edit summary
(copy paste text, pdf insertion)
Line 64:
 
<big>'''यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ||''' (परिभाषा १३१)</big>
 
 
<big>अनेन श्तिप्‌-प्रत्ययेन निर्दिष्टं, शप्‌-प्रत्ययेन निर्दिष्टम्‌, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्‌, एकाच्‌-ग्रहणेन च, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन्‌ च उक्तं यत्‌ अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इति सूत्रे शीङ्‌-धातोः गुणः विधीयते ङकारः इति इत्‌-संज्ञकवर्णम्‌ अवलम्ब्य | ङकारः इति इत्‌-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम्‌ इत्‌-संज्ञकवर्णम्‌ अवलम्ब्य यत्‌ कार्यं तत्‌ न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात्‌ एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन्‌ इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत्‌ कार्यं तत्‌ सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम्‌ अपेक्षितं, '''धातोः''' इति कृत्वा '''कर्तरि शप्‌''' (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति '''अत एव श्यन्नादयो न, गणेन निर्देशात्‌, किं तु शबेव''' |</big>
 
 
<big>परिभाषायाम्‌ '''एकाच्‌ ग्रहणम्‌''' इत्यस्य कथनेन 'एकाच्‌' घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति | यथा '''एकाच उपदेशेऽनुदात्तात्''' (७.२.१०) इत्यनेन उपदेशे अनुदात्तात् एकाच: अङ्गात् इट् न भवति | अनेन इडागम-निषेधः | यथा डुकृञ् करणे इति धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | कृ + तृच् → कर्ता | वह प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | वह् + तृच् → वोढः | किन्तु अयं निषेधः यङ्लुकि न भवति | तदर्थं 'जाहिता, जाहिष्यति, बेभेदिता इत्यादिषु स्थलेषु '''एकाच उपदेशेऽनुदात्तात्''' (७.२.१०) इत्यनेन 'इट्‌' इत्यस्य निषेधो न भवति |</big>
 
 
<big>'''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) = हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गे घकारः आदिष्टो भवति | ञ्‌ च ण्‌ च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' इति वार्तिकेन (३.३.१०८, वार्तिकम्‌), धातुनिर्देशे हन्‌ धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''चजोः कु घिण्ण्यतोः''' (७.३.५२) इत्यस्मात्‌ '''कुः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु''' |</big>
 
 
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वल्‌-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि'''</big>
 
 
'''<u><big>यङ्लुगन्तधातूनां कृते सिद्ध-तिङ्‌प्रत्ययाः</big></u>'''
 
 
<big>अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ | यङ्लुगन्तधातूनाम्‌ आत्मनेपदं न भवति |</big>
 
 
 
<big>लट्‌-लकारः                            लोट्‌-लकारः</big>
 
<big>'''ति'''/'''ईति     ''' तः     अति             '''तु'''/'''ईतु'''/तात्‌      ताम्‌     अतु</big>
 
<big>'''सि'''/'''ईषि'''      थः      थ                हि/तात्‌           तम्‌       त</big>
 
<big>'''मि'''/'''ईमि'''      वः       मः               '''आनि            आव    आम'''</big>
 
 
 
<big>लङ्‌-लकारः                                     विधिलिङ्‌-लकारः</big>
 
<big>'''त्‌'''/'''ईत्‌'''            ताम्‌       उः             यात्‌             याताम्‌          युः</big>
 
<big>'''स्‌(ः)/ईः'''      तम्‌        त              याः             यातम्‌           यात</big>
 
<big>'''अम्‌'''               व          म              याम्‌             याव             याम</big>
 
 
<big>धातवः</big>
 
 
<big>गम्‌ → जङ्गम्‌ [यङ्‌लुकि]</big>
 
<big>क्षिनु हिंसायाम्‌ → क्षिन्‌ → चेक्षिन्‌* [यङ्लुकि]</big>
 
<big>खनु अवदारणे → खन्‌ → चङ्खन्‌ [यङ्लुकि]</big>
 
<big>जन्‌ → जञ्जन्‌ [यङ्लुकि]</big>
 
<big>हन्‌ हिंसागत्योः → जङ्घन्‌ [यङ्लुकि]</big>
 
<big>तन्‌ → तन्तन्‌ [यङ्लुकि]</big>
 
 
<u><big>यकारान्तधातवः</big></u>
 
 
<big>हय्‌ गतौ → जाहय्‌ [यङ्लुकि]</big>
 
 
<big>*अत्र निमित्तत्वात्‌ णत्वम्; अग्रे प्रक्रियावशात्‌ यथासङ्गं णत्वं कर्तव्यम्‌ | अतः क्षन्‌, क्षिन्‌, रन्‌, ऋन्‌ इति मूलधातवः न तु क्षण्‌, क्षिण्‌, रण्‌, ऋण्‌ | किन्तु कण्‌-धातुः स्वभावेन णकारान्तः | चेक्षिन्‌ + ति → '''नश्चापदान्तस्य झलि''' (८.३.२४) | चेक्षिन्‌ + ईति → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) |</big>
 
 
<big>लोटि—</big>
 
 
<big>केषुचित्‌ स्थलेषु '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन आभीयकार्यप्रसङ्गवशात्‌ '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम्‌ असिद्धम्‌ इति कारणतः हि-प्रत्ययस्य लुक्‌ न भवति | अस्य उदाहरणम्‌ उपदिष्ट-हन्‌-धातोः प्रसङ्गे लभ्यते |</big>
 
 
<big>'''हन्तेर्जः''' (६.४.३६) = हि-प्रत्यये परे हन्‌-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ज-आदेशः अनेकाल्‌ अतः '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | '''शा हौ''' (६.४.३५) इत्यस्मात्‌ '''हौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— '''हन्तेः अङ्गस्य जः हौ''' |</big>
 
 
<big>'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ शित्‌ च चेत्‌, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल्‌ यस्य सः अनेकाल्‌, बहुव्रीहिः | श इत्‌ यस्य सः शित्‌, बहुव्रीहिः | अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल्‌ इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल्‌ इत्युक्तौ तादृशः आदेशः यस्मिन्‌ एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |</big>
 
 
<big>हन्‌ + हि → ज + हि</big>
 
 
<big>अधुना अङ्गम्‌ अदन्तं जातम्‌ अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक्‌ विधीयते |</big>
 
 
<big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''चिणो लुक्'''‌ (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य‌''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्‌''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ हेः लुक्‌''' |</big>
 
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
<big>'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत्‌ कार्यं सिध्यति, उभयत्र तत्‌ कार्यं आभीयकार्यम्‌ | द्वाभ्यां च सूत्राभ्यां यत्‌ कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम्‌ हि-प्रत्ययाश्रितम्‌ आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं विधीयते, तत्‌ कार्यं प्रति प्रथमम्‌ आभीयकार्यं असिद्धं भवति |</big>
 
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन '''अतो हेः''' (६.४.१०५) इति सूत्रस्य दृष्ट्या '''हन्तेर्जः''' (६.४.३६) इति सूत्रेण यत्‌ कार्यं जातं, तत्‌ कार्यम्‌ असिद्धम्‌ अस्ति अतः '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या हन्‌-धातोः स्थाने ज-आदेशः न जातः | तस्मात्‌ अङ्गम्‌ अदन्तं नास्ति, अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक्‌ न भवति |</big>
 
 
<big>हन्‌ + हि → ज + हि → जहि</big>
 
 
 
[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A5%A7%E0%A5%A8d_-_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D.pdf <big></big>]<big>[[:File:१२d - अनुनासिकान्तम् अङ्गम्.pdf|१२d - अनुनासिकान्तम् अङ्गम्.pdf]] (file)</big>
 
 
<big>Swarup – October 2015</big>
teachers
73

edits