6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam

From Samskrita Vyakaranam
Jump to navigation Jump to search

[WORK IN PROGRESS]


ध्वनिमुद्रणानि--

2018-वर्गः


सर्वदा सन्धिकार्यात्‌ पूर्वं चिन्तनीयम्‌ अङ्गकार्यप्रसङ्गे | अतः प्रथमतया अङ्गं कीदृशम्‌ ? अङ्गं ग्रह्यादि, वच्यादि, अनिदित्‌, अनुनासिकान्तम्‌ च | चतुर्षु अङ्गम्‌ अन्यतमं चेत्‌, विशिष्टम्‌ अङ्गकार्यम्‌ अपेक्षितम्‌ |


अनुनासिकान्तम्‌ अङ्गं चेत्‌, कित्‌ङित्‌-प्रत्यये परे चत्वारि सूत्रणि—


१) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | पञ्चदश धातवः |

२) जनसनखनां सञ्झलोः (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्ङित्‌-प्रत्यये परे च | त्रयः धातवः |

३) अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | अवशिष्ट-धातवः |

४) गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्‌-प्रत्यये परे गम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो भवति | पञ्च धातवः |


मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः—


मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मः धातोः पदस्य अन्ते नः |


मकारान्तानां अपदत्वे सति, म्‌-स्थाने नकारः—


म्वोश्च (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म्‌ च व्‌ च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मो नो धातोः (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— मः धातोः नः म्वोश्च |


अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति |


अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम्‌ अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे |


जनसनखनां सञ्झलोः (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्ङित्‌-प्रत्यये परे च | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन्‌ च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | विड्वनोरनुनासिकस्यात्‌ (६.४.४१) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ झलि, क्ङिति इत्यनयोः अनुवृत्तिः | झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम्‌; अनेन यत्र सनि इडागमो भवति, तत्र सन्‌ झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति |


अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | नोपधायाः (६.४.७) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात्‌ दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |


गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्‌-प्रत्यये परे गम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो भवति (परन्तु अङ्‌-प्रत्ययः चेत् लोपः न भवति) | गमश्च हनश्च जनश्च खनश्च घस्‌ च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम्‌ | क्‌ च ङ्‌ च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्‌, तस्मिन्‌ क्ङिति | न अङ्‌ अनङ्‌, तस्मिन्‌ अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्‌, अनङि सप्तम्यतम्‌ अनेकपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; ऊदुपधाया गोहः (६.४.८९) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गमहनजनखनघसाम्‌ अङ्गानाम्‌ उपधायाः लोपः अनङि अचि क्ङिति |


नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) = अजादि-पित्‌-सार्वधातुकप्रत्यये परे अभ्यस्तस्य लघूपधगुणः न भवति | न अव्ययपदम्‌, अभ्यस्तस्य षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | पुगन्तलघूपधस्य च (७.३.८६) इत्यस्मात्‌ लघूपधस्य इत्यस्य अनुवृत्तिः, मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अचि पिति सार्वधातुके, अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न |


यङ्लुक्‌-सम्बद्ध-परिभाषा-द्वयम्‌—


प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्‌ (परिभाषा १०१) = अनेन यत्‌ कार्यं औपदेशिकधातौ निर्दिष्टं तत्‌ यङ्लुकि अपि निर्दिष्यते |


किन्तु—


श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्‌ गणेन च |

यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि || (परिभाषा १३१)