6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca (view source)
Revision as of 09:19, 12 May 2021
, 3 years agoSection E copied
Bina Radia (talk | contribs) (Section D copied) |
Bina Radia (talk | contribs) (Section E copied) |
||
Line 127:
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गे (स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यम्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रं परिभाषा-सूत्रम् इत्युच्यते | उदाहरणार्थं यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम् अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषा-सूत्रम् इत्युच्यते | केवलम् आदेश-प्रसङ्गे इति न; यत्र कुत्रापि कार्यम् अपेक्षितं किन्तु नियमः नास्ति, तत्र येन सूत्रेण निर्णयः क्रियते तत् परिभाषा-सूत्रम् इति | अन्यच्च अत्र '''प्रसङ्गे''' तुल्यतम आदेश इति उक्तम् | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत्, तर्हि स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्, अर्थः; अर्थः नोपलभ्यते चेत्, गुणः; गुणः नोपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः |</big>
<big>D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम</big>
Line 183 ⟶ 184:
<big>स्तंभ → स्तम्भ</big>
<big>E. नकारमकारयोः अनुस्वारः, अनुस्वारस्य परसावर्ण्यम्— द्वयोः कार्ययोः प्रसङ्गभेदः कः ?</big>
<big>नकारमकारयोः अनुस्वारः '''झलि''' भवति ('''नश्चापदान्तस्य झलि''' इति); अनुस्वारस्य परसावर्ण्यं '''ययि''' भवति ('''अनुस्वारस्य ययि परसवर्णः''' इति) | अत्र प्रमुखो भेदोऽस्ति यत् झलि श्, ष्, स्, ह् एते अन्तर्भूताः; ययि श्, ष्, स्, ह् एते नैव अन्तर्भूताः | अतः नकारमकारयोः परे श्, ष्, स्, ह् एषु अन्यतमोऽस्ति चेत्, स्थाने अनुस्वारादेशो भवति | परन्तु यतः परे श्, ष्, स्, ह् एषु अन्यतमोऽस्ति, अधुना अनुस्वारस्य परसवर्णादेशो न भवति |</big>
<big>यथा— रम् + स्यते → '''नश्चापदान्तस्य झलि''' इत्यनेन अनुस्वारादेशः → रं + स्यते → '''अनुस्वारस्य ययि परसवर्णः''' कार्यं नैव करोति यतः सकारः ययि नास्ति अतः केवलं वर्णमेलनं भवति → रंस्यते</big>
<big>एवमेव हंसि = हंसि, संस्यते = संस्यते, संशय = संशय, संहार = संहार | अत्र परसवर्णादेशः नैव भवति यतः सकारः हकारः च ययि न स्तः |</big>
|