6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca
6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca
हल्-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात् प्राक् एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्, अपि च झल्-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्, तस्यां दशायां का गतिरस्ति ?
A. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियेते | अस्य सर्वस्यानन्तरं कुत्रचित् रूपस्य मध्ये न् वा म् वा अस्ति चेत्, सः न् / म् अपदान्तः न् / म् अस्ति | यथा—
१. रुधादिगणे, सार्वधातुकप्रत्यये परे श्नम् इति विकरणप्रत्ययः आयाति | अनुबन्धलोपे "न" इत्येव अवशिष्यते | यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित् अस्ति चेत्, तर्हि श्नसोरल्लोपः (६.४.१११) इत्यनेन "न" इत्यस्य अकारस्य लोपो भवति |
रुध् + श्नम् + तस् → रुनध् + तः → श्नसोरल्लोपः इत्यनेन "न" इत्यस्य अकारस्य लोपः → रुन्ध् + तः
तथैव अपित्सु प्रत्ययेषु—
भुज् + श्नम् → भुनज् → भुन्ज्
खिद् + श्नम् → खिनद् → खिन्द्
विच् + श्नम् → विनच् → विन्च्
तृह् + श्नम् → तृनह् → तृन्ह्
कृत् + श्नम् → कृनत् → कृन्त्
एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |
२. इदित्सु धातुषु यदा नुम्-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |
शुठि → शुन्ठ्
शिघि → शिन्घ्
णदि → णन्द्
लाछि → लान्छ्
इखि → इन्ख्
एषु धातुषु यः नकारः उपविष्टोऽस्ति, स अपदान्तनकार इति
३. मकारान्तधातुः चेत्, मकारः तिङन्तपदस्य मध्ये भवति |
गम् + ता
रम् + ता
यम् + ता
गम् + स्यते
रम् + स्यते
एषु धातुषु यः मकारोस्ति, सः अपदान्तनकार इति |
B. अनुस्वारादेशः— नश्चापदान्तस्य झलि
नश्चापदान्तस्य झलि (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः इत्यस्मात् मः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्—झलि अपदान्तस्य मः नः च अनुस्वारः |
अस्य सूत्रस्य कृते प्रथमनियमः अस्ति यत् म् / न् अपदान्ते स्यात् | यथा—
मन् + ता
हन् + ता
गम् + ता
उपरितनासु स्थितिषु धातुरस्ति अपि च प्रत्ययोऽस्ति | तयोर्योजनेन पदं निष्पन्नम्, सुप्तिङन्तं पदम् इत्यनेन | मन्, हन्, गम् च केवलं धातवः; पदानि इति न | अतः एषाम् अपदानाम् अन्ते तत्र नकारमकारौ अपदान्तौ | अपि च ता-प्रत्ययः झलादिः अस्ति | अतः नश्चापदान्तस्य झलि इत्यनेन नकरमकारयोः स्थाने अनुस्वारादेशो भवति |
मन् + ता → मंता
हन् + ता → हंता
गम् + ता → गंता
एवमेव—
यम् + ता → यंता
हन् + सि → हंसि
रम् + स्यते → रंस्यते
नम् + स्यति → नंस्यति
मन् + स्यते → मंस्यते
रुधादिगणे अपि रुन्ध् इत्यस्मिन् नकारः अपदान्तः; झल्-प्रत्याहारे धकारः परे अस्ति | अतः अत्रापि नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशो भवति |
रुन्ध् → रुंध् शुन्ठ् → शुंठ्
भुन्ज् → भुंज् शिन्घ् → सिंघ्
खिन्द् → खिंद् नन्द् → नंद्
विन्च् → विंच् लान्छ् → लांछ्
तृन्ह् → तृंह् इन्ख् → इंख्
कृन्त् → कृंत्
C. परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः |
परसवर्णः इत्युक्ते अनुस्वारात् परे यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थानेऽन्तरतमः (१.१.५०) सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थानेऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता
धेयम्— यय्-प्रत्याहारः वक्ति यत् श्, ष्, स्, ह् एषु अन्यतमः परे अस्ति चेत्, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |
स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गे (स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यम्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रं परिभाषा-सूत्रम् इत्युच्यते | उदाहरणार्थं यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम् अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषा-सूत्रम् इत्युच्यते | केवलम् आदेश-प्रसङ्गे इति न; यत्र कुत्रापि कार्यम् अपेक्षितं किन्तु नियमः नास्ति, तत्र येन सूत्रेण निर्णयः क्रियते तत् परिभाषा-सूत्रम् इति | अन्यच्च अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम् | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत्, तर्हि स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्, अर्थः; अर्थः नोपलभ्यते चेत्, गुणः; गुणः नोपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः |
D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम
१. अनुस्वारात् परे क्, ख्, ग्, घ् वा चेत्, अनुस्वारस्य स्थाने ङकारादेशो भवति |
अंक → अङ्क
पुंख → पुङ्ख
अंग → अङ्ग
लंघन → लङ्घन
२. अनुस्वारात् परे च्, छ्, ज्, झ् वा चेत्, अनुस्वारस्य स्थाने ञकारादेशो भवति |
मंच → मञ्च
उंछ → उञ्छ
मंजु → मञ्जु
झंझा → झञ्झा
३. अनुस्वारात् परे ट्, ठ्, ड्, ढ् वा चेत्, अनुस्वारस्य स्थाने णकारादेशो भवति |
घंटा → घण्टा
शुंठी → शुण्ठी
मुंड → मुण्ड
शंढ → शण्ढ
४. अनुस्वारात् परे त्, थ्, द्, ध् वा चेत्, अनुस्वारस्य स्थाने नकारादेशो भवति |
मंता → मन्ता
मंथन → मन्थन
कुंद → कुन्द
बंधन → बन्धन
५. अनुस्वारात् परे प्, फ्, ब्, भ् वा चेत्, अनुस्वारस्य स्थाने मकारादेशो भवति |
कंपन → पम्पन
गुंफ → गुम्फ
लंब → लम्ब
स्तंभ → स्तम्भ
E. नकारमकारयोः अनुस्वारः, अनुस्वारस्य परसावर्ण्यम्— द्वयोः कार्ययोः प्रसङ्गभेदः कः ?
नकारमकारयोः अनुस्वारः झलि भवति (नश्चापदान्तस्य झलि इति); अनुस्वारस्य परसावर्ण्यं ययि भवति (अनुस्वारस्य ययि परसवर्णः इति) | अत्र प्रमुखो भेदोऽस्ति यत् झलि श्, ष्, स्, ह् एते अन्तर्भूताः; ययि श्, ष्, स्, ह् एते नैव अन्तर्भूताः | अतः नकारमकारयोः परे श्, ष्, स्, ह् एषु अन्यतमोऽस्ति चेत्, स्थाने अनुस्वारादेशो भवति | परन्तु यतः परे श्, ष्, स्, ह् एषु अन्यतमोऽस्ति, अधुना अनुस्वारस्य परसवर्णादेशो न भवति |
यथा— रम् + स्यते → नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः → रं + स्यते → अनुस्वारस्य ययि परसवर्णः कार्यं नैव करोति यतः सकारः ययि नास्ति अतः केवलं वर्णमेलनं भवति → रंस्यते
एवमेव हंसि = हंसि, संस्यते = संस्यते, संशय = संशय, संहार = संहार | अत्र परसवर्णादेशः नैव भवति यतः सकारः हकारः च ययि न स्तः |