6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

Section F copied
(Section E copied)
(Section F copied)
Line 196:
 
<big>एवमेव हंसि = हंसि, संस्यते = संस्यते, संशय = संशय, संहार = संहार | अत्र परसवर्णादेशः नैव भवति यतः सकारः हकारः च ययि न स्तः |</big>
 
<big>F. अनुस्वारस्य परसवर्णादेशः‌— प्रक्रियायाः अन्ते एव क्रियताम्‌ |</big>
 
<big>१. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो न भवति चेत्‌, तस्य एव सवर्णादेशो विहितः अनुस्वारस्य स्थाने | यथा विन्‌च्‌ + आते | अत्र अजादि-प्रत्ययोऽस्ति अतो हल्‌-सन्धेः प्रसङ्गो नास्ति, चकारो यथावत्‌ तिष्ठति | विन्‌च्‌ + आते → विंच्‌ + आते → विञ्च्‌ + आते → विञ्चाते |</big>
 
<big>एवेमेव रुध्‌ + श्नम् + आते → रुन्‌ध्‌ + आते → '''नश्चापदान्तस्य झलि''' → रुंध्‌ + आते → '''अनुस्वारस्य ययि परसवर्णः''' → रुन्ध्‌ + आते → रुन्धाते</big>
 
<big>२. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत्‌, कार्यम्‌ एवं कारणीयम्‌—</big>
 
<big>अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः— सपादी त्रिपादी च | त्रिपाद्यां यानि सूत्राणि सन्ति, तानि सूत्रसङ्ख्याधारेण प्रवर्तनीयानि— पूर्वसूत्रस्य पूर्वकार्यं, परसूत्रस्य परकार्यम्‌ इति |</big>
 
 
<big>'''पूर्वत्रासिद्धम्‌''' (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌ असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रं त्रिपाद्याः अन्ते अस्ति, अतः तस्य सूचितं कार्यम्‌ अन्ते एव भवति | कस्यचित्‌ क्रियापदस्य निर्माणक्रमे अनुस्वारात्‌ अग्रे यः वर्णः अस्ति, तस्य चरमरूपं दृष्ट्वा एव एकवारं परसवर्णादेशः प्रवर्तनीयः |</big>
 
 
<big>यथा—</big>
 
<big>विच्* + श्नम्‌ + ध्वे → विन्च्‌ + ध्वे → '''चोः कुः''' इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क्‌‌ + ध्वे → '''नश्चापदान्तस्य झलि''' इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक्‌ + ध्वे → '''झलां जश्‌ झशि''' इत्यनेन जश्त्वादेशः → विंग्‌‌ + ध्वे → '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग्‌ + ध्वे → वर्णमेलने → विङ्ग्ध्वे</big>
 
 
<big>'''चोः कुः''' (८.२.३०)</big>
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४)</big>
 
<big>'''झलां जश्‌ झशि''' (८.४.५३)</big>
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८)</big>
 
 
<big>एवेमेव—</big>
 
<big>भुज्‌ + श्नम्‌ + ते → भुन्‌ज्‌ + ते → '''चोः कुः''' → भुन्‌ग्‌ + ते → '''नश्चापदान्तस्य झलि''' → भुंग्‌ + ते → '''खरि च''' → भुंक्‌ + ते → '''अनुस्वारस्य ययि परसवर्णः''' → भुङ्क्ते</big>
 
 
<big>'''खरि च''' (८.४.५५) = खरि परे झलः स्थाने चरादेशः भवति | अनुवृत्ति-सहित-सूत्रं—'''झलां चर्‍‌ खरि च''' '''‌'''इति |</big>
 
 
<big>३. अनुस्वारात्‌ अग्रे यय्‌ नास्ति चेत्‌, परसवर्णादेशो न भवति</big>
 
 
<big>श्‌, ष्‌, स्‌, ह् एषु अन्यतमः अनुस्वारात्‌ अग्रे चेत्‌, तर्हि '''अनुस्वारस्य ययि परसवर्णः''' इत्यस्य प्रसक्तिर्नास्त्येव |</big>
 
 
<big>तृह्‌ + श्नम्‌ + अन्ति → तृन्‌ह्‌ + अन्ति → '''नश्चापदान्तस्य झलि''' → तृंह्‌ + अन्ति → तृंहन्ति</big>
 
 
<big>४. यदि हल्‌-सन्दौ हकारस्य विकारो भवति ययि, तदा '''अनुस्वारस्य ययि परसवर्णः''' इत्यस्य प्रसक्तिर्भवति |</big>
 
 
<big>तृह्‌ + श्नम्‌ + तः → तृन्‌ह्‌ + तः → '''हो ढः''' इत्यनेन ह्‌-स्थाने ढ्‌-आदेशः → तृन्‌ढ्‌ + तः → '''झषस्तथोर्धोऽधः''' → तृन्‌ढ्‌ + धः → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम् → तृन्‌ढ्‌ + ढः → '''ढो ढे लोपः''' → तृन्‌ + ढः → तृन्‌ढः → '''नश्चापदान्तस्य झलि''' → तृंढः → '''अनुस्वारस्य ययि परसवर्णः''' → तृण्ढः</big>
 
 
<big>'''हो ढः''' (८.२.३१) = झलि पदान्ते वा हकारस्य स्थाने ढकारादेशो भवति | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलि''' इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' इत्यस्मात्‌ '''अन्ते''' इतस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-परतः त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति; परन्तु धा-धातु-परतः न भवति | तस्च थ्‌ च तथौ, तयोस्तथोः | न धाः, अधाः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ |</big>
 
 
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यतकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''स्तोः''' '''ष्टुना ष्टुः''' |</big>
 
 
<big>'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ |</big>
 
 
<big>इति नकारमकारयोः अनुस्वारपरसावर्ण्यं च परिसमाप्तम्‌‍ |</big>
 
 
<big>Swarup – October 2013</big>
653

edits