6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

line spacing
(Dheyam copied)
(line spacing)
Line 60:
 
 
<big>B. अनुस्वारादेशः— '''नश्चापदान्तस्य झलि'''</big>
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌—'''झलि अपदान्तस्य मः नः च अनुस्वारः''' |</big>
 
 
Line 129 ⟶ 131:
 
 
<big>D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम</big>
 
<big>१. अनुस्वारात्‌ परे क्‌, ख्‌, ग्‌, घ्‌ वा चेत्‌, अनुस्वारस्य स्थाने ङकारादेशो भवति |</big>
Line 199 ⟶ 202:
 
<big>F. अनुस्वारस्य परसवर्णादेशः‌— प्रक्रियायाः अन्ते एव क्रियताम्‌ |</big>
 
 
<big>१. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो न भवति चेत्‌, तस्य एव सवर्णादेशो विहितः अनुस्वारस्य स्थाने | यथा विन्‌च्‌ + आते | अत्र अजादि-प्रत्ययोऽस्ति अतो हल्‌-सन्धेः प्रसङ्गो नास्ति, चकारो यथावत्‌ तिष्ठति | विन्‌च्‌ + आते → विंच्‌ + आते → विञ्च्‌ + आते → विञ्चाते |</big>
 
 
 
<big>एवेमेव रुध्‌ + श्नम् + आते → रुन्‌ध्‌ + आते → '''नश्चापदान्तस्य झलि''' → रुंध्‌ + आते → '''अनुस्वारस्य ययि परसवर्णः''' → रुन्ध्‌ + आते → रुन्धाते</big>
 
<big>२. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत्‌, कार्यम्‌ एवं कारणीयम्‌—</big>
653

edits