6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca

Revision as of 09:36, 12 May 2021 by Bina Radia (talk | contribs) (line spacing)

6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca

हल्‌-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात्‌ प्राक्‌ एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्‌, अपि च झल्‌-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्‌, तस्यां दशायां का गतिरस्ति ?


A. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियेते | अस्य सर्वस्यानन्तरं कुत्रचित्‌ रूपस्य मध्ये न्‌ वा म्‌ वा अस्ति चेत्‌, सः न्‌ / म्‌ अपदान्तः न्‌ / म्‌ अस्ति | यथा—


१. रुधादिगणे, सार्वधातुकप्रत्यये परे श्नम्‌ इति विकरणप्रत्ययः आयाति | अनुबन्धलोपे "न" इत्येव अवशिष्यते | यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित्‌ अस्ति चेत्‌, तर्हि श्नसोरल्लोपः (६.४.१११) इत्यनेन "न" इत्यस्य अकारस्य लोपो भवति |

रुध्‌ + श्नम्‌ + तस्‌ → रुनध्‌ + तः → श्नसोरल्लोपः इत्यनेन "न" इत्यस्य अकारस्य लोपः → रुन्‌ध्‌ + तः‌


तथैव अपित्सु प्रत्ययेषु—


भुज्‌ + श्नम्‌ → भुनज्‌ → भुन्‌ज्‌

खिद्‌ + श्नम्‌ → खिनद्‌ → खिन्‌द्‌

विच्‌ + श्नम्‌ → विनच्‌ → विन्‌च्‌

तृह्‌ + श्नम्‌ → तृनह्‌‌ → तृन्‌ह्‌

कृत्‌ + श्नम्‌ → कृनत्‌ → कृन्‌त्‌


एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |


२. इदित्सु धातुषु यदा नुम्‌-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |

शुठि → शुन्‌ठ्‌

शिघि → शिन्‌घ्‌

णदि → णन्‌द्‌

लाछि → लान्‌छ्‌

इखि → इन्‌ख्‌


एषु धातुषु यः नकारः उपविष्टोऽस्ति, स अपदान्तनकार इति


३. मकारान्तधातुः चेत्‌, मकारः तिङन्तपदस्य मध्ये भवति |


गम्‌ + ता

रम्‌ + ता

यम्‌ + ता

गम्‌ + स्यते

रम्‌ + स्यते


एषु धातुषु यः मकारोस्ति, सः अपदान्तनकार इति |


B. अनुस्वारादेशः— नश्चापदान्तस्य झलि


नश्चापदान्तस्य झलि (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः इत्यस्मात्‌ मः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌—झलि अपदान्तस्य मः नः च अनुस्वारः |


अस्य सूत्रस्य कृते प्रथमनियमः अस्ति यत्‌ म्‌ / न्‌ अपदान्ते स्यात्‌ | यथा—

मन्‌ + ता

हन्‌ + ता

गम्‌ + ता


उपरितनासु स्थितिषु धातुरस्ति अपि च प्रत्ययोऽस्ति | तयोर्योजनेन पदं निष्पन्नम्‌, सुप्तिङन्तं पदम्‌ इत्यनेन | मन्‌, हन्‌, गम्‌ च केवलं धातवः; पदानि इति न | अतः एषाम्‌ अपदानाम्‌ अन्ते तत्र नकारमकारौ अपदान्तौ | अपि च ता-प्रत्ययः झलादिः अस्ति | अतः नश्चापदान्तस्य झलि इत्यनेन नकरमकारयोः स्थाने अनुस्वारादेशो भवति |


मन्‌ + ता → मंता

हन्‌ + ता → हंता

गम्‌ + ता → गंता


एवमेव—


यम्‌ + ता → यंता

हन्‌ + सि → हंसि

रम्‌ + स्यते → रंस्यते

नम्‌ + स्यति → नंस्यति

मन्‌ + स्यते → मंस्यते


रुधादिगणे अपि रुन्‌ध् इत्यस्मिन्‌ नकारः अपदान्तः; झल्‌-प्रत्याहारे धकारः परे अस्ति | अतः अत्रापि नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशो भवति |


रुन्‌ध् → रुंध्‌ शुन्‌ठ्‌ → शुंठ्‌

भुन्‌ज्‌ → भुंज्‌ शिन्‌घ्‌ → सिंघ्‌

खिन्‌द्‌ → खिंद्‌ नन्‌द्‌ → नंद्‌

विन्‌च्‌ → विंच्‌ लान्‌छ्‌ → लांछ्‌

तृन्‌ह्‌ → तृंह्‌ इन्‌ख्‌ → इंख्‌

कृन्‌त्‌ → कृंत्‌


C. परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः |


परसवर्णः इत्युक्ते अनुस्वारात्‌ परे यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात्‌ परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थाने‍ऽन्तरतमः (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थाने‍ऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता


धेयम्‌—‌ यय्-प्रत्याहारः वक्ति यत्‌ श्‌, ष्‌, स्‌, ह् एषु अन्यतमः परे अस्ति चेत्‌, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |


स्थाने‍ऽन्तरतमः (१.१.५०) = प्रसङ्गे (स्थानम्‌, अर्थं, गुणं, प्रमाणं वा अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यम्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रं परिभाषा-सूत्रम्‌ इत्युच्यते | उदाहरणार्थं यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम्‌ अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात्‌ इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत्‌ सूत्रम्‌ आगत्य नियमति तत्‌ परिभाषा-सूत्रम्‌ इत्युच्यते | केवलम्‌ आदेश-प्रसङ्गे इति न; यत्र कुत्रापि कार्यम्‌ अपेक्षितं किन्तु नियमः नास्ति, तत्र येन सूत्रेण निर्णयः क्रियते तत्‌ परिभाषा-सूत्रम् इति | अन्यच्च अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम्‌ | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम्‌ इत्यस्य आधारेण आदेशस्य विधानं चेत्‌, तर्हि स्थानम्‌, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्‌ | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्‌, अर्थः; अर्थः नोपलभ्यते चेत्‌, गुणः; गुणः नोपलभ्यते चेत्‌ प्रमाणम्‌ इति निर्णयस्य आधारः |


D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम


१. अनुस्वारात्‌ परे क्‌, ख्‌, ग्‌, घ्‌ वा चेत्‌, अनुस्वारस्य स्थाने ङकारादेशो भवति |

अंक → अङ्क

पुंख → पुङ्ख

अंग → अङ्ग

लंघन → लङ्घन


२. अनुस्वारात्‌ परे च्‌, छ्‌, ज्‌, झ्‌‌ वा चेत्‌, अनुस्वारस्य स्थाने ञकारादेशो भवति |

मंच → मञ्च

उंछ → उञ्छ

मंजु → मञ्जु

झंझा → झञ्झा


३. अनुस्वारात्‌ परे ट्‌, ठ्‌, ड्‌, ढ्‌ वा चेत्‌, अनुस्वारस्य स्थाने णकारादेशो भवति |

घंटा → घण्टा

शुंठी → शुण्ठी

मुंड → मुण्ड

शंढ → शण्ढ


४. अनुस्वारात्‌ परे त्‌, थ्‌, द्‌, ध्‌‌ वा चेत्‌, अनुस्वारस्य स्थाने नकारादेशो भवति |

मंता → मन्ता

मंथन → मन्थन

कुंद → कुन्द

बंधन → बन्धन


५. अनुस्वारात्‌ परे प्‌, फ्‌, ब्‌, भ्‌‌‌ वा चेत्‌, अनुस्वारस्य स्थाने मकारादेशो भवति |

कंपन → पम्पन

गुंफ → गुम्फ

लंब → लम्ब

स्तंभ → स्तम्भ


E. नकारमकारयोः अनुस्वारः, अनुस्वारस्य परसावर्ण्यम्‌— द्वयोः कार्ययोः प्रसङ्गभेदः कः ?


नकारमकारयोः अनुस्वारः झलि भवति (नश्चापदान्तस्य झलि इति); अनुस्वारस्य परसावर्ण्यं ययि भवति (अनुस्वारस्य ययि परसवर्णः इति) | अत्र प्रमुखो भेदोऽस्ति यत्‌ झलि श्‌, ष्‌, स्‌, ह् एते अन्तर्भूताः; ययि श्‌, ष्‌, स्‌, ह् एते नैव अन्तर्भूताः | अतः नकारमकारयोः परे श्‌, ष्‌, स्‌, ह् एषु अन्यतमोऽस्ति चेत्‌, स्थाने अनुस्वारादेशो भवति | परन्तु यतः परे श्‌, ष्‌, स्‌, ह् एषु अन्यतमोऽस्ति, अधुना अनुस्वारस्य परसवर्णादेशो न भवति |


यथा— रम्‌ + स्यते → नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः → रं + स्यते → अनुस्वारस्य ययि परसवर्णः कार्यं नैव करोति यतः सकारः ययि नास्ति अतः केवलं वर्णमेलनं भवति → रंस्यते


एवमेव हंसि = हंसि, संस्यते = संस्यते, संशय = संशय, संहार = संहार | अत्र परसवर्णादेशः नैव भवति यतः सकारः हकारः च ययि न स्तः |


F. अनुस्वारस्य परसवर्णादेशः‌— प्रक्रियायाः अन्ते एव क्रियताम्‌ |


१. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो न भवति चेत्‌, तस्य एव सवर्णादेशो विहितः अनुस्वारस्य स्थाने | यथा विन्‌च्‌ + आते | अत्र अजादि-प्रत्ययोऽस्ति अतो हल्‌-सन्धेः प्रसङ्गो नास्ति, चकारो यथावत्‌ तिष्ठति | विन्‌च्‌ + आते → विंच्‌ + आते → विञ्च्‌ + आते → विञ्चाते |


एवेमेव रुध्‌ + श्नम् + आते → रुन्‌ध्‌ + आते → नश्चापदान्तस्य झलि → रुंध्‌ + आते → अनुस्वारस्य ययि परसवर्णः → रुन्ध्‌ + आते → रुन्धाते


२. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत्‌, कार्यम्‌ एवं कारणीयम्‌—

अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः— सपादी त्रिपादी च | त्रिपाद्यां यानि सूत्राणि सन्ति, तानि सूत्रसङ्ख्याधारेण प्रवर्तनीयानि— पूर्वसूत्रस्य पूर्वकार्यं, परसूत्रस्य परकार्यम्‌ इति |


पूर्वत्रासिद्धम्‌ (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌ असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रं त्रिपाद्याः अन्ते अस्ति, अतः तस्य सूचितं कार्यम्‌ अन्ते एव भवति | कस्यचित्‌ क्रियापदस्य निर्माणक्रमे अनुस्वारात्‌ अग्रे यः वर्णः अस्ति, तस्य चरमरूपं दृष्ट्वा एव एकवारं परसवर्णादेशः प्रवर्तनीयः |


यथा—

विच्* + श्नम्‌ + ध्वे → विन्च्‌ + ध्वे → चोः कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क्‌‌ + ध्वे → नश्चापदान्तस्य झलि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक्‌ + ध्वे → झलां जश्‌ झशि इत्यनेन जश्त्वादेशः → विंग्‌‌ + ध्वे → अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग्‌ + ध्वे → वर्णमेलने → विङ्ग्ध्वे


चोः कुः (८.२.३०)

नश्चापदान्तस्य झलि (८.३.२४)

झलां जश्‌ झशि (८.४.५३)

अनुस्वारस्य ययि परसवर्णः (८.४.५८)


एवेमेव—

भुज्‌ + श्नम्‌ + ते → भुन्‌ज्‌ + ते → चोः कुः → भुन्‌ग्‌ + ते → नश्चापदान्तस्य झलि → भुंग्‌ + ते → खरि च → भुंक्‌ + ते → अनुस्वारस्य ययि परसवर्णः → भुङ्क्ते


खरि च (८.४.५५) = खरि परे झलः स्थाने चरादेशः भवति | अनुवृत्ति-सहित-सूत्रं—झलां चर्‍‌ खरि च इति |


३. अनुस्वारात्‌ अग्रे यय्‌ नास्ति चेत्‌, परसवर्णादेशो न भवति


श्‌, ष्‌, स्‌, ह् एषु अन्यतमः अनुस्वारात्‌ अग्रे चेत्‌, तर्हि अनुस्वारस्य ययि परसवर्णः इत्यस्य प्रसक्तिर्नास्त्येव |


तृह्‌ + श्नम्‌ + अन्ति → तृन्‌ह्‌ + अन्ति → नश्चापदान्तस्य झलि → तृंह्‌ + अन्ति → तृंहन्ति


४. यदि हल्‌-सन्दौ हकारस्य विकारो भवति ययि, तदा अनुस्वारस्य ययि परसवर्णः इत्यस्य प्रसक्तिर्भवति |


तृह्‌ + श्नम्‌ + तः → तृन्‌ह्‌ + तः → हो ढः इत्यनेन ह्‌-स्थाने ढ्‌-आदेशः → तृन्‌ढ्‌ + तः → झषस्तथोर्धोऽधः → तृन्‌ढ्‌ + धः → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → तृन्‌ढ्‌ + ढः → ढो ढे लोपः → तृन्‌ + ढः → तृन्‌ढः → नश्चापदान्तस्य झलि → तृंढः → अनुस्वारस्य ययि परसवर्णः → तृण्ढः


हो ढः (८.२.३१) = झलि पदान्ते वा हकारस्य स्थाने ढकारादेशो भवति | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलि इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च इत्यस्मात्‌ अन्ते इतस्य अनुवृत्तिः | पदस्य इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— हः ढः झलि पदस्य अन्ते च |


झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-परतः त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति; परन्तु धा-धातु-परतः न भवति | तस्च थ्‌ च तथौ, तयोस्तथोः | न धाः, अधाः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ |


ष्टुना ष्टुः (८.४.४१) = दन्त्यतकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | स्तोः श्चुना श्चुः इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— स्तोः ष्टुना ष्टुः |


ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ |


इति नकारमकारयोः अनुस्वारपरसावर्ण्यं च परिसमाप्तम्‌‍ |


Swarup – October 2013

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.


To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].