6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(19 intermediate revisions by 3 users not shown)
Line 68:
 
 
<big>अस्मिन्‌ सूत्रे विधानम्‌ अपि अस्ति (स्थानिवद्भावः); निषेधः अपि अस्ति (स्थानिवद्भावनिषेधः) | अतिदेशसूत्रम्‌ अस्ति यतोहि यस्य (आदेशस्य) स्वभावः तथा नास्ति (स्थानी इव न), तस्य (आदेशस्य) स्वभावः तथा (स्थानी इव) अध्यारोप्यते | परिभाषा सूत्रमपि अस्ति, यतोहि स्वयं किमपि कार्यं न करोति; विधिसूत्राणां साहायंसाहाय्यं करोति—स्थानिवद्भावः यदि नाभविष्यत्‌, तर्हि कार्यं न स्यात्‌ |</big>
 
 
Line 92:
 
 
<big>तर्हि सामान्यतया आदेशः स्थानिवत्‌ भवति |</big>
 
<big>स्थानिवद्भावः कुत्र न भवति ? येन एकः स्पष्टविचारः मनसि आगच्छेत्‌, त्रयः कालाः कल्पनीयाः |</big>
Line 104 ⟶ 105:
 
 
<big>विधिः नाम विधिसूत्रस्य कार्यम्‌ | तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम्‌ अवश्यम्‌ अपेक्षितम्‌ | प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते; अनेन स्थानी यः आसीत्‌, तस्य च स्थाने अधुना आदेशः आगतः | तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते; इदं नूतनकार्यं तृतीयकाले भवति | अत्र तृतीयकालः विशेषतः अवलोकनीयः | अस्मिन्‌ द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि, तेषु यदि एकमपि कश्चन 'वर्णः' (‘अल्‌’) अस्ति यः स्थानिनि आसीत्‌ किन्तु साक्षात्‌ आदेशे नास्ति, तर्हि इदं कार्यं भवितुं न अर्हति—‌ यतोहि स च अल्‌-वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते, नाम अत्र स्थानिवद्भावः न सम्भावतिसम्भवति | एतत्‌ वदामः 'अल्‌-विधिः' | अतः सूत्रम्‌ अस्ति '''स्थानिवदादेशः अनल्विधौ''' (१.१.५६) | आदेशः स्थानिवत्‌ भवति; किन्तु तादृशः अल्‌-विधिः अस्ति चेत्‌, आदेशः स्थानिवत्‌ न भवति |</big>
 
 
Line 159 ⟶ 160:
 
<big>दिव्‌-शब्दः + सु → '''दिव औत्‌''' (७.१.८४) इत्यनेन दिव्-इत्यस्य वकारस्य औत्‌-आदेशः भवति सु इति प्रत्यये परे → दि + औ + स्‌ → '''इको यणचि''' (६.१.७६) → द्यौ + स्‌ → 'औ' इत्यस्मिन्‌ वकारस्य स्थानिवद्भावं कृत्वा '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन सकारस्य लोपः स्यात्‌ → वकारः स्थानी, तस्य निमित्तत्वात्‌ स्कारलोपःसकारलोपः → अलो विधिः अस्ति चेत्‌ स्थानिवद्भावो न भवति → द्यौः इतिपदम्‌ |</big>
 
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''एकाल्‌ प्रत्ययः अपृक्तः''' |</big>
 
 
Line 173 ⟶ 182:
 
 
 
<big>दिव्‌ + काम → '''दिव उत्''' (६.१.१३१) इत्यनेन दिव्-प्रातिपदिकस्य पदस्य (न तु दिव्‌-धातोः) वकारस्य उ-आदेशः → दि + उ + काम → '''इको यणचि''' (६.१.७६) → द्यु + काम → उकारस्य वकारस्थानिवद्भावं कृत्वा '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन उकारस्य लोपः स्यात्‌ → अलः स्थाने विधिः भवति चेत् अलो विधिः इति कृत्वा स्थानिवद्भावो न भवति → द्युकाम इति प्रातिपदिकम्‌ → प्रथमाविभक्तौ एकवचने द्युकामः सिद्धः |</big>
 
 
 
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''व्योः लोपः वलि'''</big> |
 
 
 
 
<big>४. अलि विधिः ( सप्तमीतत्पुरुषः)</big>
 
 
 
Line 182 ⟶ 199:
 
 
 
<big>क इष्टः | यज्‌-धातुः + क्त → यज्‌ + त → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्‌ → इ अ ज्‌ + त → पूर्वरूपैकादेशः → इज्‌ + त → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशः झलि परे → इष्‌ + त → '''ष्टुना ष्टुः''' (८.४.४१) → इष्ट → एतस्मात्‌ पूर्वं 'किम्‌ + सु' → '''किमः कः''' (७.२.१०३) इत्यनेन किम्-शब्दस्य विभक्ति-प्रत्यये परे "क" आदेशः → क + स्‌ → '''ससजुषो रुः''' (८.२.६६) → कर्‌ + इष्ट → यज्‌-धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थानिवद्भावं कृत्वा '''हशि च''' (६.१.११४) इत्यनेन अप्लुत-ह्रस्व-अकारात् परस्य रुँ-सम्बद्धरेफस्य उकारादेशः हशि परे → 'क + उ + इष्ट' इति भवति स्म, परन्तु 'हशि परे' इत्यस्य कथनेन 'अलि विधिः' इति कारणतः इकाररूपादेशे यकरत्वस्य स्थानिवद्भावो न भवति → कर्‌ + इष्ट → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अकारोतरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → कय्‌ + इष्ट → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशि परे → क इष्टः / कयिष्टः |</big>
 
 
 
<big>'''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः | भोश्च भगोश्च अघोश्च अश्च तेषामितरेतरद्वन्द्वः, भोभगोअघोआः | भोभगोअघोआः पूर्वे यस्मात्‌ स भोभगोअघोअपूर्वः बहुव्रीहिः, तस्य भोभगोअघोअपूर्वस्य | भोभगोअघोअपूर्वस्य षष्ठ्यन्तं, यः प्रथमान्तम्‌, अशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''रोः''' '''सुपि''' (८.३.१६) इत्यस्मात्‌ '''रोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम्‌''' |</big>
 
 
 
<big>'''हशि च''' (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यस्मात्‌ '''अप्लुतात्‌, अतः, रोः''' इत्येषाम्‌ अनुवृत्तिः | '''ऋत उत्‌''' (६.१.१११) इत्यस्मात्‌ '''उत्‌''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | '''अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌''' |</big>
 
 
 
<big>एतत्सर्वं मनसि निधाय, अधुना पुनः चिन्तनीयं यत्‌ अत्र '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) पूर्वं भवति चेत्‌, अनन्तरं '''शा हौ''' (६.४.३५) इत्यस्य कार्यं सम्भवति वा; '''शा हौ''' (६.४.३५) पूर्वं भवति चेत्‌, अनन्तरं '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यस्य कार्यं सम्भवति वा— इति इदं परिस्थितिद्वयम्‌ अस्माभिः परिशीलनीयम्‌ |</big>
 
 
 
Line 204 ⟶ 232:
 
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
Line 211 ⟶ 239:
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c/c1/%E0%A5%A7%E0%A5%AB_-_%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83.pdf १५ - स्थानिवद्भावः.pdf]
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/c/c1/%E0%A5%A7%E0%A5%AB_-_%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83.pdf १५ - स्थानिवद्भावः.pdf] (67k) Swarup Bhai, Sep 4, 2019, 8:02 AM v.1
 
 
 
page_and_link_managers, Administrators
5,251

edits