6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 105:
 
 
<big>विधिः नाम विधिसूत्रस्य कार्यम्‌ | तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम्‌ अवश्यम्‌ अपेक्षितम्‌ | प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते; अनेन स्थानी यः आसीत्‌, तस्य च स्थाने अधुना आदेशः आगतः | तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते; इदं नूतनकार्यं तृतीयकाले भवति | अत्र तृतीयकालः विशेषतः अवलोकनीयः | अस्मिन्‌ द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि, तेषु यदि एकमपि कश्चन 'वर्णः' (‘अल्‌’) अस्ति यः स्थानिनि आसीत्‌ किन्तु साक्षात्‌ आदेशे नास्ति, तर्हि इदं कार्यं भवितुं न अर्हति—‌ यतोहि स च अल्‌-वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते, नाम अत्र स्थानिवद्भावः न सम्भावतिसम्भवति | एतत्‌ वदामः 'अल्‌-विधिः' | अतः सूत्रम्‌ अस्ति '''स्थानिवदादेशः अनल्विधौ''' (१.१.५६) | आदेशः स्थानिवत्‌ भवति; किन्तु तादृशः अल्‌-विधिः अस्ति चेत्‌, आदेशः स्थानिवत्‌ न भवति |</big>
 
 
page_and_link_managers, Administrators
5,269

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu