6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH

ध्वनिमुद्रणानि -

2019-वर्गः

१) rudhAdigaNaH---paricayaH_2019-08-27

२) rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03 

३) rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10

४) rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17

५) rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24 

६) rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01  

७) rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08

८) rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15 

(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे अस्य पाठस्य अध्ययनं जातम् |)

९) rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22

१०) rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29

2016-वर्गः

१) rudhAdigaNasya-paricayaH_2016-10-16

२) rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23 

३) rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30 

४) rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03

५) rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13 

६) rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20

७) rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27

८) rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04

९) rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11 

१०) rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18


रुधादिगणे २५ धातवः सन्ति; ते च सर्वे हलन्ताः | कर्त्रर्थे सार्वधातुकप्रत्यये परे किं किं भवति इति अस्मिन्‌ पाठे वीक्ष्यते | सार्वधातुकप्रकरणे इदम्‌ अस्माकम्‌ अन्तिमं कार्यम्‌ |


यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः अस्ति | तदा रुधादिगणे रुधादिभ्यः श्नम्‌ (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्‌-विकरणप्रत्ययः विहितो भवति |


रुधादिभ्यः श्नम् (३.१.७८) = रुधादिगणे पठितेभ्यः धातुभ्यः श्नम्‌-प्रत्ययो भवति, कर्त्रर्थके सार्वधातुकप्रत्यये परे | रुध्‌ आदिः येषां ते रुधादयः, तेभ्यः रुधादिभ्यः | रुधादिभ्यः पञ्चम्यन्तं, श्नम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) इत्यस्य अधिकारः; अनेन श्नम्‌ इत्यस्य प्रत्ययसंज्ञा भवति | अनुवृत्ति-सहितसूत्रम्‌— रुधादिभ्यः श्नम्‌ प्रत्ययः कर्तरि सार्वधातुके |


श्नम्‌ इति प्रत्यये लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन द्वयोर्लोपे सति 'न' इत्येव अवशिष्यते |


सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. तिङ्‌प्रत्यय-सिद्धिः

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

अस्मिन्‌ प्रथमे सोपाने, रुधादिगणे वस्तुतः क्रमः विपरीतः | सर्वप्रथमं धातु-विकरणप्रत्यययोः मेलनं भवति, तदा एव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् |


धातु-विकरणप्रत्यययोः मेलनम्‌—


श्नम्‌ मित्‌ (म्‌ इत यस्य सः) अस्ति, अतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | यथा रुध्‌ + श्नम्‌ → रुध्‌ + न → रुनध्‌; भिद्‌ + न → भिनद्‌; कृत्‌ + न → कृनत्‌; तृद्‌ + न → तृनद्‌; खिद्‌ + न → खिनद्‌; तृह्‌ + न → तृनह्‌ इत्यादिकम्‌ |


मिदचोऽन्त्यात्परः (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌, परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात्‌ अन्तः इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌ (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | एतदर्थं सिद्धान्तकौमुदीकारवृत्तिरस्ति— 'अचः इति निर्धारणे षष्ठी | अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्' | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित्‌ अचः अन्त्यात्‌ परः अन्तः |


अनेन सूत्रेण श्नम्‌ "यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, लशक्वतद्धिते (१.३.८) इत्यनेन 'इ' अवशिष्यते] → शि-प्रत्ययः सर्वनामस्थानसंज्ञकः अतः नपुंसकस्य झलचः (७.१.७२) इत्यनेन झलन्तस्य अजन्तस्य च क्लीबस्य नुम्‌ भवति सर्वनामस्थाने परे; नुम्‌ मित्‌ अतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन स च नुम्‌ अच्‌-वर्णेषु अन्त्यात्‌ परः → ज्ञान + न्‌ + इ → नुम्‌-आगमस्य नकारः अधुना ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नकारान्ताङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने परे (सम्बोधनस्य एकवचने नास्ति चेत— 'असम्बुद्धौ’) → ज्ञानान्‌ + इ → ज्ञानानि | यदि नुम्‌-आगमस्य नकारः 'ज्ञान' इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, यदि अन्त्यस्य अचः एव अवयवः इति स्वीक्रियेत, तर्हि 'अन्‌' नान्तः चेदपि अङ्गं नान्तं न इति कारणतः सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |


(प्रश्नः— अत्रोक्तं 'ज्ञान + इ [शि-प्रत्ययः]' | सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌; कथं वा 'शि' इति जातम्‌ ? मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति— मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)


एवं च यदा श्नम्‌-प्रत्ययः आगतः, तदा विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्—


रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, श्नान्नलोपः (६.४.२३) इत्येनेन सूत्रेण | यथा इन्ध्‌ + श्नम्‌ → इनन्ध्‌ | 'इनन्ध्' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परे धातौ नकारः वर्तते अतः श्नान्नलोपः इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः, इनन्ध् → इनध्‌ | एवमेव तृन्ह्‌ + श्नम्‌ → तृनन्ह्‌ → तृनह्‌; अञ्ज्‌ → अनञ्ज्‌ → अनज्‌; भञ्ज्‌ → भनञ्ज्‌‌ → भनज्‌; तञ्ज्‌ → तनञ्ज्‌ → तनज्‌; उन्द्‌ → उनन्द्‌ → उनद्‌ इत्यादिकम्‌ |


धेयं यत्‌ अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य, अङ्गम्‌ उद्दिष्य, यत्‌ कार्यं तद्‌ अङ्गकार्यम्‌ | केवलं प्रत्ययात्‌ प्राक्‌ तदेव अङ्गम्‌ इति न; प्रत्ययं निमित्तीकृत्य यत्र कार्यं भवति, तत्र अङ्गम्‌ | अतः रुधादिगणे यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविशति, तथापि स च धातुः विकरणप्रत्ययस्य कारणेन अङ्गमेव |


श्नान्नलोपः (६.४.२३) = श्नम्‌-प्रत्ययोत्तरस्य नकारस्य लोपो भवति | नस्य लोपो नलोपः, षष्ठीतत्पुरुषः | श्नात्‌ पञ्चम्यन्तं, नलोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— श्नात्‌ अङ्गस्य नलोपः |


२. तिङ्‌प्रत्यय-सिद्धिः


रुधादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते ये सिद्ध-तिङ्‌प्रत्ययाः भवन्ति, ते अत्र प्रयुज्यन्ते |

प्रत्ययादेशः


क्वचित्‌ विशिष्ट-स्थित्याम्‌ एषु सिद्ध-तिङ्‌प्रत्ययेषु केचन परिवर्तन्ते | अयं विकारः प्रत्ययादेशः इति उच्यते |


परस्मैपदस्य लोटि—

हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हुझल्भ्यः अङ्गेभ्यः हेः धिः |


परस्मैपदस्य लङि—

अपृक्त एकाल्‌ प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— एकाल्‌ प्रत्ययः अपृक्तः |


हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | लोपो व्योर्वलि (६.१.६५) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |


३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


a) अङ्गकार्यम्‌

रुधादिगणे तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌ एकमेव, तच्च सर्वेषु धातुषु प्रवर्तते | अपित्सु सार्वधातुकलकारेषु श्नम्‌-प्रत्यये स्थितस्य अकारस्य लोपो भवति श्नसोरल्लोपः इत्येनेन सूत्रेण | यथा रुनध्‌ + तः → रुन्ध्‌ + तः | भिनद्‌ + तः → भिन्द्‌ + तः | कृनत्‌ + तः → कृन्त्‌ + तः | क्षुनद्‌ + तः → क्षुन्द्‌ + तः | तृनह्‌ + तः → तृन्ह्‌ इत्यादिकम्‌ |


श्नसोरल्लोपः (६.४.१११) = श्नम्‌-प्रत्ययस्य अपि च अस्‌-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस्‌ च तयोरितरेतरद्वन्द्वः श्नसौ | शकन्ध्वादिषु पररूपं वाच्यम् इति वार्तिकेन पररूपादेशात्‌ न सवर्णदीर्घसन्धिः | श्नसोः षष्ठ्यन्तम्‌, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः; गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति |


एङि पररूपम्‌ (६.१.९४) इत्यनेन अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपादेशो भवति | प्र + एजते → प्रेजते | उप + ओषति → उपोषति | अष्टाध्याय्यां तस्मिन्नेव स्थले वार्तिकमस्ति— शकन्ध्वादिषु पररूपं वाच्यम् | शक अन्धुः शकन्धुः | कुल अटा कुलटा | शकन्ध्वादिः आकृतिगणः, अनेन श्नसौ अपि अन्यतमः सदस्यः |


एवं च श्नसोरल्लोपः इति सूत्रस्य कारणतः पित्सु प्रत्ययेषु एकं रूपम्‌, अपित्सु प्रत्ययेषु च अन्यत्‌ रूपम्‌‌ |

यथा—

१. पित्सु प्रत्ययेषु अकारस्य लोपो न भवति |

रुध्‌ + न + ति → रुणध्‌ + ति

क्षुद्‌ + न + ति → क्षुणद्‌ + ति

रिच्‌ + न + ति → रिणच् + ति‌

तृद्‌ + न + ति → तृणद्‌ + ति

कृद्‌ + न + ति → कृणद् + ति‌

तृह्‌ + न + ति → तृणह्‌ + ति


२. अपित्सु प्रत्ययेषु अकारस्य लोपो भवति सर्वत्र |

रुध्‌ + न + तः → रुन्ध्‌ + तः

क्षुद्‌ + न + तः → क्षुन्द्‌‌ + तः

रिच्‌ + न + तः → रिन्च्‌‌ + तः

तृद्‌ + न + तः → तृन्द्‌‌ + तः

कृद्‌ + न + तः → कृन्द्‌ + तः

तृह्‌ + न + तः → तृन्ह्‌ + तः


धेयं यत्‌ पित्सु प्रत्ययेषु णत्वं भवति यत्र निमित्तं वर्तते | अपित्सु प्रत्ययेषु निमित्तम्‌ प्रतीयते चेदपि णत्वं नैव भवति | निमित्तं भाति, परन्तु वस्तुतस्तु नास्ति | तत्र पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन णत्वं बाधितम्‌; अग्रे यत्र सन्धिकार्यं क्रियते, तत्र णत्वं कथं बाधितमिति पश्येम |


अत्र इतोऽपि कश्चन प्रश्नः उदेति— रुधादिगणे अपित्सु तिङ्‌प्रत्ययेषु सर्वेषाम्‌ अङ्गानां श्नसोरल्लोपः (६.४.१११) इत्यनेन नकारोत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारो भवति | अपि च रुधादिगणे हिसि-धातुम्‌ अतिरिच्य सर्वे धातवः अनिदितः | अतः एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?


रुन्ध्‌ + तः, क्षुन्द्‌‌ + तः, रिन्च्‌‌ + तः, तृन्द्‌‌ + तः, कृन्द्‌ + तः, तृन्ह्‌ + तः— एषु सर्वेषु स्थलेषु अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत्‌ | किमर्थं न भवति ?


अनिदितां हल उपधाया क्ङिति (६.४.२४) = अनिदितां हलन्तानाम्‌ अङ्गानाम्‌ उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ , लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अनिदितां हलः अङ्गस्य उपधाया न लोपः क्ङिति |


अत्र च 'इदित्‌' इत्यनेन कीदृशधातुः गृह्यते इत्यस्य बोधनार्थम्‌ इदितो नुम्‌ धातोः इति सूत्रं परिशीलनीयम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यनेन इदितः धातोः नुम्‌ आगमो भवति | तर्हि कीदृशानां धातूनाम्‌ इदित्त्वात्‌ नुम्‌ आगमः इत्यस्य स्पष्टीकरणार्थं काशिकावृत्तौ उच्यते यत्‌ "'इरितां समुदायस्येत्संज्ञा (महाभाष्यम्‌ १.२६३) इतीदित्त्वं नास्ति | अवयवशोऽपीत्संज्ञायां सत्यां गोः पादान्ते (७.१.५७) इतोऽन्तग्रहणम्‌ अनुवर्तयितव्यम्‌ | तेनान्तेदितो धातवो गृह्यन्ते |” अनेन 'अन्ते' इत्यस्य अनुवृत्तिः इदित्‌ इत्यस्य अर्थबोधनार्थम्‌ | उपदेशावस्थायां धातोः अन्ते इत्संज्ञक-ह्रस्व-इकारः वर्तते चेदेव 'इदित्‌ धातुः' इत्युच्यते | उपदेशावस्थायां धातोः अन्ते इत्संज्ञक-ह्रस्व-इकारः नास्ति चेत्‌, स च धातुः इदित्‌ नास्ति | अनेन रुधिर्, विचिर्र्‍— एतादृशाः धातवः इदितः न, अपि तु इरितः |


तर्हि रुधादिगणे एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?


उत्तरम्‌ एवं यत्‌ श्नसोरल्लोपः (६.४.१११) च अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्याभ्यां यत्‌ कार्यं भवति, तद्द्वयमपि आभीयकार्यम्‌ | अपि च द्वयोः आश्रयः समानः कित्‌-ङित्‌ प्रत्ययः | अतः अनिदितां हल उपधाया क्ङिति (६.४.२४) इति सूत्रं प्रति श्नसोरल्लोपः (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ | अनिदितां हल उपधाया क्ङिति (६.४.२४) प्रति यतोहि अकारलोपो न जातः, नकारः उपधायां नास्ति; तस्मात्‌ अनिदितां हल उपधाया क्ङिति (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति |


असिद्धवदत्राभात्‌ (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम्‌ | असिद्धवदत्राभात्‌ (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत्‌ अत्र आ भात्‌ |


रुनध्‌ + तः → श्नसोरल्लोपः (६.४.१११) → रुन्ध्‌ + तः → असिद्धवदत्राभात्‌ (६.४.२२) इत्यनेन अनिदितां हल उपधाया क्ङिति (६.४.२४) इति सूत्रं प्रति श्नसोरल्लोपः (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ → रुनध्‌ + तः → अनिदितां हल उपधाया क्ङिति (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति


b) सन्धिकार्यम्‌


- संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगान्तस्य पदस्य लोपः |

- धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | रात्सस्य (८.२.२४) इत्यस्मात्‌ सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धि च सस्य लोपः |

- स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |

- चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |

- व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |

- झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः || तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | अनुवृत्ति-सहितसूत्रम्‌— पदस्य अन्ते झलां जशः |

- षढोः कः सि (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— षढोः कः सि |

- नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |

- आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |

- रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |

- अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपे | रषाभ्यां नो णः समानपदे (८.४.१) इति सूत्रस्य पूर्णतया अनुवृत्तिः |

- ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |

- झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— झलां जश्‌ झशि संहितायाम् |

- खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— झलां चर्‌ खरि च संहितायाम् ‌|

- अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |

- वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‍ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |

- झरो झरि सवर्णे (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात्‌ हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ अन्यतरस्याम्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |


भुङ्क्ते, युनक्ति, छिनत्ति, भुनक्ति, इत्यादीनि रूपाणि दृष्ट्वा बहवः जनाः चिन्तयन्ति यत्‌ रुधादिगणः अतीव जटिलः | किन्तु वस्तुस्थितिः तथा न; अयं गणः सरलः यतोहि अङ्गकार्यम्‌ अतीव न्यूनम्‌ |


आहत्य श्नम्-निमित्तीकृत्य एकम्‌ अङ्गकार्यम्‌— श्नान्नलोपः (६.४.२३) इत्यनेन न-लोपः, अपि च तिङ्‌-निमित्तीकृत्य एकम्‌ अङ्गकार्यम्‌— श्नसोरल्लोपः (६.४.१११) इत्यनेन श्नम्‌ इत्यस्य अकारलोपः | तत्पश्चात्‌ अवशिष्यते केवलं सन्धिकार्यम्‌ |


1. चकारान्ताः धातवः (चत्वारः धातवः विचिर्‌ → विच्‌, तञ्चू → तञ्च्‌, रिचिर्‌ → रिच्‌, पृची → पृच्‌)


विचिर्‌ → विच्‌-धातुः (उभयपदी, पृथग्भावे = पृथक्‌ करोति, विलक्षयते)


विच्‌ + श्नम्‌ → मिदचोऽन्त्यात्परः (१.१.४७) → विनच्‌


a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌


पित्सु = अङ्गकार्यं नास्ति | विनच्‌ + ति → सन्धिकार्यम्‌ → विनक्ति | विनच्‌ + आनि → विनचानि |

अपित्सु = श्नसोरल्लोपः इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | विनच्‌ + तः → विन्च्‌ + तः → सन्धिकार्यम्‌ → विङ्क्तः


b. सन्धिकार्यम्‌


विनच्‌ + ति → चोः कुः (८.२.३०) → विनक्‌ + ति → वर्णमेलने → विनक्ति

विन्च्‌ + तः → चोः कुः (८.२.३०) → विन्क्‌ + तः → नश्चापदान्तस्य झलि (८.३.२४) → विंक्‌ + तः → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → विङ्क्‌ + तः → वर्णमेलने → विङ्क्तः

विन्च्‌ + अन्ति → नश्चापदान्तस्य झलि (८.३.२४) → विंच्‌‌ + अन्ति → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → विञ्च्‌‌ + अन्ति → वर्णमेलने → विञ्चन्ति

विनच्‌ + सि → चोः कुः (८.२.३०) → विनक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) → विनक्‌ + षि → वर्णमेलने → विनक्षि

विन्च्‌ + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → विन्च्‌ + धि → चोः कुः (८.२.३०) → विन्क्‌ + धि → नश्चापदान्तस्य झलि (८.३.२४) → विंक्‌ + धि → झलां जश्‌ झशि (८.४.५३) → विंग्‌ + धि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → विङ्ग्‌ + धि → वर्णमेलने → विङ्ग्धि


आहत्य अत्र कार्यं कीदृशमिति चेत्‌—

१) अपिति प्रत्यये परे श्नसोरल्लोपः (६.४.१११), नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रसमूहः |

२) झलि परे चोः कुः (८.२.३०) |


अनेन कार्यं चतुर्विधम्‌—

१) पिति झलि = चोः कुः (८.२.३०)

२) पिति अझलि = न किमपि

३) अपिति झलि = सूत्रसमूहः + चोः कुः (८.२.३०)

४) अपिति अझलि = सूत्रसमूहः


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


एवमेव—

तञ्चू → तञ्च्‌ (परस्मैपदी, सङ्कोचने = सङ्कुचितः भवति)

रिचिर्‌ → रिच्‌ (उभयपदी, विरेचने = त्यजति, मोचयति, रिक्तं करोति)

पृची → पृच्‌ (परस्मैपदी, सम्पर्के = संयोजयति)


अनयोः द्वयोः धात्वोः प्रसङ्गे णत्वमपि परिशीलनीयं भवति | पिति प्रत्यये परे णत्वं भवति; अपिति प्रत्यये परे णत्वं न भवति | किमर्थमिति अग्रे उच्यते |


रिन्च्‌ + तः → अत्र अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वं स्यात्‌, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिरस्ति— नश्चापदान्तस्य झलि (८.३.२४), अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) च | त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिरस्ति चेत्‌, पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन परसूत्रम्‌ असिद्धं भवति | अनयोः सूत्रयोर्मध्ये अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) परसूत्रम्‌ अतः अत्र असिद्धं भवति— शास्त्रासिद्धम्‌ इति | नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य स्थाने अनुस्वारः | अनुस्वारे कृते, णत्वस्य प्रसक्तिर्नास्ति |


पृच्‌-धातोः प्रसङ्गे कार्यं तदेव; एक एव भेदः यत्‌ णत्वविधायकसूत्रं रषाभ्यां नो णः समानपदे (८.४.१) |


त्रयाणाम्‌ अपि धातूनां कृते अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


2. जकारान्ताः धातवः (षड्‌ धातवः युजिर्‌ → युज्‌, अञ्जू → अञ्ज्‌, भञ्जो → भञ्ज्‌, भुज → भुज्‌, ओविजी → विज्‌, वृजी → वृज्‌)


युजिर्‌ → युज्‌-धातुः (उभयपदी, योगे = संयोजनं करोति)


युज्‌ + श्नम्‌ → मिदचोऽन्त्यात्परः (१.१.४७) → युनज्‌


a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌


पित्सु = अङ्गकार्यं नास्ति | युनज्‌ + ति → सन्धिकार्यम्‌ → युनक्ति | युनज्‌ + आनि → युनजानि |

अपित्सु = श्नसोरल्लोपः इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | युनज्‌ + तः → युन्ज्‌ + तः → सन्धिकार्यम्‌ → युङ्क्तः


b. सन्धिकार्यम्‌


युनज्‌ + ति → चोः कुः (८.२.३०) → युनग्‌ + ति → खरि च (८.४.५५) → युनक्‌ + ति → वर्णमेलने → युनक्ति

युन्ज्‌ + तः → चोः कुः (८.२.३०) → युन्ग्‌ + तः → नश्चापदान्तस्य झलि (८.३.२४) → युंग्‌ + तः → खरि च (८.४.५५) → युंक्‌ + तः → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → युङ्क्‌ + तः → वर्णमेलने → युङ्क्तः

युन्ज्‌ + अन्ति → नश्चापदान्तस्य झलि (८.३.२४) → युंज्‌ + अन्ति → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → युञ्ज्‌ + अन्ति → वर्णमेलने → युञ्जन्ति

युनज्‌ + सि → चोः कुः (८.२.३०) → युनग्‌ + सि → आदेशप्रत्यययोः (८.३.५९) → युनग्‌ + षि → खरि च (८.४.५५) → युनक्‌ + षि → वर्णमेलने → युनक्षि

युन्ज्‌ + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → युन्ज्‌ + धि → चोः कुः (८.२.३०) → युन्ग्‌ + धि → नश्चापदान्तस्य झलि (८.३.२४) → युंग्‌ + धि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → युङ्ग्‌ + धि → वर्णमेलने → युङ्ग्धि


प्रोपाभ्यां युजेरयज्ञपात्रेषु (१.३.६४) = प्र उप इत्येवं पूर्वात्‌ युजेः अयज्ञपात्रविषयात्‌ आत्मनेपदं भवति | प्रयुङ्क्ते, उपयुङ्क्ते |


आहत्य अत्र कार्यं कीदृशमिति चेत्‌—

१) अपिति प्रत्यये परे श्नसोरल्लोपः (६.४.१११), नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रसमूहः |

२) झलि परे चोः कुः (८.२.३०), खरि च (८.४.५५) |


अनेन कार्यं चतुर्विधम्‌—

१) पिति झलि = चोः कुः (८.२.३०), खरि च (८.४.५५)

२) पिति अझलि = न किमपि

३) अपिति झलि = सूत्रसमूहः + चोः कुः (८.२.३०), खरि च (८.४.५५)

४) अपिति अझलि = सूत्रसमूहः


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि (परस्मैपदे, तदा आत्मनेपदे)

लटि —

लोटि—

लङि—

विधिलिङि—


एवमेव—

अञ्जू → अञ्ज्‌ (परस्मैपदी, व्यक्तिम्रक्षण-कान्तिगतिषु = विवेचनं करोति, लेपयति)

भञ्जो → भञ्ज्‌ (परस्मैपदी, आमर्दने = नष्टं करोति)

भुज → भुज्‌ (उभयपदी, पालनाभ्यवहारयोः = पालनं करोति, संरक्षणं करोति; खादति)

अभ्यवहारः इत्युक्तौ भोजनम्‌ | भुजोऽनवने (१.३.६६) इत्यनेन खादनार्थे आत्मनेपदं— भुङ्क्ते | पालने परस्मैपदं— नृपः राज्यं भुनक्ति |

ओविजी → विज्‌ (परस्मैपदी, भयचलनयोः = भयेन कम्पते, आपद्ग्रस्तो भवति)

वृजी → वृज्‌ (परस्मैपदी, वर्जने = वर्जयति, निवारयति, चिनोति)


3. तकारान्ताः धातवः (एकः धातुः कृती → कृत्)


कृती → कृत् (परस्मैपदी, वेष्टने=आवृणोति, परिवेष्टयति)


कृत् + श्नम्‌ → मिदचोऽन्त्यात्परः (१.१.४७) → कृनत्‌


a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌


पित्सु = अङ्गकार्यं नास्ति | कृनत्‌ + ति → कृणत्ति | कृनत्‌ + आनि → कृणतानि |

अपित्सु = श्नसोरल्लोपः इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | कृनत् + तः → कृन्त्‌ + तः → कृन्त्तः


b. सन्धिकार्यम्‌


कृन्त्‌ + तः → नश्चापदान्तस्य झलि (८.३.२४) → कृंत्‌ + तः → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → कृन्त्‌ + तः → वर्णमेलने → कृन्त्तः


धेयं यत्‌ अस्य क्रमस्य आरम्भे अन्ते च णत्वं स्यात्‌ इति भाति | किन्तु पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन न भवति | आरम्भे शास्त्रासिद्धम्‌; अन्ते कार्यासिद्धम्‌ |


१. आरम्भे शास्त्रासिद्धम्‌— कृन्त्‌ + तः → अत्र रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन णत्वं स्यात्‌, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिरस्ति— नश्चापदान्तस्य झलि (८.३.२४), रषाभ्यां नो णः समानपदे (८.४.१) च | त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिरस्ति चेत्‌, पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन परसूत्रम्‌ असिद्धं भवति | अनयोः सूत्रयोर्मध्ये रषाभ्यां नो णः समानपदे परसूत्रम्‌ अतः अत्र असिद्धं भवति | नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः | अनुस्वारे कृते, णत्वस्य प्रसक्तिर्नास्ति |


२. अन्ते कार्यासिद्धम्‌— कृंत्‌ + तः → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → कृन्त्‌ + तः → कृन्त्तः | अधुना कृन्त्तः इति रूपं दृष्ट्वा रषाभ्यां नो णः समानपदे इति सूत्रस्य प्रसक्तिः स्यात्‌ इति भाति | परन्तु तस्मात्‌ प्राक्‌ अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन नकारः आदिष्टः | अधुना रषाभ्यां नो णः समानपदे (८.४.१), इति सूत्रं प्रति अनुस्वारस्य ययि परसवर्णः (८.४.५८) परसूत्रम्‌ , अतः तस्य कार्येम्‌ असिद्धम्‌ | वस्तुतः कार्यं सञ्जातम्‌ एव, परन्तु रषाभ्यां इत्यस्य दृष्ट्या न जातमेव; रषाभ्यां इति सूत्रेण कृंत्तः इत्येव दृश्यते न तु कृन्त्तः | अतः णत्वस्य अवसरः न भवति |


कृन्त्‌ + हि → हुझल्भ्यो हेर्धिः → कृन्त्‌ + धि → नश्चापदान्तस्य झलि (८.३.२४) → कृंत्‌ + धि → झलां जश्‌ झशि (८.४.५३) → कृंद्‌ + धि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → कृन्द्‌ + धि → कृन्द्धि → झरो झरि सवर्णे (८.४.६५) इत्यनेन विकल्पेन झर्‌-लोपः → कृन्धि


झरो झरि सवर्णे (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात्‌ हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ अन्यतरस्याम्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |


यत्र यत्र झरो झरि सवर्णे (८.४.६५) इत्यस्य प्रसङ्गः स्यात्‌, तत्र तत्र अवश्यं प्रयोक्तव्यम्‌ |


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


4. दकारान्ताः धातवः (अष्टौ धातवः छिदिर्‌ → छिद्‌, भिदिर्‌ → भिद्‌, विद → विद्‌, उन्दी → उन्द्‌, खिद → खिद्‌, उच्छृदिर्‌ → छृद्‌, उतृदिर्‌ → तृद्‌, क्षुदिर्‌ → क्षुद्‌)


छिदिर्‌ → छिद्‌ (उभयपदी, द्वैधीकरणे, अद्वैधस्य पृथक्त्वे=छिन्नं करोति; भिन्नं करोति)


छिद्‌ + श्नम्‌ → मिदचोऽन्त्यात्परः (१.१.४७) → छिनद्‌


a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌


पित्सु = अङ्गकार्यं नास्ति | छिनद्‌ + ति → सन्धिकार्यम्‌ → छिनत्ति | छिनद्‌ + आनि → छिनदानि |

अपित्सु = श्नसोरल्लोपः इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | छिनद्‌ + तः → छिन्द्‌ + तः → सन्धिकार्यम्‌ → छिन्त्तः


b. सन्धिकार्यम्‌

छिन्द्‌ + तः → नश्चापदान्तस्य झलि (८.३.२४) → छिंद्‌ + तः → खरि च (८.४.५५) → छिंत्‌ + तः → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → छिन्त्‌ + तः → वर्णमेलने → छिन्त्तः


एवं तकारान्तानां, दकारान्तानां, धकारान्तानां च धातूनां 'हल्‌-उत्तरस्य झर्‌ सवर्णझरि परे' बहुत्र भवति इत्यस्मात्‌ झरो झरि सवर्णे (८.४.६५) इत्यनेन यथासङ्गं झरः विकल्पेन लोपः |


लङि लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यनेन अडागमः, तदा छकारे परे तुगागमः |


अ + छिनद्‌ → छे च (६.१.७२) इत्यनेन तुगागमः → अत्‌छिनद्‌ → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन श्चुत्वादेशः → अच्छिनद्‌


लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | लुङ्‌ च लङ्‌ च लृङ्‌ च तेषामितरेतरद्वन्द्वः लुङ्‌लङ्लृङः, तेषु लुङ्‌लङ्‌लृङ्क्षु | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अट्‌ उदात्तः लुङ्‌लङ्‌लृङ्क्षु |


छे च (६.१.७२) = ह्रस्वस्वरस्य तुक्‌-आगमो भवति छकारे परे | तुक्‌ कित्‌ अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ह्रस्वस्य पिति कृति तुक्‌ (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ह्रस्वस्य तुक्‌ छे च संहितायाम्‌ |


लङि दश्च (८.२.७५) इत्यनेन सिपि परे धातोः पदान्ते दकारस्य विकल्पेन रु-आदेशः |


अच्छिनद्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हल्‌-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अच्छिनद्‌ → वाऽवसाने इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अच्छिनत्‌ / अच्छिनद्‌ | अच्छिनद्‌ → दश्च (८.२.७५) इत्यनेन विकल्पेन रु-आदेशः → अच्छिनरु → उ इत्यस्य इत्‌-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन अवसाने रेफस्य विसर्गादेशः → अच्छिनः | त्रीणि रूपाणि अच्छिनद्‌ / अच्छिनत्‌ / अच्छिनः


दश्च (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम्‌ एव | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दः च पदस्य धातोः रुः वा सिपि |


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


एवमेव—

भिदिर्‌ → भिद्‌ (उभयपदी, विदारणे)

विद → विद्‌ (आत्मनेपदी, विचारणे)

उन्दी → उन्द्‌ (परस्मैपदी, क्लेदने)

खिद → खिद्‌ (आत्मनेपदी, दैन्ये)

उच्छृदिर्‌ → छृद्‌ (उभयपदी, दीप्ति-देवनयोः)

उतृदिर्‌→ तृद्‌ (उभयपदी, हिंसा-नादरयोः)

क्षुदिर्‌ → क्षुद्‌ (उभयपदी, सम्पेषणे)


5. धकारान्ताः धातवः (द्वौ धातू रुधिर्‌ → रुध्‌, ञिइन्धी → इन्ध्‌)


रुधिर्‌ → रुध्‌ (उभयपदी, आवरणे)


रुध्‌ + श्नम्‌ → मिदचोऽन्त्यात्परः (१.१.४७) → रुनध्


a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌


पित्सु = अङ्गकार्यं नास्ति | रुनध् + ति → सन्धिकार्यम्‌ → रुणद्धि | रुनध् + आनि → रुणधानि |

अपित्सु = श्नसोरल्लोपः इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | रुनध् + तः → रुन्ध्‌ + तः → सन्धिकार्यम्‌ → रुन्धः


b. सन्धिकार्यम्‌

रुन्ध्‌ + तः → झषस्तथोर्धोऽधः (८.२.४०) → रुन्ध्‌ + धः → नश्चापदान्तस्य झलि (८.३.२४) → रुंध्‌ + धः → झलां जश्‌ झशि (८.४.५३) → रुंद्‌ + धः → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → रुन्द्‌ + धः → झरो झरि सवर्णे (८.४.६५) → विकल्पेन द्‌-लोपः → वर्णमेलने → रुन्धः/रुन्द्धः


झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |