7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH

Revision as of 12:53, 23 May 2021 by Gargi Dixit (talk | contribs)

7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH

03 - प्रेरणार्थे णिच् - विशेषाः हलन्तधातवः

ध्वनिमुद्रणानि - 2020 वर्गः-
१) preraNArthe-Nic---visheSha-ajanta-ca-halanta-ca-dhAtavaH---प्री, इण्‌-इक्‌, धूञ्‌, जागृ, दॄ, नॄ, जॄ, स्मृ, ऋ, स्फाय्‌, शद्‌_2020-06-10
२) preraNArthe-Nic---visheSha-halanta-dhAtavaH---रुह्‌, हन्‌, दुष्‌, सिध्‌, स्फुर्, कॄत्‌_2020-06-16
३) preraNArthe-Nic---visheSha-halanta-dhAtavaH---शद्‌, कॄत्‌_+_rephasya-pUrvam-ikaH-dIrghaH---trINi-sUtrANi_2020-06-23
४) preraNArthe-Nic---visheSha-halanta-dhAtavaH---rephasya-pUrvam-ikaH-dIrghaH---trINi-sUtrANi-samagra-cintanam_2020-06-30
५) preraNArthe-Nic---visheSha-halanta-dhAtavaH---rephasya-pUrvam-ikaH-dIrghaH-samagra-cintanam_+_रध्‌, जभ्‌, रभ्‌, लभ्‌, क्नूयी, क्ष्मायी_2020-07-07    
६) preraNArthe-Nic---visheSha-halanta-dhAtavaH---क्नूयी, क्ष्मायी_+_katha-dhAtu-sthAnivadbhAvaH-dve-sUtre_2020-07-14
७) preraNArthe-Nic---katha-Nic-iti-sthale-sthAnivadAdesho'nalvidhau-dvArA-sthAnivadbhAvaH-kim_2020-07-21
८) preraNArthe-Nic---katha-Nic-iti-sthale-sthAnivadAdesho'nalvidhau-dvArA-sthAnivadbhAvaH-kim-2_2020-07-28
९) preraNArthe-Nic---sthAnivadbhAvaH-3_+_mit-dhAtavaH_2020-08-04
ध्वनिमुद्रणानि - 2017 वर्गः-
१) preraNArthe-Nic---halanteShu--sphAy-shad-ruh-han_2017-05-14
२) preraNArthe-Nic---halanteShu--duSh-sidh-sphur-kRut_+_radh-jabh-rabh_2017-05-21
३) preraNArthe-Nic---halanteShu--kRut_+_rephavakArAbhyAM-pUrvam-ikaH diirghaH---triiNi-sUtrANi_2017-05-28
४) cintanaM---rephavakArAbhyAM-pUrvam-ikaH-diirghaH---triiNi-sUtrANi_2017-06-04
५) visheSha-halanta-dhAtUnAM-samagracintanam---dhAtvAdeshAH_+_AgamAH_ca_2017-06-11


गते करपत्रे प्रेरणार्थे णिचि विशेष-अजन्तधातवः अवलोकिताः | अधुना विशेष-हलन्तधातवः परिशीलनीयाः | एकैकस्मिन्‌ पाठे यत्र सामान्यरूपाणि दत्तानि, तदा विशेषरूपाणि दत्तानि भवन्ति, तत्र केवलं "कानिचन विशेषोदाहरणानि" इति न, अपि तु संस्कृतभाषायां यावन्ति विशेषरूपाणि, तानि सर्वाणि | क्रमेण अष्टाध्याय्यां दीयन्ते; सूत्रक्रमाधारेण अत्र उपस्थाप्यन्ते | इतः अग्रे इतो‍ऽपि विशेषरूपाणि न सन्ति एव | मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिध्यति— यदा तया एका प्रक्रिया पाठ्यते, तदा द्विसहस्रं धातून्‌ अवलम्ब्य पाठयति सा | एकोऽपि धातुः नावशिष्यते | अतः कश्चन धातुः विशेषेषु नोक्तं चेत्‌, स च धातुः सामान्यः एव | इत्थञ्च मातुः पाठं जानाति चेत्‌, सर्वान्‌ धातून्‌ जानाति |


अस्मिन्‌ करपत्रे सर्वे धातवः हलन्तधातवः एव, येषां रूपाणि विशिष्टानि | सामान्य-हलन्तधातूनां कार्यम्‌ अत उपधायाः (७.२.११६), पुगन्तलघूपधस्य च (७.३.८६,) इति सूत्राभ्यां सिध्यति | अस्मिन्‌ करपत्रे ये धातवः पठिताः, तेषाम्‌ आधिक्येन विशिष्टाः आगमाः आदेशाः च सन्ति, यथा अजन्तधातूनां स्थितिः |


A. धात्वादेशाः

णिचि परे के के धात्वादेशाः भवन्ति इति अत्र सूच्यते | प्रक्रिया एवमस्ति यत्‌ धातोः पूर्णतया आदेशः अस्ति, तदा अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः विहितः भवति | सप्तमाध्यायस्य तृतीयपादस्य अनुवर्तनक्रमे इमानि सूत्राणि आयान्ति | अस्मिन्‌ प्रकरणे आरम्भे अजन्तधातूनाम्‌ आगमाः, तदा क्रमेण हलन्तधातूनां धात्वादेशः | गतपाठे अजन्तधातूनाम्‌ एते आगमाः प्रदर्शिताः—


अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६)

शाच्छासाह्वाव्यावेपां युक् (७.३.३७)

वो विधूनने जुक् (७.३.३८)

लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९)

भियो हेतुभये षुक्‌ (७.३.४०)


तस्मिन्नेव प्रकरणे अनुक्रमेण हलन्तधातूनां धात्वादेशाः—


१) स्फाय्‌-धातुः


स्फाय्‌ = भ्वादिगणे | लटि स्फायते | अर्थः = स्थूलः भवति |


स्फायो वः (७.३.४१) = णिचि प्रत्यये परे, स्फाय्‌ धातोः स्थाने व-आदेशो भवति | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तादेशः | स्फायः षष्ठ्यन्तं, वः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्फायः वः णौ |


स्फाय्‌ → हेतुमति च (३.१.२६) इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच्‌ → स्फाय्‌ + णिच्‌ → स्फायो वः (७.३.४१) इत्यनेन स्फाय्‌-धातोः वकारादेशः → स्फाव्‌ + इ → स्फावि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन स्फावि‌ इति णिजन्तस्य धातुसंज्ञा → स्फावि + शप्‌ + ति → स्फावयति


२) शद्‌-धातुः


शद्‌ = भ्वादिगणे, तुदादिगणे च | लटि शीयते उभयत्र | शिति परे पाघ्राध्मास्था (७.३.७८) इत्यनेन शीय इति धात्वादेशः | शदेः शितः (१.३.६०) इत्यनेन यद्यपि अयं धातुः पारस्मैपदी, किन्तु शिति परे आत्मनेपदी एव भवति | तदर्थं लटि शीयते, किन्तु लृटि शत्स्यति | शीयते इत्यस्य अर्थः = कृशः भवति, क्षीणः भवति—उभयोः गणयोः | प्रेरणार्थे शातनम्‌ इत्युक्ते पीडनम्‌; अस्मिन्‌ अर्थे केवलं णिजन्तरूपं सम्भवति; कष्टं ददाति, पीडां करोति इति अर्थे केवलं णिजन्तरूपं यतोहि अणिजन्ते शद्‌-धातुः अकर्मकः | णिजन्ते अस्य धातोः अन्यः अर्थः गत्यर्थकः— अनुधावति इति |


अणिजन्त-शद्‌-धातोः शीय इति धात्वादेशो भवति अनेन सूत्रेण—


पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम्‌ | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद्‌ च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदां अङ्गस्य पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः शिति |


णिजन्ते—


शदेरगतौ तः (७.३.४२) = शद्‌-धातोः तकारादेशो भवति णिचि परे, अगत्यर्थे | न गतिः, अगतिः, तस्याम्‌ अगतौ | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तादेशः | शदेः षष्ठ्यन्तम्‌, अगतौ सप्तम्यन्तं, तः प्रथमान्तम्‌ | तः इत्यस्मिन्‌ अकारः उच्चारणार्थमेव अस्ति | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— शदेः तः णौ अगतौ |


अत उपधायाः (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे |


अगत्यर्थे—

शद्‌ → हेतुमति च (३.१.२६) → शद्‌ + णिच्‌ → शदेरगतौ तः (७.३.४२) → शत्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधा-वृद्धिः → शाति इति णिजन्तधातुः → शातयति


गत्यर्थे—

शद्‌ + णिच्‌ → शद्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधा-वृद्धिः → शादि → इति णिजन्तधातुः → शादयति


शातयति इत्यस्य उदाहरणं काशिकायाम्— 'पुष्पाणि शातयति' | नाम क्षीणं कारयति | अन्यत्‌ उदाहरणं 'दुर्जनः सज्जनं शातयति', नाम पीडयति |

शादयति इत्यस्य उदाहरणं काशिकायाम्— गोपालकः गाः शादयति | अन्यत्‌ उदाहरणं 'भारतसेना शत्रुसेनां शादयति' | गमयति इत्यर्थः |


३) रुह्‌-धातुः


रुह बीजजन्मनि = भ्वादिगणे | लटि रोहति | अर्थः = वर्धते; उत्पतति, उदेति, उत्तिष्ठते


रुहः पोन्यतरस्याम् (७.३.४३) = रुह्‌-धातोः विकल्पेन पकारादेशो भवति णिचि परे | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तादेशः | रुहः षष्ठ्यन्तं, पः प्रथमान्तम्‌, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— रुहः पः णौ अन्यतरस्याम् |


पकारादेशे—

रुह्‌ → हेतुमति च (३.१.२६) → रुह्‌ + णिच्‌ → रुहः पोन्यतरस्याम् (७.३.४३) → रुप्‌ + इ → पुगन्तलघूपधस्य च (उपधायां लघु-इकः गुणः) → रोप्‌ + इ → रोपि → रोपयति


पकाराभावे—

रुह्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६,) इत्यनेन उपधायां लघु-इकः गुणः) → रोह्‌ + इ → रोहि → रोहयति


४) हन्‌-धातुः


हन्‌ = अदादिगणे | लटि हन्ति | अर्थः = मारयति


हो हन्तेर्ञ्णिन्नेषु (७.३.५४) = हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गे, हकारेण तुल्यः घकारः अस्ति (संवारः, नादः, घोषः, महाप्राणः च) अतः हकारस्य स्थाने घकारादेशः भवति | ञ्‌ च ण्‌ च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌ इति वार्तिकेन (३.३.१०८, वार्तिकम्‌), धातुनिर्देशे हन्‌ धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | चजोः कु घिण्ण्यतोः (७.३.५२) इत्यस्मात्‌ कुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु |


अत उपधायाः (७.२.११६) = उपधायां अतः वृद्धिः ञिति णिति प्रत्यये परे |


हनस्तोऽचिण्णलोः (७.३.३२) = हन्‌-धातोः स्थाने तकारादेशो भवति ञिति णिति प्रत्यये परे; चिण्‌, णल्‌ इति प्रत्ययौ न स्याताम्‌ | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तादेशः | चिण्‌ च णल्‌ च चिण्णलौ, न चिण्णलौ अचिण्णलौ, तयोरचिण्णलोः, द्वद्वगर्भनञ्तत्पुरुषः | हनः षष्ठ्यन्तं, तः प्रथमान्तम्‌, अचिण्णलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अचो ञ्णिति (७.२.११५) इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हनः अङ्गस्य तः ञ्णिति अचिण्णलोः |


अनेन एव सूत्रेण नकारस्य स्थाने तकारादेशः यथा—

हन्‌-धातुः + घञ्‌ → घातः [पदत्वे सति]

हन-धातुः + ण्वुल्‌ → घातकः [पदत्वे सति]

हन्‌-धातुः + णिच्‌ → घातयति


हन्‌ + णिच्‌ → हो हन्तेर्ञ्णिन्नेषु (७.३.५४) → घन्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन णिचि परे उपधायाम्‌ अतः वृद्धिः → घान्‌ + इ → हनस्तोऽचिण्णलोः (७.३.३२) इत्यनेन नकारस्य स्थाने तकारः → घाति → घातयति


अत्र च यतोहि एषां त्रयाणां सूत्राणां परस्परविरोधो नास्ति, तदर्थं प्रक्रियायां यः कोऽपि क्रमो भवति सम्यगेव स्यात्‌ |


B. व्यक्तिगताः वर्णादेशाः


१) दुष्‌-धातुः


दुष्‌ = दिवादिगणे | लटि दुष्यति | अर्थः = दुषितः भवति |


दोषो णौ (६.४.९०) = दुष्‌-धातोः उपधायाम्‌ उकारस्य स्थाने ऊकारादेशो भवति णिच्‌-प्रत्यये परे | दोषः इति पदं दुष्‌-धातोः लघूपधगुणं कृत्वा निर्देशः | दोषः षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात्‌ सूत्रात्‌ ऊत्‌, उपधायाः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दोषः अङ्गस्य उपधायाः ऊत्‌ णौ |


दुष्‌ → हेतुमति च (३.१.२६) → दुष्‌ + णिच्‌ → दोषो णौ (६.४.९०) → दूष्‌ + इ → दूषि इति णिजन्तधातुः → दूषयति


दृष्टान्ते 'साधनं दूषयति', 'कार्यं दूषयति' |


वा चित्तविरागे (६.४.९१) = णिच्‌-प्रत्यये परे, चित्तविकारार्थे, दुष्‌-धातोः उपधायाम्‌ उकारस्य स्थाने ऊत्‌-आदेशः वैकल्पिकः | चित्तविकारार्थे इत्युक्ते मानसिकविकारः (in sense of disturbing the mind) | चित्तस्य विरागः चित्तविरागः, षष्ठीतत्पुरुषः, तस्मिन्‌ चित्तविरागे | वा अव्ययं, चित्तविरागे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात्‌ ऊत्‌, उपधायाः इत्यनयोः अनुवृत्तिः | दोषो णौ (६.४.९०) इत्यस्मात्‌ दोषो, णौ इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दोषः अङ्गस्य उपधायाः वा ऊत्‌ णौ चित्तविरागे |


ऊत्‌-आदेशाभावे—

दुष्‌ → हेतुमति च (३.१.२६) → दुष्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) → दोष्‌ + इ → दोषि‌ इति णिजन्तधातुः → दोषयति


दृष्टान्ते एकः पुरुषः अपरस्य पुरुषस्य मनः दूषयति दोषयति वा |


२) सिध्‌-धातुः


सिध्‌ = दिवादिगणे भ्वादिगणे च | लटि सिध्यति, सेधति | अर्थः दिवादिगणे = 1. to be accomplished or fulfilled; 2. to be successful; 3. to reach; 4. to attain one's object; 5. to be proved or established; 6. to be settled or adjudicated; 7. to be thoroughly prepared or cooked; 8. to be won or conquered; भ्वादिगणे = 1. to go; 2. to ward or drive off; 3. to restrain; 4. to interdict; 5. to ordain; 6. to turn out well or auspiciously


सिध्यतेरपारलौकिके (६.१.४९) = अपारलौकिके णौ सिध्यतेः एचः आत्‌ स्यात्‌ | अपारलौकिकस्य (परलोकस्य प्रसङ्गे नास्ति चेत्‌, तस्य) अर्थे सिध्‌-धातोः एचः स्थाने आकार-आदेशो भवति णिचि परे | 'सिध्यतेः' इत्यनेन दिवादिगणीयधातोः एव ग्रहणम्‌ | सिध्यतेः षष्ठ्यन्तम्‌, अपारलौकिके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एचः इत्यनयोः अनुवृत्तिः | क्रीङ्जीनां णौ (६.१.४८) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अपारलौकिके सिध्यतेः एचः आत्‌ णौ |


भोजननिर्माणं, कार्यकरणम्‌, इत्यादीनाम्‌ अर्थे—

सिध्‌ → हेतुमति च (३.१.२६) → सिध्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध्‌ + इ → सिध्यतेरपारलौकिके (६.१.४९) इत्यनेन एचः आत्त्वम्‌ → साध्‌ + इ → साधि इति णिजन्तधातुः → साधयति


तपस्यार्थे—

सिध्‌ → हेतुमति च (३.१.२६) → सिध्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध्‌ + इ → सेधि इति णिजन्तधातुः → सेधयति


३) स्फुर्‌-धातुः


स्फुर् = तुदातिगणे | लटि स्फुरति | अर्थः = 1. (a). to throb; (b). to shake; 2. to twitch; 3. to start; 4. to spring back; 5. to spring or break forth; 6. to start into view; 7. to flash; 8. to shine; 9. to go tremulously; 10. to bruise. Caus.; 1. to cause to throb or vibrate;

2. to cause to shine; 3. to throw; with अप-उपसर्गः to shine forth or out; with अभि-उपसर्गः 1. to spread or be diffused; 2. to become known


चिस्फुरोर्णौ (६.१.५४) = विकल्पेन चि, स्फुर्‌ इति धात्वोः एचः स्थाने आ-आदेशो भवति णौ | णौ इति अनुबन्धरहितत्वेन णिचि णिङि च भवति | चिश्च चिश्च स्फुर्‌ च तयोरितरेच तयोरितरेतरद्वन्द्वः चिस्फुरौ, तयोः चिस्फुरोः | चिस्फुरोः षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एचः इत्यनयोः अनुवृत्तिः | विभाषा लीयतेः (६.१.५१) इत्यस्मात्‌ विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— विभाषा चिस्फुरोः एचः आत्‌ णौ |


आ-आदेशे—

स्फुर् → हेतुमति च (३.१.२६) → स्फुर् + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) → स्फोर्‌ + इ → चिस्फुरोर्णौ (६.१.५४) → स्फार्‌ + इ → स्फारि इति णिजन्तधातुः → स्फारयति


आ-आदेशाभावे—

स्फुर् → हेतुमति च (३.१.२६) → स्फुर् + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) → स्फोर्‌ + इ → स्फोरि इति णिजन्तधातुः → स्फोरयति


४) कॄत्‌-धातुः


कॄत → कीर्त्‌ = चुरादिगणे | कीर्तयति / ते | अर्थः = प्रसिद्धं करोति, स्तुतिं करोति |


अत्र रेफात्‌ प्राक्‌ इकः दीर्घः |


धेयं यत्‌ त्रिषु परिस्थितिषु रेफवकारयोः पूर्वम्‌ इकः दीर्घो भवति | काशिकावृत्तिः अवलोक्यते चेत्‌ निर्देशः स्पष्टः—


र्वोरुपधाया दीर्घः इकः (८.२.७६) = रेफवकारान्तस्य धातोः पदस्योपधाया इको दीर्घो भवति | गीः; धूः; पूः; आशीः |

हलि च (८.२.७७) = हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति | जॄ + श्यन्‌‍ → जीर्यति |

उपधायां च (८.२.७८) = धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति | कॄत्‌ → कीर्तयति |


रेफवकाराभ्यां पूर्वम्‌ इकः दीर्घः


1. पदान्ते--

र्वोरुपधाया दीर्घः इकः (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः— र्वोः धात्वोः | वकारान्तधातवः सन्ति, किन्तु वकारान्तस्य पदस्य धातोरसम्भवात् अनेन सूत्रेण वकारान्तधातोः किमपि कार्यं नास्ति, यस्य फले काशिकायां दत्तमस्ति वकारग्रहणमुत्तरार्थम् | लाघवार्थम्‌ अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात्‌ | र्‌‍ च व्‌ र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, इकः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पदस्य अन्ते र्वोः धात्वोः उपधायाः इकः दीर्घः |


गॄ इति धातुः | गॄ निगरणे तुदादौ, लटि गिरति |


गॄ → गॄ + क्विप् → क्विबन्ता विजन्ता धातुत्वं न जहति इति परिभाषया क्विप्‌-प्रत्ययः संयुज्यते चेदपि धातोः धातु‌-संज्ञा तिष्ठति → क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः → लशक्वतद्धिते (१.३.८) ककारस्य, हलन्त्यम् (१.३.३) पकारस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व्‌ → अपृक्त एकाल् प्रत्ययः (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, वेरपृक्तस्य (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → गॄ [धातुः अपि, प्रातिपदिकम्‌ अपि] → ॠत इद्धातोः (७.१.१००) → गि → उरण्‌ रपरः (१.१.५१) → गिर्‌ → गिर्‌ + सु → गिर्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) → गिर्‌  प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्मात्‌ सुप्तिङन्तं पदम्‌ (१.४.१४) → गिर्‌ इति धातुः अपि, प्रातिपदिकम्‌ अपि, पदम्‌ अपि → र्वोरुपधाया दीर्घः इकः (८.२.७६) → गीर्‌ | तथैव भ्याम्‌, भिस्‌, भ्यस्‌, सु | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यनेन एषां पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा |


ॠत इद्धातोः (७.१.१००) = ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत्‌ गुणः | कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ऋतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ऋतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ |


हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |


स्वादिष्वसर्वनामस्थाने (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | यचि भम्‌ (१.४.१८) इत्यनेन प्रत्ययः अजादिः अथवा यकारादिः चेत्‌, पूर्वतन-शब्दस्वरूपस्य 'भ'-संज्ञा भवति, अतः फलितार्थे यादि-भिन्न-हलादि-प्रत्ययः चेत्‌, पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | स्वौजसमौट् (४.१.२) इत्यस्मात्‌ आरभ्य उरः प्रभृतिभ्यः कप्‌ (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यस्मात्‌ पदम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने पदम्‌ |


यचि भम्‌ (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने यचि भम्‌ |


2. अपदान्ते--

हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— र्वोः धात्वोः उपधायाः इकः दीर्घः हलि |


इदं सूत्रं पदस्य (८.१.१६) इत्यस्य अधिकारे अस्ति; तर्हि पदान्ते एव भवति वा ? 'हलि च' इत्यस्य सामर्थ्येन अपदान्ते इति भवति | झलो झलि (८.२.२६) अपि तथा | यदा कदापि अग्रे निमित्तम्‌ अस्ति, तदा बलात्‌ अपदान्ते इति भवति | यत्र सप्तम्यन्तं निमित्तम्‌ अस्ति, तत्र पदस्य (८.१.१६) इति न गच्छति, यद्यपि तस्य अधिकारे स्यात्‌ |


जॄ + ति → जॄ + श्यन्‌ + ति → जॄ + य + ति → ॠत इद्धातोः (७.१.१००) इत्यनेन ऋदन्तधातोः इत्त्वम्‌ → जि + य + ति → उरण्‌ रपरः (१.१.५१) इत्यनेन ॠदन्तस्य स्थाने यः अण्‌-प्रत्यहारे स्थितः इत्‌, स च रपरो भवति → जिर्‌ + य + ति → हलि च (८.२.७७) इत्यनेन हलि परे रेफान्तधातोः उपधाभूतस्य इकारः दीर्घः → जीर्‌ + य + ति → जीर्यति


अत्र प्रश्नः उदेति, 'हलि' इत्यनेन परसप्तमी, अतः तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यनेन अव्यवहितपूर्वस्य एव कार्यं स्यात्‌; तत्तु अत्र नास्ति | उपधाभूतस्य इकारस्य दीर्घत्वं; कार्यकारणयोः इकारयकारयोः मध्ये रेफो वर्तते अतः अव्यवहितत्वं नास्ति | तथापि कार्यं भवति | किमर्थम् ? 'येन नाव्यवधानं तेन व्यवहितेऽपि' इति वचनप्रामाण्यात्‌ कार्यं सिध्यति | उपधायाः इकः दीर्घः |


तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यनेन अव्यवहितत्वं भवेत्‌, किन्तु यत्र कार्यम्‌ इष्यते अपि च अव्यवहितत्वस्य सम्भावना नास्ति, तत्र व्यवहितेऽपि कार्यं सिध्यति | यथा पुगन्तलघूपधस्य (७.३.८६) इत्यनेन पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः | भ्वादौ बुध्‌ + शप्‌ + ति → पुगन्तलघूपधस्य (७.३.८६) → बोधति | एतादृशेषु स्थलेषु सार्वधातुकार्धधातुकयोः इत्यस्य परसप्तमीत्वं, तथापि गुणो भवति यतोहि अव्यवहितत्वस्य सम्भावना नास्ति | तथैव हलि च (८.२.७७) इत्यस्यापि |


अपदान्ते--

उपधायां च (८.२.७८) = धातूनां यौ उपधाभूतौ रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | सूत्रार्थे 'उपधा'-शब्दः र्वोः इत्यस्य विशेषणं; र्वोः तु षष्ठीद्विवचने अतः 'उपधायां' अपि तथा षष्ठीद्विवचने यद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः; मूलसूत्रे 'र्वोः' षष्ठ्यन्तं 'धातोः' इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः; अत्र 'र्वोः' इत्यनेन सम्बन्धषष्ठी 'इकः' इत्यनेन सह | हलि च (८.२.७७) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन षष्ठ्यन्तं 'हलः' 'धातोः' इत्यस्य विशेषणं, तदन्तविधिश्च | अनुवृत्ति-सहितसूत्रम्‌— हलः धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः |


अत्र प्रश्नः उदेति यत्‌ साक्षात्‌ 'हलि' इति अनुवृत्तिः आनीयते चेत्‌ इष्टः अर्थः सिध्यति किम्‌ ? काशिकाव्याख्यायां 'हल्परौ' इति उपयुज्यते, न तु 'हलि' | द्वयोः मध्ये भेदः कः इति अवलोकनीयम्‌ | 'हलि' इत्यस्य अर्थः परसप्तमी— 'हलि परे' | तत्र हलि च (८.२.७७) इति सूत्रे 'हलि' इत्यस्य कथनेन अर्थः स्पष्टः भवति | 'र्वोः धात्वोः उपधायाः इकः दीर्घः हलि' | जॄ + श्यन्‌‍ → जिर्‌ + य → हलि च (८.२.७७) → जीर्‌ + य | अत्र 'हलि' इत्यनेन न कोऽपि भ्रमः— केवलम्‌ एकस्य वर्णस्य सङ्केतः सम्भवति, नाम धातोः अनन्तरं यः वर्णः | किमर्थमिति चेत्‌, 'र्वोः धात्वोः' इत्यनेन 'रेफान्तधातोः वकारान्तधातोः', षष्ठीविभक्तौ च | 'र्वोः' षष्ठीविभक्तौ, 'हलि' सप्तमीविभक्तौ अतः सामानाधिकरण्यस्य अभावात्‌ वर्णान्तरम्‌ | तस्मात्‌ 'हलि' इत्यनेन धातोः अनन्तरं यः वर्णः इत्येव अर्थः सम्भवति, अनेन च स्पष्टता जायते | इ-र्‌-य्‌ इति इङ्गितम्‌ |


किन्तु उपधायां च (८.२.७८) इति सूत्रे 'हलि' इति अनुवृत्तिः यथावत्‌ आनीयते चेत्‌ समस्या उदेति | काशिकावृत्त्यां 'धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति' | कॄत्‌ → किर्त्‌ → कीर्तयति | हल्परौ इति बहुव्रीहिः— हल् परः यस्मात् सः हल्परः | हलि च इति सूत्रे 'हलि परे' इत्येव अर्थः, किन्तु 'उपधायां च' इति सूत्रे बहुव्रीहिसमासः 'हल्‌ परः आभ्यां', र्वोः इत्यस्य विशेषणं-- हल्परौ इति | अत्र हल्परौ इत्यस्य आशयः, फलितार्थः एवं यत्‌ धातुः हलन्तः अस्ति |


यदि वदामः 'धातोः उपधयोः र्वोः उपधायाः इकः हलि दीर्घः', अनन्वयो भवति | 'उपधयोः र्वोः' इत्यस्य कथनेन एव रेफवकारयोः अनन्तरं कश्चन वर्णो भवति | पुनः 'हलि' इति परसप्तम्या उच्यते चेत्‌, तदनन्तरं कश्चन हल्वर्णः स्यात्‌ न तु अयं तकारः यः 'उपधयोः' कथनेन सिध्यति | एतदर्थम्‌— अस्य वारणार्थं— काशिकाकारः हल्परौ इति उपयोगं करोति; अनेन इष्टं सामानाधिकरण्यं सिध्यति |


अत्र प्रष्टुं शक्यते, यदि 'उपधयोः' इत्यस्य कथनेन तकारः सिध्यति, तर्हि पुनः 'हल्‌' इति उल्लेखस्य का आवश्यकता ? रेफवकारयोः अनन्तरं स्वरः न स्यात्‌; तस्य च स्वरस्य वारणार्थं 'हल्‌' इति वदनम्‌ आवश्यकम्‌ | किन्तु 'हलि' इत्यनेन परसप्तमी उच्यते चेत्‌, पुनः धातोः अनन्तरम्‌ अन्यस्य हल्‌-वर्णस्य इङ्गितं भवति, न तु रेफवकारयोः अनन्तरं यः पूर्वोक्तः तकारः |


तर्हि अत्र हल्परौ इति कथनेन 'हलन्तधातोः' इति फलितार्थः | हल्परौ इति नूतनशब्दस्य संयोजनेन विना इष्टम्‌ अर्थम्‌ साधयितुम्‌ इच्छामः चेत्‌, 'धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः', इत्यस्मिन्‌, धातोः इति अनुरोधेन 'हलि' इत्यस्य अपि षष्ठ्यन्तत्वेन परिणामः कर्तव्यः | आहत्य, 'हलः धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः' इति उच्यते चेत्‌, सामानाधिकरण्यत्वेन इष्टः अर्थः सिद्धो भवति | इत्थञ्च 'हलः' इत्यनेन यः वर्णः अभिलक्षितः, पुनः 'उपधयोः' इत्यनेन रेफवकारयोः अनन्तरं यः वर्णः अभिलक्षितः, द्वयोः सङ्गमनम्‌ |


निगमनम्‌ एवं यत्‌ 'उपधयोः' इत्यस्य कथनेन एव रेफवकारयोः अनन्तरम्‌ अन्यः वर्णः अस्ति | ततः अग्रे पुनः 'हलि' संयुज्यते चेत्‌, 'हलि' 'उपधयोः रेफवकारयोः अनन्तरम्‌ यः वर्णः', अनयोः अन्वयः नास्ति इत्यस्मात्‌ 'हलि' इति कथनेन अन्यः वर्णः | अस्य निवारणार्थं काशिकायां 'धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति' इत्युक्तम्‌ | अस्मिन्नेव अर्थे अनुवृत्ति-सहितसूत्रम्‌ एवं, 'हलः धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः' |


लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यम्‌ | न तु विपरीतम्— 'सूत्रार्थानुगुणं लक्ष्यं भवति' इति नास्ति | तदर्थं कुत्रचित्‌ अनुवृत्त्यानयनावसरे विभक्तिपरिणामः, वचनपरिणामः च आवश्यकः भवति | लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनम्‌ इति आशये काशिकायां 'धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति' | 'हल्परौ' इत्यस्य स्थाने 'हलः' भवति चेत्‌ अनुवृत्तिसहितसूत्रे, फलितार्थः एक एव समानः |


उपधायां च (८.२.७८) इत्यस्य अन्यत्‌ उदाहरणम्‌—


कुर्द भ्वादौ = क्रीडति, नृत्यति


कुर्द → कुर्द्‌         उपदेशेऽजनुनासिक इत् (१.३.२)

कुर्द्‌ → कूर्द्‌         उपधायां च (८.२.७८)

कूर्द्‌ + शप्‌ + ते → कूर्दते


तथैव खुर्द → खूर्द्‌, गुर्द‌ → गूर्द्‌ |


प्रकृतविषये चुरादिगणीयः कॄत्‌-धातुः—


कॄत्‌ → कित्‌         उपधायाश्च (७.१.१०१)

कित्‌ → किर्त्‌        उरण रपरः (१.१.५१)

किर्त्‌ → कीर्त्‌‍        उपधायां च (८.२.७८)

कॄत्‌ + णिच्‌ → कीर्ति इति धातुः

कीर्ति + शप्‌ → कीर्तय इति अङ्गम्‌

कीर्तय + ति/ते → कीर्तयति/कीर्तयते


उपधायाश्च (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | ॠत इद्धातोः (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः अङ्गस्य उपधायाश्च ॠतः इत्‌ |


ॠत इद्धातोः (७.१.१००), उपधायाश्च (७.१.१०१) इति सूत्रयोः अनुवृत्तिसहितसूत्रे अन्वयः च शब्दक्रमश्च भिन्नः | तस्य कारणं किमिति वक्तव्यम्—


ॠत इद्धातोः (७.१.१००) = ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ |


उरण्‌ रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उः स्थाने अण्‌ रपरः |


C. आगमाः


१) रध्‌, जभ्‌-धातू


रध हिंसासंराद्धयोः = दिवादिगणे | लटि रध्यति | अर्थः = 1.to hurt; 2.to subdue; 3.to become subject to (any one); 4.to die; 5.to be completed. Caus. 1.to hurt; 2.to oppress; 3.to dress

जभी गात्रविनामे = भ्वादिगणे | लटि जभति / ते | अर्थः = P. 1. to copulate. A. 1.to yawn; caus. 1.A; jambhayati


उपदेशे अयं मूलधातुः जभी इति ईकारः अनुबन्धः न तु इकारः, अतः इदितो नुम्‌ धातोः (७.१.५८) इत्यनेन नुम्‌-आगमो न भवति | परन्तु विशिष्टसूत्रम्‌ अस्ति येन रध्‌, जभ्‌ अनयोः धात्वोः नुम्‌-आगमो विहितः |


रधिजभोरचि (७.१.६१) = रध्‌, जभ्‌ अनयोः धात्वोः नुम्‌-आगमो भवति अजादि-प्रत्यये परे | अङ्गस्य (६.४.१) इत्यनेन अङ्गकार्यम्‌ इदम्‌ अतः अचि इत्युक्तौ अजादि-प्रत्यये परे | रधिश्च जभ्‌ च तयोरितरेतरयोगद्वन्द्वः रधिजभौ, तयोः रधिजभोः | रधिजभोः षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌, धातोः इत्यनयोः अनुवृत्तिः (वचनपरिणामं कृत्वा धात्वोः) | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रधिजभोः धात्वोः अङ्गयोः नुम्‌ अचि |


रध्‌ → हेतुमति च (३.१.२६) → रध्‌ + णिच्‌ → रधिजभोरचि (७.१.६१) → रन्ध्‌ + इ → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अनुस्वारादेशः → रंध्‌ + इ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन परसावर्ण्यम्‌ → रन्ध्‌ + इ → रन्धि इति णिजन्तधातुः → रन्धयति


जभ्‌ → हेतुमति च (३.१.२६) → जभ्‌ + णिच्‌ → रधिजभोरचि (७.१.६१) → जन्भ्‌ + इ → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अनुस्वारादेशः → जंभ्‌ + इ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन परसावर्ण्यम्‌ → जम्भ्‌ + इ → जम्भि इति णिजन्तधातुः → जम्भयति


नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |


२) रभ्‌-धातुः


रभ राभस्ये = भ्वादिगणे | लटि रभते; आ-उपसर्गपूर्वकः आरभ्‌, आरभते | अर्थः = आरम्भं करोति | 1.to begin; 2.to clasp; 3.to long for; 4.to act rashly |


रभेरशब्लिटोः (७.१.६३) = रभ्‌-धातोः नुमागमो भवति अजादिप्रत्यये परे; किन्तु शप्‌, लिट्‌ परश्चेत्‌ न भवति | शप्‌ च लिट्‌ च शब्लिटौ, न शब्लिटौ अशब्लिटौ, तयोः अशब्लिटोः, द्वन्द्वगर्भो नञ्तत्पुरुषः | रभेः षष्ठ्यन्तम्‌, अशब्लिटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌, धातोः इत्यनयोः अनुवृत्तिः | रधिजभोरचि (७.१.६१) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रभेः धातोः अङ्गस्य नुम्‌ अचि अशब्लिटोः |


रभ्‌ → हेतुमति च (३.१.२६) → रभ्‌ + णिच्‌ → रभेरशब्लिटोः (७.१.६३) → रन्भ्‌ → नश्चापदान्तस्य झलि (८.३.२४) → रंभ्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → रम्भ्‌ + इ → रम्भि इति णिजन्तधातुः → रम्भयति


परन्तु भ्वादौ शपि परे न नुमागमः—

रभ्‌ + शप्‌ + ते → रभते


३) लभ्‌-धातुः


डुलभष्‌ प्राप्तौ = भ्वादिगणे | लटि लभते | अर्थः = स्वीकरोति, गृह्णाति, प्राप्नोति |


लभेश्च (७.१.६४) = लभ्‌-धातोः नुमागमो भवति अजादिप्रत्यये परे; किन्तु शप्‌, लिट्‌ परश्चेत्‌ न भवति | पृथक्‌ सूत्रम्‌ अग्रे अनुवृत्तेः कृते | लभेः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌, धातोः इत्यनयोः अनुवृत्तिः | रधिजभोरचि (७.१.६१) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | रभेरशब्लिटोः (७.१.६३) इत्यस्मात्‌ अशब्लिटोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लभेः च धातोः अङ्गस्य नुम्‌ अचि अशब्लिटोः |


लभ्‌ → हेतुमति च (३.१.२६) → लभ्‌ + णिच्‌ → लभेश्च → लन्भ्‌ → नश्चापदान्तस्य झलि (८.३.२४) → लंभ्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्भ्‌ + इ → लम्भि इति णिजन्तधातुः → लम्भयति


परन्तु भ्वादौ शपि परे न नुमागमः—

लभ्‌ + शप्‌ + ते → लभते


४) क्नूयी क्ष्मायी-धातू


क्नूयी = भ्वादौ | निरनुबन्धधातुः क्नूय् | क्नूय इति अङ्गम्‌‍ | लटि क्नूयते | अर्थः = आर्द्रः भवति; दुर्गन्धं करोति

क्ष्मायी = भ्वादौ | निरनुबन्धधातुः क्ष्माय्‌ | क्ष्माय इति अङ्गम्‌‍ | लटि क्ष्मायते | अर्थः = कम्पते


अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) = ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्‌-आगमः भवति, णिच्‌-प्रत्यये परे | एषां धातूनां पुक्‌-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्‌), णि इत्युक्ते णिच्‌ इत्यतः णिच्‌-प्रत्यये परे इत्यर्थः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः परम्‌ आयाति अयं पुगागमः | पुक्‌ इत्यस्मिन क्‌, उ इत्यनयोः इत्‌-संज्ञा लोपश्च; प्‌ अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक्‌ प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम्‌ अङ्गानां पुक्‌ णौ |


पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यस्मात्‌ परिभाषा-सूत्रात्‌ इकः आयाति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


लोपो व्योर्वलि (६.१.६६) = वल्‌-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— व्योः लोपः वलि |


क्नूयी → हेतुमति च (३.१.२६) → क्नूय्‌ + णिच्‌ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) → क्नूय्‌ + पुक्‌ + णिच्‌ → क्नूय्‌ + प्‌‌ + इ → पुक्‌ वलादिः अतः लोपो व्योर्वलि (६.१.६६) इत्यनेन यकार-लोपः → क्नू + प्‌ + इ‌ → क्नूप्‌ + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → क्नोप्‌ + इ → क्नोपि → सनाद्यन्ता धातवः → क्नोपि + शप्‌ + ति → क्नोपयति


क्ष्मायी → हेतुमति च (३.१.२६) → क्ष्मायी + णिच्‌ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) → क्ष्माय्‌ + पुक्‌ + णिच्‌ → क्ष्माय्‌ + प्‌‌ + इ → पुक्‌ वलादिः अतः लोपो व्योर्वलि (६.१.६६) इत्यनेन यकार-लोपः → क्ष्मा + प्‌ + इ‌ → क्ष्माप्‌ + इ → क्ष्मापि → सनाद्यन्ता धातवः → क्ष्मापि + शप्‌ + ति → क्ष्मापयति


भ्वादौ शपि परे 'अ' वलि नास्ति इत्यतः यकारलोपो न जायते—

क्नूय् → क्नूय् + शप्‌ → क्नूयते

क्ष्माय्‌ → क्ष्माय्‌ + शप्‌ → क्ष्मायते


D. ह्रस्वत्वम्‌


१) अदन्तधातवः


चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम्‌ अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशेऽजनुनासिक इत् इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्‌-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः एकं सूत्रम्‌ अस्ति अतो लोपः, यस्य द्वारा अकार-लोपः सिध्यति—


अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |


णिच्‌-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्‌, अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिः भवति |


यथा—


कथ + णिच्‌ → कथ्‌

गृह + णिच्‌ → गृह्‌


इदानीं कथ्‌ इति धातुः अस्ति, गृह्‌ इति धातुः अस्ति | अस्यां दशायां कथ्‌-धातोः उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्‌-धातोः उपधायां लघु-इकः गुणः |


अत उपधायाः (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे |


आभ्यां सूत्राभ्यां कार्यम्‌ अभविष्यत्‌ | परन्तु धातुः अदन्तः चेत्‌, इमे सूत्रे प्रबाध्य अन्यत्‌ सूत्रं कार्यं करोति—


अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात्‌ स्थानिवत्‌, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌— अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ |


इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः लोपः स्थानिवत्‌ नाम ह्रस्व-अकारः इव | अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या कथ्‌-धातुः 'कथ' इतिवत्‌ दृश्यते | तस्मात्‌ उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—


कथ + णिच्‌ → अतो लोपः → कथ्‌‍ + णिच्‌ → अत उपधायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → अचः परस्मिन्‌ पूर्वविधौ → कथ्‌ धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → अत उपधायाः इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति |


चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र—

कथ्‌ + णिच्‌ → कथि + शप्‌ → कथयति/ते

गण्‌ + णिच्‌ → गणि + शप्‌ → गणयति/ते

क्षिप्‌ + णिच्‌ → क्षिपि + शप्‌ → क्षिपयति/ते

पुट्‌ + णिच्‌ → पुटि + शप्‌ → पुटयति/ते

गृह्‌ + णिच्‌ → गृहि + शप्‌ → गृहयति/ते


अत्र प्रश्नः उदेति यत्‌ कथ्‌ + णिच्‌ इति स्थले अत उपधायाः (७.२.११६) इत्यनेन यः वृद्ध्यादेशः, गृह् + णिच्‌ इति स्थले च पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यः गुणादेशः, द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति तु सत्यं किन्तु स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रेण किमर्थं न स्यात्‌ ? अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति विशिष्टसूत्रस्य का आवश्यकता ? इति चेत्‌, प्रथमतया स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रस्य पुनस्स्मरणम्‌ अत्र सम्यक्‌ रीत्या भवेत्‌ | तदा अग्रे पठनीयम्‌ |


अत्र सङ्क्षेपे परिशील्यते यत्‌ अस्यां दशायां स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः जायते न वा—


कथ + णिच्‌ → अतो लोपः (६.४.४८) → कथ्‌ + णिच्‌ → अत उपधायाः (७.२.११६)


अत उपधायाः (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्—अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |


अत्र अत उपधायाः (७.२.११६) इत्यनेन यः वृद्धि-आदेशः, अयं विधिः अल्विधिः अस्ति किम्‌ ? यस्य स्थानिवद्भावः क्रियते, सः कः ? कथ-धातोः थकारोत्तरवर्ती अकारः | अल्विधिः नाम पूर्वं यः स्थानी आसीत्‌ (कथ-धातोः धात्वन्तः अकारः), तस्य च अकारस्य अस्मिन्‌ वृद्धि-कार्ये निमित्तत्वम्‌ अस्ति किम्‌ ? अत उपधायाः (७.२.११६) इत्यस्य यत्‌ कार्यं वृद्ध्यादेशः; तं वृद्धिं प्रति धात्वन्ताकारः निमित्तम्‌ अस्ति किम्‌ ? तर्हि अस्य सूत्रस्य निमित्तानि कानि ? उपधायाम्‌ अत्‌-वर्णः, परश्च ञित्‌, णित्‌ प्रत्ययः | चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति | 'अला विधिः' (तृतीयतत्पुरुषः), 'अलः विधिः' (पञ्चमीतत्पुरुषः), 'अलः विधिः' (षष्ठीतत्पुरुषः), 'अलि विधिः' (सप्तमीतत्पुरुषः) | अला विधिः—स्थानिवद्भावानन्तरं यः अकारः आगतः, तम्‌ अकारं निमित्तिकृत्य वृद्धिः जायते वा ? नास्ति | अलः विधिः—तस्मात्‌ एव धात्वन्त-अकारात् परं कार्यं क्रियते वा ? न | अलः विधिः—तस्य च अकारस्य स्थाने कार्यं क्रियते वा ? न हि | स्थानिवद्भावेन यः अकारः आगतः, तस्मिन्‌ परे कार्यं क्रियते वा ? तदपि नास्ति | स्थानिवद्भावेन यः अकारः, स च निमित्तीभूतो नास्ति | अतः अल्विधिः नास्ति |


इत्थञ्च अल्विधिः नास्ति | नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः, अकारत्वं यत्‌ अध्यारोपितं भवति आदेशे लोपे, तेन अकारत्वेन अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः जायते इति नास्ति | अपि तु  विपरीतम्‌—स च अकारः अस्ति चेत्‌, वृद्धिकार्यं न जायते | अकारः अल्‌ तु अस्ति, परन्तु तस्य इदं कार्यं प्रति निमित्तत्वं नास्ति | अतः अल्विधिः न मन्यते |


स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रं किं सूचयति ? (१) आदेशः स्थानिवत्‌ भवति; (२) परन्तु अल्विधिः अस्ति चेत्‌, आदेशः स्थानिवत्‌ न भवति—नाम स्थानिवद्भावनिषेधः | अत्र कथ-धातोः प्रसङ्गे उक्तं यत्‌ अत उपधायाः (७.२.११६) इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः नास्ति | अतः स्थानिवद्भावनिषेधः नास्ति | स्थानिवद्भावनिषेधस्य अभावे स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रेण स्थानिवद्भावः स्यात्‌ | अपि च कथ-धातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृधिकार्यस्य निवारणार्थम्‌ | अल्विधिः नास्ति चेत्‌ स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावः भवेत्‌, किन्तु केनचित्‌ कारणेन न भवति इति जानीमः यतोहि अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन एव भवति | तर्हि अल्विध्यभावे स्थानिवदादेशोऽनल्विधौ (१.१.५६) द्वारा स्थानिवद्भावः न सिद्धः अस्य च अन्यत्‌ कारणं स्यात्‌—‌तच्च किम् ?


अत्र—‌कथ-धातोः प्रसङ्गे—‌स्थानिवद्भावः अपेक्षितः इति तु सत्यम्‌ | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रेण किमर्थं न स्यात्‌ इति चेत्‌, अनेन सूत्रेण तत्रैव स्थनिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात्‌ | नाम अभावरूपकार्यं न स्यात्‌ अपि तु किमपि विधानं स्यात्‌ | निषेधरूपं यत्‌ कार्यं, तत्‌ अभावरूपकार्यं, तच्च अशास्त्रीयं कार्यम्‌ इति उच्यते | अत्र 'अशास्त्रीयम्‌' उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव | 'शास्त्रस्य अप्रवृत्तिः' इति अशास्त्रीयं, न तु शास्त्रविरुद्धत्वम् |  


प्रकृतौ कथ्‌ + णिच्‌ इति स्थितौ स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिध्यति, वृद्धिः न भविष्यति | वृद्धिविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति | अतः इदम्‌ अशास्त्रीयकार्यम्‌ | अशास्त्रीयकार्यकरणसमये स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः न भवति इति नियमः |   


कथ-धातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत्‌, "अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः | तत्र कथदातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति | तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह—अल्लोपस्य स्थानिवद्भावादिति | अचः परस्मिन्नित्यनेनेति भावः | अत्रेदमवधेयं—स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः |” ‘यत्तु' इत्यनेन 'यत्‌ कार्यं तु' इति बोध्यम्‌ | ‘व्याघातः' इत्यनेन विनाशः | निमित्तस्य व्याघातात्‌ विधिः न जायते‌ चेत्‌, तद्विहितकार्यस्य अभावात्‌, शास्त्रप्रवृत्त्यभावात्‌, अशास्त्रीयत्वात्‌, तादृशस्थले स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन अतिदेशः—स्थानिवद्भावः—न भवति |  


अस्य सर्वस्य श्रवणानन्तरमपि यदि कोऽपि न मन्यते यत्‌ अशास्त्रीयप्रसङ्गे स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः न भवेत्‌, तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत्‌ समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमायाम्‌ अग्रे उच्यते—"अन्यथा 'नायक' इत्यत्र ईकारस्थानिकस्य ऐकारस्य आयादेशानापत्तेः | ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् । अचः परस्मिन्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् |" अशास्त्रीयप्रसङ्गे आयादेशानापत्तेः स्थानिवद्भावः मन्यते चेत्‌ समस्या प्रमाणिता | ऐकारे अतिदेशप्रसङ्गात् आयभावस्य दृष्टत्वेन स्थानिवद्भावः न करणीयः | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः अशास्त्रीये कार्ये न भवति इति ज्ञेयम्‌ |


नी + ण्वुल्‌ → युवोरनाकौ (७.१.१) इत्यनेन वु-स्थाने अक-आदेशः → अचो ञ्णिति (७.२.११५) इत्यनेन धात्वन्ते अचः वृद्धिः → नै + अक → एचोऽयवायावः (६.१.७७) इत्यनेन आय्‌-आदेशः → नाय्‌ + अक → नायक | नायकः |


अत्र यदि स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण ऐकारस्य स्थानिवद्भावः स्यात्‌ तर्हि 'नी + अक' इति दृश्येत | तथा भवति चेत्‌ एचोऽयवायावः (६.१.७७) इत्यनेन आय्‌-आदेशः न स्यात्‌ | ईकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्‌, तत्र स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |   


प्रकृतौ स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः न भविष्यति, नाम अशास्त्रीयकार्यम्‌ | अतः अत्र स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावः न भवति अपि तु सूत्रान्तरेण अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन |


अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति सूत्रेण अशास्त्रीये स्थानिवद्भावः जायते | कार्यं अशास्त्रीयं भवेत्‌ इति न; शास्त्रीयेऽपि अस्य प्रसक्तिः प्राप्तिः  च जायते  | एवमेव विधिः अल्विधिः भवेत्‌ इति न; अल्विधिः चेदपि भवति, अनल्विधिः अस्ति चेदपि भवति | प्रकृतौ कार्यम्‌ अनल्विधिः, अशास्त्रीयं च | अनल्विधिः इति कारणतः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म, किन्तु अनल्विधिः चेदपि अन्यकारणात्‌—अशास्त्रीयत्वात्‌—न जातः | अशास्त्रीयत्वात्‌, अनल्विधिः स्थानिवद्भावः भवति अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति सूत्रेण |


तर्हि स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन अल्विधिः अस्ति चेत्‌, स्थानिवद्भावः न भवति; अल्विधिः अस्ति चेदपि अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावः भवति इति तु सत्यं किन्तु अल्विधिः भवेदेव इति नास्ति, यथा अत्र प्रकृतौ | अत्र अल्विधिः अस्ति इति कृत्वा स्थानिवद्भावस्य साधनार्थम्‌ अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यस्य आवश्यकता इति नास्ति; अल्विधिरेव नास्ति |


ण्वुल्तृचौ (३.१.१३३) = धातुतः ण्वुल्‌ तृच्‌ च विहितौ | कर्तरि कृत्‌ (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल्‌ च तृच्‌ च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम्‌ एकं पदमिदं सूत्रम्‌ | धातोः, प्रत्ययः, परश्च इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |


युवोरनाकौ (७.१.१) = अङ्गात्‌ परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | युश्च वुश्च तयोः समाहारद्वन्द्वः युवुः, तस्य युवोः युवोः षष्ठ्यन्तं, अनाकौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अङ्गस्य इत्यस्य अधिकारः, अत्र पञ्चमीविभक्तौ | अनुवृत्ति-सहित-सूत्रम्— अङ्गात्‌ युवोः अनाकौ |


अचो ञ्णिति (७.२.११५) = अङ्गम्‌ अजन्तं चेत्‌, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य अचः वृद्धिः ञ्णिति | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |


*अतो लोपः (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम्‌ उपदेशे इत्युक्तम्‌ | उत्तरम्‌ एवं यत्‌ अनुवृत्तौ उपदेशे इति यदि नाभविष्यत्‌, तर्हि कासुचित्‌ स्थितिषु (अनुपदेशावस्थायाम्‌) इष्टं रूपं न प्राप्स्यत्‌ | यथा— भ्वादिगणे अय्‌ गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप्‌ |


अय्‌ + क्विप्‌ → अनुबन्धलोपे → अय्‌ + व्‌ → लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः → अ + व्‌ → अतो लोपः (६.४.४८) इत्यनेन अ-लोपः, वेरपृक्तस्य (६.१.६६) इत्यनेन व्‌-लोपः → शून्यम्‌ अवशिष्यते |


अतः उपदेशे नास्ति चेत्‌ इष्टं रूपं न प्राप्यते | उपदेशे अस्ति चेत्‌ अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |


अ + व्‌ → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७०) इत्यनेन तुक्‌-आगमः → अत्‌ + व्‌ → वेरपृक्तस्य (६.१.६६) इत्यनेन व्‌-लोपः → अत्‌ इति इष्टं रूपं प्राप्तम्‌ |


२) मित्‌ धातवः


भ्वादिगणे चुरादिगणे केचन अदुपधधातवः सन्ति येषाम्‌ उपधायाम्‌ अतः वृद्धिः भवति अत उपधायाः इत्यनेन, तदा मितां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति | एते मित्‌ धातवः इत्युच्यन्ते |


अत उपधायाः (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |


भ्वादिगणे घटादयो मितः इत्यनेन घट्‌ आदि येषां, तेषां धातुसमूहस्य नाम घटादयः | अष्टात्रिंशत्‌ धातवः सन्ति अस्मिन्‌ अन्तर्गणे (चक्‌, कख्‌, अग्‌, कग्‌, रग्‌, लग्‌, षग्‌, ष्टग्‌, ह्वग्‌, घट्‌, णट्‌ ...) |


घट्‌ + णिच्‌ → अत उपधायाः → घाट्‌ + इ → घाटि → मितां ह्रस्वः → घटि → घटयति

व्यथ्‌ + णिच्‌ → अत उपधायाः → व्याथ्‌ + इ → व्याथि → मितां ह्रस्वः → व्यथि → व्यथयति

प्रस्‌ + णिच्‌ → अत उपधायाः → प्रास्‌ + इ → प्रासि → मितां ह्रस्वः → प्रसि → प्रसयति


चुरादिगणे नान्ये मितोऽहेतौ इत्यनेन षट्‌ धातवः सन्ति (ज्ञप्‌, यम्‌, चह्‌, रह्‌, बल्‌, चिञ्‌) | एषामपि उपधायाम्‌ अतः वृद्धिः भवति अत उपधायाः इत्यनेन, तदा मितां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति | एते मित्‌ धातवः इत्युच्यन्ते |


यथा—

ज्ञप्‌ + णिच्‌ → अत उपधायाः → ज्ञाप्‌ + इ → ज्ञापि → मितां ह्रस्वः → ज्ञपि → ज्ञपयति

यम्‌ + णिच्‌ → अत उपधायाः → याम्‌ + इ → यामि → मितां ह्रस्वः → यमि → यमयति


उपर्युक्तयोः द्वयोः गणयोः ये धातवः सन्ति, ते नित्य-मित्‌ धातवः | अन्ये धातवः सन्ति ये नित्य-मित्‌ न सन्ति; केषुचित्‌ निर्दिष्टेषु अर्थेषु मित्‌ सन्ति, अपरेषु अर्थेषु एते मित्‌ न सन्ति | एते मित्‌ धातवः केवलं भ्वादौ चुरादौ इति न; अपरेषु गणेषु अपि सन्ति, यथा दिवादिगणे, क्र्यादिगणे च | सर्वे अदुपधधातवः अपि न सन्ति | केचन अजन्तधातवः सन्ति यथा दॄ क्र्यादिगणे, दरयति दारयति वा भवति | अन्यत्‌ उदाहरणं मदी धातुः, दिवादिगणे | हर्षार्थे मित्‌ अस्ति अतः अत उपधायाः इत्यनेन वृद्धिः मद्‌ + णिच्‌ → मादि → मितां ह्रस्वः → मदि → मदयति | अपरेषु अर्थेषु अमित्‌ अतः मद्‌ + णिच्‌ → मादि → मादयति | एवं रीत्या अनेके धातवः सन्ति ये अर्थम्‌ अवलम्ब्य मित्‌ सन्ति |


परिसमाप्तिः


अनेन प्रेरणार्थे णिच्‌-प्रकरणं समाप्तम्‌ | सामान्यधातूनां किं किं कार्यं भवति इत्यस्माभिः दृष्टम्‌ | तत्र अचो ञ्णिति, अत उपधायाः, पुगन्तलघूपधस्य च इति सूत्रत्रयेण कार्यं साधितम्‌ | सामान्येषु पुगागमः अपि दृष्टः | तदा अजन्तधातूनां विशेषरूपाणि परिशीलितानि | तत्र पुक्‌, युक्‌, लुक्‌, जुक्‌, षुक्‌ इत्यागमाः वीक्षिताः | परं हलन्तधातूनां विशेषेषु कुत्र व्‌, त्‌, प्‌, घ्‌ इत्यादयाः आदेशाः विहिताः, अनन्तरं कुत्र नुमागमः पुगागमः च विहितः इत्यपि अवलोकितम्‌ | अधुना णिच्‌-प्रसङ्गे सर्वमेव जानन्ति | एवम्‌ एकोऽपि धातुः न वर्तते यस्य णिजन्तरूपम्‌ अस्माभिः न ज्ञायेत |


Swarup – June 2013 (updated May 2017)

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].