7---ArdhadhAtukaprakaraNam/06---AshIrling-parasmaipade: Difference between revisions

added the rest of the page
(added part of the page)
(added the rest of the page)
Line 153:
<u>तिङ्‌-प्रत्ययसिद्धिः</u>
 
 
<u>परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः</u>
 
 
 
तिप्‌     तस्‌    झि
 
सिप्‌    थस्‌     थ
 
मिप्‌    वस्‌    मस्‌‍
 
 
 
'''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति | तर्हि यासुट्‌-आगमः तिङ्‌-प्रत्ययानामेव अस्ति; अयञ्च आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१ .४६) इत्यनेन प्रत्ययात्‌ प्राक्‌ आयाति |
 
 
 
<u>सूत्राणि</u>
 
 
१) '''इतश्च''' (३.४.१००) = ङित्‌-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्‌प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति |
 
२) '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः |
 
३) '''झेर्जुस्‌''' (३.४.१०८) = लिङ्‌-लकारस्य झि इत्यस्य स्थाने जुस्‌-आदेशो भवति |
 
४) '''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति |
 
 
 
विचन्त्य सिद्धतिङ्प्रत्ययान्‌ व्युत्पादयामः—
 
 
तिप्‌ → यासुट्‌ + तिप्‌ → यास्‌ + ति → '''इतश्च''' (३.४.१००) इत्यनेन इकारलोपः → यास्‌ + त्‌ → यास्त्‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → यात्‌
 
 
तस्‌ → यासुट्‌ + तस्‌ → यास्‌ + तस्‌ → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु तस्‌ इत्यस्य स्थाने ताम्‌ → यास्‌ + ताम्‌ → 'स्त्‌' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्ताम्‌
 
 
झि → यासुट्‌ + झि → यास्‌ + झि → '''झेर्जुस्‌''' (३.४.१०८) इत्यनेन लिङ्‌-लकारस्य झि-स्थाने जुस्‌-आदेशः → यास्‌ + जुस्‌ → अनुबन्धलोपे → यास्‌ + उस्‌ → वर्णमेलने → यासुस्‌ → रुत्वविसर्गौ → यासुः
 
 
सिप् → यासुट्‌ + सिप् → यास्‌ + सि → '''इतश्च''' (३.४.१००) इत्यनेन इकारलोपः → यास्‌ + स् → वर्णमेलने → यास्स्‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → यास्‌ → रुत्वविसर्गौ → याः
 
 
थस्‌ → यासुट्‌ + थस्‌ → यास्‌ + थस्‌ → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु थस्‌ इत्यस्य स्थाने तम्‌ → यास्‌ + तम्‌ → 'स्त्‌' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्तम्‌
 
 
थ → यासुट्‌ + थ → यास्‌ + थ → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु थ इत्यस्य स्थाने त → यास्‌ + त → 'स्त्‌' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्त
 
 
मिप्‌ → यासुट्‌ + मिप्‌ → यास्‌ + मि → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु मिप्‌ इत्यस्य स्थाने अम्‌ → यास्‌ + अम्‌ → वर्णमेलने → यासम्‌
 
 
वस्‌ → यासुट्‌ + वस्‌ → यास्‌ + वस्‌ → '''नित्यं ङितः''' (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास्‌ + व → वर्णमेलने → यास्व
 
 
मस्‌ → यासुट्‌ + मस्‌ → यास्‌ + मस्‌ → '''नित्यं ङितः''' (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास्‌ + म → वर्णमेलने → यास्म
 
 
 
आशीर्लिङः प्रत्ययसिद्धिबोधो यदा मनसि आगतः, तदा अग्रे गमनात्‌ प्राक्‌ एकवारं तुलनात्मकदृष्ट्या परिशील्यतां विधिलिङः सिद्धतिङ्‌प्रत्ययाः | अदन्ताङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः; अनदन्ताङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः | त्रिषु स्थलेषु साम्यं कुत्र भेदश्च कुत्र इति द्रष्टव्यम्‌ |
 
 
 
'''इतश्च''' (३.४.१००) = ङित्‌-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्‌प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (इकारस्य) लोपः न तु पूर्णप्रत्ययस्य | '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात्‌ '''लोपः''', '''परस्मैपदेषु''' इत्यनयोः अनुवृत्तिः | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ङितः लस्य इतः परस्मैपदस्य लोपः''' |
 
 
 
'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |
 
 
 
'''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः | तश्च थश्च थश्च मिप्‌ च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम्‌ | ताम्‌ च तम्‌ च तश्च अम्‌ च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ङितः लस्य तस्थस्थमिपां तान्तन्तामः''' |
 
 
 
'''झेर्जुस्‌''' (३.४.१०८) = लिङ्‌-लकारस्य झि इत्यस्य स्थाने जुस्‌-आदेशो भवति | झेः षष्ठ्यन्तं, जुस्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः लस्य झेः जुस्‌''' | '''झोऽन्तः''' (७.१.३) इत्यस्य अपवादः |
 
'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्‌, ङितः षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |
 
 
 
एवञ्च परस्मैपदे सिद्धतिङ्‌-प्रत्ययाः एते—
 
 
यात्‌       यास्ताम्‌     यासुः
 
याः        यास्तम्‌      यास्त
 
यासम्‌     यास्व        यास्म
 
 
 
<u>अतिदेशः</u>
 
 
 
लिङ्लकारे यासुट्‌-आगमः ङिद्वत्‌ इत्युक्तं '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इति सूत्रेण | किन्तु तदग्रिमे सूत्रे ('''किदाशिषि''') उच्यते यत्‌ आशीर्लिङि स च यासुट्‌ कित्‌ भवति | अतः '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङि यासुट्‌-आगमस्य ङित्त्वं सामान्यातिदेशः; '''किदाशिषि''' (३.४.१०४) तस्य अपवादः |
 
'''किदाशिषि''' (३.४.१०४) = आशिषि लिङ: यासुट् कित् | आशीर्लिङ्लकारस्य परस्मैपदेषु प्रत्ययेषु यः यासुट् आगमो भवति, सः कित् भवति | काशिकाकारो वदति यत्‌ वस्तुतः प्रत्ययस्यैव कित्त्वं भवति आगमस्य कित्त्वप्रयोजनाभावात्‌; अतः फलितार्थः एवं यत्‌ प्रत्ययस्य कित्त्वम्‌ | कित् प्रथमान्तम्‌, आशिषि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ '''लिङः''' इत्यस्य अनुवृत्तिः | '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यस्मात्‌ '''परस्मैपदेषु''', '''यासुट्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''आशिषि लिङ: परस्मैपदेषु यासुट् कित्''' |
 
 
 
धेयं यत्‌ तृतीयाध्याये सर्वत्र एते अधिकाराः अनुवर्तन्ते— '''प्रत्यय:''' (३.१.१) , '''परश्च''' (३.१.२), '''धातो:''' (३.१.९१), '''लस्य''' (३.४.७७)
 
आशीर्लिङि गुणनिषेधः अपेक्षते | '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन यासुट्‌ ङित्‌ भवति; ङित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः सिध्यति | तर्हि कित्त्वस्य किमर्थम्‌ आवश्यकता ? कित्त्वेन न केवलं '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः सिध्यति, अपि तु '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्‌, अपि च '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन जागृ-धातोः प्रसङ्गे गुणः भवति न तु गुणनिषेधः |
 
 
 
'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्‌, णल्‌, ङित्‌ इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण्‌ इति लुङ्‌-लकारस्य, णल्‌ इति लिट्‌-लकारस्य, ङित्‌ इत्यनेन इत्‌-संज्ञकः ङकारः यस्य | वि, ङित्‌ इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्‌, णल्‌ इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण्‌ च णल्‌ च ङित्‌ च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्‌, अविचिण्णल्ङित्सु सप्तम्यन्तम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |
 
 
 
<u>आशीर्लिङि तिङन्तव्युत्पादनविधिः</u>
 
 
 
अस्माभिः ज्ञायते यत्‌ आर्धधातुकप्रक्रियायां धातुगणम्‌ अनुसृत्य चिन्तनं न भवति यतोहि धातुगणविशिष्टविकरणप्रत्ययाः न भवन्ति | अत्र तिङन्तरूपाणां निर्माणविधिः विशिष्यते धातोः अन्तिमस्वरम्‌ अनुसृत्य | सूत्राणाम्‌ आयोजनं तादृशम्‌, अतः प्रक्रियायाः आयोजनमपि तादृशं भवेत्‌ | तदर्थं यथापूर्वम्‌ आर्धधातुकप्रक्रियायां चिन्तनम्‌ अजन्तधातूनां हलन्तधातूनां कृते विभक्तम्‌ | तत्र पुनः उपविभजनम्‌ अजन्तधातुषु आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | उपविभजनं हलन्तधातुषु अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, अवशिष्टाः च |
 
 
 
<u>आशीर्लिङ्‌ परस्मैपदे</u> इति पाठस्य तिङन्तव्युत्पत्तिविधिः चतुर्षु भागेषु विभक्तः—
 
 
 
1. सामान्याः अजन्तधातवः हलन्तधातवः च
 
2. सम्प्रसारणिनः धातवः
 
3. अनिदितः धातवः
 
4. चुरादिगणीयधातवः प्रेरणार्थे णिजन्तधातवः च
 
 
 
'''1.''' सामान्याः अजन्तधातवः हलन्तधातवः च
 
 
 
'''a)''' <u>अजन्तधातवः</u>
 
 
 
१. आकारान्ताः एजन्ताः च धातवः
 
 
 
अत्र मूले आकारान्ताः, एजन्ताः च धातवः मिलित्वा द्रष्टव्याः यतोहि अशिति प्रत्यये परे, सर्वे एजन्तधातवः '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण आकारान्ताः भवन्ति | आशीर्लिङि ये प्रत्ययाः धातुभ्यः विधीयन्ते ते सर्वे अशितः, अतः अत्र एजन्तधातवः आकारान्ताः भवन्ति |
 
 
 
अ) सामान्याः आकारान्तधातवः
 
 
 
एषां किमपि कार्यं नास्ति, केवलं धातु-प्रत्यययोः मेलनम्‌ | यथा वा + यात्‌ → वायात्‌, पा + यात्‌ → पायात्‌, भा + यात्‌ → भायात्‌ |
 
 
 
वायात्‌     वायास्ताम्‌   वायासुः
 
वायाः      वायास्तम्‌   वायास्त
 
वायासम्‌   वायास्व     वायास्म
 
 
 
सर्वे सामान्याकारान्तधातूनाम्‌ आशीर्लि`ङि रूपाणि एवमेव भवन्ति |
 
 
 
आ) आकारान्तानाम्‌ एत्वम्‌
 
 
 
द्वादशानाम्‌ आकारान्तानां धातूनाम्‌ एत्वं भवति |
 
 
 
'''एर्लिङि''' (६.४.६७) = घुमास्थागापाजहातिसामङ्गानाम्‌ एत्वं स्यादार्धधातुके किति लिङि | '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति स्म; प्रकृतसूत्रम्‌ अस्य अपवादः | एः प्रथमान्तं, लिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यस्मात्‌ '''घुमास्थागापाजहातिसाम्‌''' इत्यस्य अनुवृत्तिः | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम्‌ अङ्गस्य एः आर्धधातुके किति लिङि''' |
 
 
 
'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे | '''धात्वादेः षः सः''' (६.१.६४), '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम्‌ | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात्‌ '''आतः''' इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात्‌ '''ईत्‌''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम्‌ आतः अङ्गस्य''' '''ईत्‌''' '''हलि''' '''क्ङिति आर्धधातुके''' |
 
 
 
'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन यक्‌-प्रत्यये परे दा + यक्‌ → दीय → दीयते | परन्तु परस्मैपदे आशीर्लिङि '''एर्लिङि''' (६.४.६७) इत्यनेन एत्वं न तु ईकारादेशः | दा + यात्‌ → दे + यात्‌ → देयात्‌ | (प्रकृतसूत्रे ''''आर्धधातुके किति लिङि'''<nowiki/>' इत्युक्तम्‌ | अस्य फलितार्थः परस्मैपदे आशीर्लिङि एव | विधिलिङ्‌ सार्वधातुकत्वात्‌ तस्य न भवति; '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: परस्मैपदेषु एव कित्त्वम्‌ अतः आत्मनेपदे न भवति |)
 
 
 
'''दाधाघ्वदाप्‌''' (१.१.२०) इत्यनेन दो → दा, डुधाञ्‌ → धा, देङ्‌ → दा, धेट्‌ → धा, डुदाञ्‌ → दा, दाण्‌ → दा इति षट्‌ धातवः घु-सज्ञकाः भवन्ति |
 
 
 
(दाण्‌, डुधाञ्‌ = to give; दो = to cut, divide; देङ्‌ = to protect; डुधाञ्‌ = to hold, bring up; धेट्‌ = to suck, drink)
 
 
 
अनेन एते षट्‌ घु-संज्ञकधातावः च मा, स्था, गा, पा पाने (भ्वादिगणे), हा, सा (षो) इति द्वादशानां धातूनाम्‌ एत्वं भवति किति लिङि प्रत्यये परे |
 
 
 
यथा दा + यात ‌ → देयात्‌ |
 
 
 
देयात्‌    देयास्ताम्‌   देयासुः
 
देयाः     देयास्तम्‌   देयास्त
 
देयासम्‌  देयास्व     देयास्म
 
 
 
एवमेव— धा + यात्‌ → धेयात्‌, मा + यात्‌ → मेयात्‌, स्था + यात्‌ → स्थेयात्‌, गा + यात्‌ → गेयात्‌, पा + यात्‌ → पेयात्‌, हा + यात्‌ → हेयात्‌, सा + यात्‌ → सेयात्‌ |
 
 
 
धेयं यत्‌ 'मा' इत्यनेन मा मापने इत्येव ग्राह्यंं; मेङ्‌, माङ्‌ इति न गृह्येते यतोहि तौ द्वौ ङित्त्वात्‌ आत्मनेपदसंज्ञकौ | आत्मनेपदे लिङ्‌ कित्‌ नास्ति | '''किदाशिषि''' (३.४.१०४) इत्यनेन केवलम्‌ '''आशिषि लिङ: परस्मैपदेषु यासुट् कित्''' इत्युक्तम्‌ | अन्यच्च पा-धातुः इत्युक्तौ पा पाने एव (नाम भ्वादौ, पिबति लटि); अदादिगणस्य पा-धातोः एत्वं न भवति अतः तत्र पायात्‌ एव भवति |
 
 
 
इ) संयोगपूर्व-आकारान्तधातवः
 
 
 
अत्र विकल्पेन एत्वं भवति | '''वाऽन्यस्य संयोगादेः''' (६.४.६८) इति सूत्रेण | घ्रा, ध्मा, म्ना, ष्णा, श्रा, द्रा, प्रा, ख्या, प्रा, ज्ञा इत्यादीनां विकल्पेन एत्वम्‌ | ग्ला + यात्‌ → ग्लेयात्‌ / ग्लायात्‌ इत्यादिकम्‌ |
 
 
'''वाऽन्यस्य संयोगादेः''' (६.४.६८) = घुमास्थादिभ्यः भिन्नानां संयोगादीनां धातूनाम्‌ आकारस्य विकल्पेन एकारादेशो भवति आर्धधातुके किति लिङि प्रत्यये परे | घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि | 'अन्यस्य' इत्यनेन घुमास्थागापाजहातिभिन्नस्य | 'अन्यस्य इति किम् ? स्थेयात् |’ स्था इति एक एव तादृशः धातुः घुमास्थादिषु इति कृत्वा 'स्थेयात्‌ अन्यस्य' | 'आतः अङ्गस्य' इत्यस्मिन्‌ तदन्तविधिः | संयोगः आदिर्यस्य स संयोगादिः, तस्य संयोगादेः | वा अव्ययपदम्‌, अन्यस्य षष्ठ्यन्तं, संयोगादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''एर्लिङि''' (६.४.६७) इत्यस्मात्‌ '''एः''', '''लिङि''' इत्यनयोः अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात्‌ आतः इत्यस्य अनुवृत्तिः | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अन्यस्य संयोगादेः आतः अङ्गस्य एः वा आर्धधातुके किति लिङि''' |
 
 
 
२. <u>इकारान्त/ईकारान्त, उकारान्त/ऊकारान्त च धातवः</u>
 
 
 
इगन्तधातुप्रसङ्गे आर्धधातुक-तिङ्‌-प्रत्ययानां प्रभावेन '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन धातोः इकः गुणो भवति स्म सर्वत्र, तदा '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, तेन च सम्पूर्णतिङ्‌-प्रत्ययः कित्‌ | तस्मात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः |
 
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इति सूत्रेण एते सर्वे धातवः दीर्घाः भवन्ति | यथा—
 
 
 
जि + यात्‌ → जीयात्‌
 
हु + यात्‌ → हूयात्‌
 
भू + यात्‌ → भूयात्‌
 
 
 
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ न भवति | अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव दीर्घत्वम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) | कृत्‌ च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |
 
'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषा-सूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात्‌ '''अच्‌''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वदीर्घप्लुतैः अचः च अच्‌''' |
 
 
 
परन्तु ब्रू-धातोः आर्धधातुकप्रत्यये परे वच्‌-आदेशः | ब्रू + यात्‌ → उच्यात्‌ |
 
 
 
'''ब्रुवो वचिः''' (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | अनुवृत्ति-सहितसूत्रम्‌— '''ब्रुवः वचिः आर्धधातुके''' |
 
 
 
३. <u>ऋकारान्तधातवः</u>
 
 
 
'''रिङ्शयग्लिङ्क्षु''' (७.४.२८) इत्यनेन ऋकारान्तधातूनां धात्वन्तऋकारस्य स्थाने रिङ्‌-आदेशो भवति श-प्रत्यये परे, यक्‌-प्रत्यये परे, लिङ्‌-लकारस्य च यकारादिप्रत्यये परे | ङकारः इत्संज्ञकः | यथा—
 
 
 
कृ + यात्‌ → '''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) → क्‌ + रिङ्‌ + यात्‌ → क्रि + यात्‌ → क्रियात्‌
 
हृ + यात्‌ → ह्रियात्‌
 
भृ + यात्‌ → भ्रियात्‌
 
सृ + यात्‌ → स्रियात्‌
 
 
 
'''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्‌-आदेशो भवति श-प्रत्यये, यक्‌-प्रत्यये, यकारादि-आर्धधातुक-लिङ्‌-प्रत्यये च परे | शश्च यक्‌ च लिङ्‌ च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्‌क्षु | रिङ्‌ प्रथमान्तं, शयग्लिङ्‌क्षु सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''', '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्मात्‌ '''असार्वधातुके''', '''रीङ्‌ ऋतः''' (७.४.२७) इत्यस्मात्‌ '''ऋतः''' इत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ऋतः अङ्गस्य रिङ्‌ यि असार्वधातुके शयग्लिङ्‌क्षु''' |
 
 
 
'''यस्मिन्‌ विधिः तदादावल्ग्रहणे''' इति परिभाषया '''यि''' नाम यकारादौ (यस्य आदौ यकारः, तस्मिन्‌ परे) | '''यि असार्वधातुके''' च लिङः विशेषणम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''ऋतः अङ्गस्य''' नाम न केवलम्‌ ऋकारस्य इत्यङ्गस्य, अप तु ऋकारान्तस्य अङ्गस्य | '''रिङ्''' ङित्‌, अतः '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य बाधकसूत्रम्‌ '''अनेकाल्‌ शित्सर्वस्य''' (१.१.५५), तत्‌ प्रबाध्य '''ङिच्च''' (१.१.५३) इति सूत्रेण आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः |
 
 
 
'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | परिभाषासूत्रम्‌ | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्‌, विधिः प्रथमान्तम्‌, तदन्तस्य षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात्‌ '''स्वम्‌''', '''रूपम्‌''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्‌— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च) |
 
 
 
'''ङिच्च''' (१.१.५३) = ङित्‌-आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम्‌ '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इति सूत्रस्य अपवादः; '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) तु '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात्‌ '''अलः''', '''अन्त्यस्य''' इत्यनयोः अनुवृत्तिः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ङित्‌ च''' '''अन्त्यस्य अलः स्थाने''' |
 
 
 
अस्य द्वौ अपवादौ—
 
 
 
अ) ऋ-धातुः संयोगादि-ऋकारान्तधातवः च
 
 
 
'''गुणोऽर्तिसंयोगाद्योः''' (७.४.२९) इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत्‌, धातोः गुणादेशो भवति श-प्रत्यये परे, यक्‌-प्रत्यये परे, लिङ्‌-लकारस्य यकारादिप्रत्यये च परे |
 
 
 
यथा‌—
 
स्मृ + यात् → स्म + यात् → स्मर्‍ + यात् → स्मर्यात्‌
 
ध्वृ + यात् → ध्व + यात् → ध्वर्‍ + यात् → ध्वर्यात्‌
 
ह्वृ + यात् → ह्व + यात् → ह्वर्‍ + यात् → ह्वर्यात्‌
 
स्वृ + यात् → स्व + यात् → स्वर्‍ + यात् → स्वर्य → स्वर्य + ते → स्वर्यात्‌
 
 
ऋ-धातुः अपि तथा—
 
ऋ + यात्‌ → अ + यात्‌ → अर्‍ + यात्‌ → अर्यात्‌
 
 
 
'''गुणोऽर्तिसंयोगाद्योः''' (७.४.२९) = ऋधातोः संयोगादिऋकारान्तधातोः च अङ्गस्य गुणो भवति यकि परे यकारादि-लिङि-आर्धधातुकप्रत्यये परे च | अर्ति इत्यनेन ऋ-धातुः, धातुनिर्देशे श्तिपि | ऋतः इत्यस्य विशेषणं संयोगादिः यतोहि ऋ-धातोः आदौ संयोगः न सम्भवति | अर्तिश्च संयोगादिश्च तयोरितरेतरद्वन्द्वः, अर्तिसंयोगादी, तयोः अर्तिसंयोगाद्योः | असार्वधातुके इत्यनेन आर्धधातुके | तदन्तविधिः, '''अलोऽन्त्यस्य''', तदादिविधिः इति त्रयः प्रवर्तन्ते | संयोगादिः संयोगः आदिर्यस्य सः बहुव्रीहिः | गुणः प्रथमान्तम्‌, अर्तिसंयोगाद्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''रीङृतः''' (७.४.२७) इत्यस्मात्‌ '''ऋतः''' इत्यस्य अनुवृत्तिः | '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्मात्‌ '''असार्वधातुके''' इत्यस्य अनुवृत्तिः | '''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) इत्यस्मात्‌ '''यग्लिङोः''' इत्यस्य अनुवृत्तिः ('श' इति न आनीयते यतोहि तुदादौ संयोगादिऋदन्तधातुः नास्ति एव) | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिसंयोगाद्योः ऋतः अङ्गस्य गुणः यकि यि लिङि असार्वधातुके''' |
 
 
 
आ) जागृ-धातुः
 
 
 
'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन किति प्रत्यये परेऽपि गुणः—
 
 
 
जागृ + यात्‌ → जागर्‍ + यात्‌ → जागर्यात्‌
 
 
 
'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्‌, णल्‌, ङित्‌ इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण्‌ इति लुङ्‌-लकारस्य, णल्‌ इति लिट्‌-लकारस्य, ङित्‌ इत्यनेन इत्‌-संज्ञकः ङकारः यस्य | वि, ङित्‌ इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्‌, णल्‌ इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण्‌ च णल्‌ च ङित्‌ च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्‌, अविचिण्णल्ङित्सु सप्तम्यन्तम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |
 
 
 
४. <u>ॠकारान्ताः धातवः</u>
 
 
 
अ) अनोष्ठ्यपूर्व-ऋकारान्तधातवः
 
 
 
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात्‌ प्राक्‌ यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ऋकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |
 
एतादृशानां धातूनां कार्यम्‌ एवं भवति—
 
 
 
तॄ + यात्‌ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + यात्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → तिर्‍ + यात्‌ → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → तीर्‍ + यात्‌ → तीर्यात्‌
 
'''ॠत इद्धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत्‌ गुणः | कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |
 
 
 
'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |
 
 
 
'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''र्वोः धातोः उपधायाः इकः दीर्घः हलि''' |
 
 
 
एवमेव—
 
 
जॄ + यात्‌ → जि + यात्‌ → जिर्‍ + यात्‌ → जीर्यात्‌
 
गॄ → गीर्यात्‌,
 
कॄ → कीर्यात्‌
 
दॄ → दीर्यात्‌
 
शॄ → शीर्यात्
 
 
 
आ) ओष्ठ्यपूर्व-ऋकारान्तधातवः
 
 
 
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात्‌ प्राक्‌ यः वर्णः सः ओष्ठ्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः ओष्ठ्यपूर्व-ऋकारान्तधातुः | यथा पॄ, वॄ इत्यादयः धातवः |
 
 
एतादृशानां धातूनां कार्यम्‌ एवं भवति—
 
 
 
पॄ + यात्‌ → '''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः → पु + यात्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → पुर्‍ + यात्‌ → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → पूर्‍ + यात्‌ → पूर्यात्‌
 
 
 
'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत्‌''' |
 
 
 
एवमेव—
 
 
वॄ + यात्‌ → वु + यात्‌ → वुर्‍ + यात्‌ → वूर्यात्‌
 
भॄ → भूर्यात्‌
 
 
 
इति सामान्य-अजन्तधातूनां परस्मैपदे आशीर्लिङि पाठः समाप्तः |
 
 
 
'''b)''' <u>हलन्तधातवः</u>
 
 
 
परस्मैपदे आशीर्लिङः '''किदाशिषि''' (३.४.१०४) इत्यनेन कित्त्वं भवति | कित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | गुणनिषेधं विहाय अन्यत्‌ किमपि कार्यं नास्ति |
 
 
 
यथा—
 
पठ्‌ + यात्‌ → पठ्यात्‌
 
लिख्‌ + यात्‌ → लिख्यात्‌
 
नन्द्‌ + यात्‌ → नन्द्यात्‌
 
 
 
<u>धात्वादेशाः</u>
 
 
 
धात्वादेशो यत्र प्रसक्तः, तत्र सदा स्मर्तव्यः कर्तव्यश्च |
 
 
 
सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एते धात्वादेशाः अवश्यं भवन्ति—
 
 
अस्‌ + यत्‌ → '''अस्तेर्भूः''' (२.४.५२) → भूयात्‌
 
 
चक्ष्‌ + यात्‌ → '''चक्षिङः ख्याञ्‌''' (२.४.५४) → ख्यायात्‌
 
 
अज्‌ + यात्‌ → '''अजेर्व्यघञपोः''' (२.४.५६) → वीयात्‌ |
 
 
 
हन्‌-धातोः आशीर्लिङः प्रत्यये परे वध-आदेशः—
 
 
हन्‌ + यात्‌ → '''हनो वध लिङि''' (२.४.४२) → वध्यात्‌ |
 
 
 
इति सामान्य-हलन्तधातूनां परस्मैपदे आशीर्लिङि पाठः समाप्तः |
 
 
 
'''2.''' <u>सम्प्रसारणिधातवः</u>
 
'''किदाशिषि''' (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्‌प्रत्ययाः कितः, अतः '''वचिस्वपियजादीनां किति''' (६.१.१५), '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इति सूत्राभ्यां सम्प्रसारणं भवति | आहत्य द्वाभ्यां सूत्राभ्यां नवदशानां धातूनां सम्प्रसारणम्‌ | प्रथमे सूत्रे एकादश धातवः उक्ताः, द्वितीये च नव धातवः उक्ताः | परन्तु वेञ्‌-धातुः वय्‌-धातुः च वस्तुतः एक एव समानः अतः मिलित्वा नवदश न तु विंशतिः धातवः |
 
 
 
'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |
 
 
 
'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्‌''' |
 
'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |
 
 
 
'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |
 
 
 
'''न सम्प्रसारणे सम्प्रसारणम्'''‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णम्‌— '''न सम्प्रसारणे सम्प्रसारणम्'''‌ |
 
 
 
<u>अभ्यासः</u>—
 
 
 
सम्प्रसारणिधातुषु हलन्तधातवः—
 
 
 
ग्रह्‌ + यात् → गृ + अ + ह्‌ + यात्‌ → गृ + ह्‌ + यात्‌ → गृह्यात्‌
 
व्रश्च्‌ + यात् →
 
प्रच्छ्‌ + यात् →
 
भ्रस्ज्‌* + यात् →
 
व्यध्‌ + यात् →
 
व्यच्‌ + यात् →
 
वच्‌ + यात् →
 
स्वप्‌ + यात् →
 
यज्‌ + यात् →
 
वप्‌ + यात् →
 
वह्‌ + यात् →
 
वद्‌ + यात् →
 
वश्‌ + यात् →
 
 
 
<nowiki>*</nowiki>सम्प्रसारणं कृत्वा श्चुत्वं, तदा जश्त्वम्‌ अपेक्षितम्‌ |
 
 
 
'''शासिवसिघसीनाञ्च''' (८.३.६०) = शास्‌, वस्‌, घस्‌ इत्येषां धातूनाम्‌ इण्‌-प्रत्याहारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वं न सम्भवति; तस्माच्च अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः, शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सहेः साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यस्मात्‌ '''मूर्धन्यः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अनुवृत्तिः | '''इण्कोः''' (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शासिवसिघसीनां च इण्कोः सः मूर्धन्यः संहितायाम्‌''' |
 
 
 
वस्‌ + यात् → '''वचिस्वपियजादीनां किति''' (६.१.१५) → उस्‌ + यात् → '''शासिवसिघसीनाञ्च''' (८.३.६०) → उष्यात्‌
 
 
 
सम्प्रसारणिधातुषु अजन्तधातवः—
 
 
'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |
 
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ न भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |
 
 
 
ज्या + यात् → जि + आ + यात् → जि + यात् → '''हलः''' (६.४.२) → जी + यात् → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → जी + यात् → जीयात्‌
 
 
श्वि + यात् →
 
 
 
एजन्तधातूनाम्‌ आत्वम्‌—
 
 
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्‌ | उपदेशावस्थायाम्‌, अशिति प्रत्यये परे, एजन्तधातूनाम्‌ अन्त्यस्य एचः स्थाने आत्वादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |
 
 
 
व्येञ्‌ + यात् →
 
वेञ्‌ + यात् →
 
ह्वेञ्‌ + यात् →
 
 
 
'''3.''' <u>अनिदितः धातवः</u>
 
 
 
'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम्‌ उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | '''किदाशिषि''' (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्‌प्रत्ययाः कितः, अतः अनिदितां धातूनाम्‌ उपधा-स्थितस्य नकारस्य लोपः |
 
 
 
'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |
 
 
 
पाणिनेः धातुपाठे अनिदित्‌-धातवः इमे—
 
{| class="wikitable"
|अञ्च्
|कुञ्च्
|क्रुञ्च्‌
|ग्लुञ्च्‌
|चञ्च्‌
|तञ्च्‌
|त्वञ्च्‌
|म्रुञ्च्‌
|म्लुञ्च्‌
|लुञ्च्‌
|-
|वञ्च्‌
|अञ्ज्‌
|रञ्ज्‌
|भञ्ज्
|सञ्ज्‌
|ष्वञ्ज्‌
|कुन्थ्‌
|ग्रन्थ्‌
|मन्थ्‌
|श्रन्थ्‌
|-
|उन्द्‌
|बुन्द्‌
|स्कन्द्‌
|स्यन्द्‌
|इन्ध्‌
|बन्ध्‌
|शुन्ध्‌
|तुम्प्‌
|त्रुम्प्‌
|ऋम्फ्‌
|-
|गुम्फ्‌
|तुम्फ्‌
|त्रुम्फ्‌
|तृम्फ्‌
|दृम्फ्‌
|उम्भ्‌
|दम्भ्‌
|शुम्भ्‌
|श्रम्भ्‌
|षृम्भ्‌
|-
|स्रम्भ्‌
|हम्म्‌
|दंश्‌
|भ्रंश्‌
|ध्वंस्‌
|भ्रंस्‌
|शंस्‌
|स्रंस्‌
|तृन्ह्‌
|
|}
 
 
परस्मैपदे आशीर्लिङि उपधास्थितनकारलोपः | यथा—
 
 
 
स्कन्द्‌ + यात् → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद्‌ + यात् → स्कद्यात्‌
 
 
 
एवमेव सर्वेषाम् अनिदितां हलन्तानां आशीर्लिङि तिङन्तरूपाणि वक्तव्यानि |
 
 
 
धेयं यत्‌ इदितां धातूनां न्‌-लोपो न भवति
 
 
 
यथा वदिँ इति इदित्‌ धातुः | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यनेन नुमागमः, वन्द्‌ इति धातुः | अस्य न्‌-लोपः न भवति |
 
 
 
वदिँ → वद्‌ → वन्द्‌ → वंद् → वन्द्‌
 
 
वदिँ → वद्‌     '''उपदेशेऽजनुनासिक इत्'''
 
वद्‌ → वन्द्‌     '''इदितो नुम्‌ धातोः'''
 
वन्द्‌ → वंद्     '''नश्चापदान्तस्य झलि'''
 
वंद्‌ → वन्द्‌     '''अनुस्वारस्य ययि परसवर्णः'''
 
 
 
लाछिँ → लाछ्‌ → लान्छ्‌ → लांछ्‌ → लाञ्छ्‌
 
कपिँ → कप्‌ → कन्प्‌ → कंप्‌ → कम्प्‌
 
लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌
 
 
 
'''इदितो नुम्‌ धातोः''' (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌, तस्य इदितः, बहुव्रीहिः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''इदितो धातोः नुम्‌''' |
 
 
 
यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | किन्तु साक्षत्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति परे | यथा बन्ध-धातोः नकारो भवति मूलधातौ, अतः किति ङिति परे तस्य नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं 'बद्ध' (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | लबि धातोः '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यनेन नुम्‌ आगमः → लम्ब्‌ | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |
 
 
 
'''4.''' <u>चुरादिगणीयधातवः प्रेरणार्थे णिजन्तधातवः च</u>
 
 
 
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर्‍ + णिच्‌ → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम्‌ आतिदेशिकधातूनां धातुसंज्ञा भवति |
 
 
 
चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर्‍ इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्‌-प्रत्ययः विधीयते → चुर्‍ + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः
 
 
 
तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |
 
 
 
पठ्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि
 
 
 
'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्‍ आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च''' |
 
 
 
'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌ विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान्‌ | अस्यां स्थितौ—यत्र हेतुमान्‌ प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |
 
 
 
'''सनाद्यन्ता धातवः''' (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः (अङ्गम्‌) क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | सन्‌ आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''सनाद्यन्ता धातवः''' |
 
 
 
एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत्‌ किमपि रूपं निष्पादयितुम्‌ इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति आशीर्लिङि च— सर्वप्रथमं णिच्‌, तदा धातुसंज्ञा, तदा आशीर्लिङः तिङ्‌प्रत्ययसंयोजनम्‌ | यथा—
 
 
 
चुर्‍ + इ → चोरि → आशीर्लिङः विवक्षायाम्‌ → चोरि + यात्‌
 
 
 
अस्यां दशायां '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | परस्मैपदे आशीर्लिङि सिद्ध-तिङ्‌प्रत्ययाः वलादिनः न सन्ति इति कारणतः तेषाम्‌ इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्‌, '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपो भवति |
 
 
 
चुर्‍ → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इयनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍ + णिच्‌ → चोरि → चोरि + यात्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + यात्‌ → चोर्यात्‌
 
'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्‌, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |
 
 
 
एवमेव—
 
 
 
कथ + णिच्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायां स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये → कथ्‌-धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → कथि → कथि + यात्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → कथ्‌ + यात् → कथ्यात्‌
 
'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः''' '''अङ्गस्य''' नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |
 
 
 
<nowiki>*</nowiki>'''अतो लोपः''' (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम्‌ '''उपदेशे''' इत्युक्तम्‌ | उत्तरम्‌ एवं यत्‌ अनुवृत्तौ '''उपदेशे''' इति यदि नाभविष्यत्‌, तर्हि कासुचित्‌ स्थितिषु (अनुपदेशावस्थायाम्‌) इष्टं रूपं न प्राप्स्यत्‌ | यथा— भ्वादिगणे अय्‌ गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप्‌ |
 
अय्‌ + क्विप्‌ → अनुबन्धलोपे → अय्‌ + व्‌ → '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः → अ + व्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अ-लोपः, '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → शून्यम्‌ अवशिष्यते |
 
 
 
अतः '''उपदेशे''' नास्ति चेत्‌ इष्टं रूपं न प्राप्यते | '''उपदेशे''' अस्ति चेत्‌ अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |
 
 
 
अ + व्‌ → '''ह्रस्वस्य''' '''पिति कृति तुक्‌''' (६.१.७०) इत्यनेन तुक्‌-आगमः → अत्‌ + व्‌ → '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → अत्‌ इति इष्टं रूपं प्राप्तम्‌ |
 
 
 
'''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात्‌ '''स्थानिवत्‌''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ''' |
 
 
 
पठ्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → पाठि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → पाठ्‌ + यात् → पाठ्यात्‌
 
 
 
दा + णिच्‌ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे → दा + पुक्‌ + इ → दा + प्‌ + इ → दापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → दापि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → दाप्‌ + यात्‌ → दाप्यात्‌
 
 
 
पै पाने → पै + णिच्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच्‌ → '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे → पा + युक्‌ + णिच्‌ → पा + य्‌ + इ → पायि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → पायि → पायि + यात्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → पाय्‌ + यात्‌ → पाय्यात्‌
 
 
 
नी + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →
 
 
 
लिख्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →
 
 
 
भू* + णिच्‌ →
 
 
कृ + णिच्‌ →
 
 
छो छेदने + णिच्‌ →
 
 
वद्‌ + णिच्‌ →
 
 
क्षिप्‌ + णिच्‌ →
 
 
बुध्‌ + णिच्‌ →
 
 
कृष्‌** + णिच्‌ →
 
 
एध्‌ + णिच्‌ →
 
 
गण + णिच्‌ →
 
 
 
<nowiki>*</nowiki>अत्र प्रश्नः उदेति भू + णिच्‌ → भावि + यात्‌ इत्यवसरे '''णेरनिटि''' (६.४.५१), '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) अनयोः द्वयोः युगपत्‌ प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | '''अकृत्सार्वधातुकयोर्दीर्घः''' इति परसूत्रम्‌ अतः तस्य प्राप्तिः भवेत्‌ न तु '''णेरनिटि''' (६.४.५१) इत्यस्य | परन्तु—
 
 
 
'''ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन इयङ्‌, यण्‌, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्‌-लोपेन सह युगपत्‌ प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |
 
 
 
<nowiki>**</nowiki>अत्र कृष्‌ गुणं कृत्वा कष्‌, तदा '''अत उपधायाः''' (७.२.११६), '''उरण्‌ रपरः''' (१.१.५१) इत्यनयोः एकत्रप्राप्तिरस्ति किम्‌ ? भवति चेत्‌, '''अत उपधायाः''' (७.२.११६) परसूत्रम्‌ अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तदाधारेण तस्य बलं स्यात्‌ | किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति | रपरत्वं न भवति चेत्‌, ऋकारस्य स्थाने गुणादेशो न भवति एव | अतः यद्यपि '''उरण्‌ रपरः''' (१.१.५१) इत्यस्य अपेक्षया '''अत उपधायाः''' (७.२.११६) परसूत्रम्‌ अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तथापि अत्र '''अत उपधायाः''' (७.२.११६) इत्यस्य अत्र प्रसक्तिः एव नास्ति |
 
 
 
'''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे |
 
 
 
'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति |
 
 
 
'''5.''' <u>सन्नन्तधातवः</u>
 
 
 
औपदेशिकधातुभ्यः सन्‌-प्रत्ययः विधीयते चेत्‌ सन्नन्तधातुः इति आतिदेशिकधातुर्भवति | एषां सर्वेषां सन्नन्तानाम्‌ अन्ते अकारो भवति; नाम एते सर्वे अदन्तधातवः | अतः '''अतो लोपः''' (६.४.४८) इत्यनेन आर्धधातुके प्रत्यये परे तस्य अकारस्य लोपो भवति |
 
 
 
'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः''' '''अङ्गस्य''' नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌ | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |
 
 
आशीर्लिङि सर्वे तिङ्‌-प्रत्ययाः आर्धधातुकसंज्ञकाः अतः सर्वत्र परस्मैपदे आशीर्लिङि सन्नन्तधातूनां धात्वन्ते अकारस्य लोपः | यथा—
 
 
 
जिगमिष + यात्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपः → जिगमिष्‌ + यात्‌ - जिगमिष्यात्‌
 
 
 
सर्वेभ्यः सन्नन्तधातुभ्यः यासुट्‌-प्रत्यये परे एवं रीत्या '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपो भवति |
 
 
 
अनेन आशीर्लिङि सर्वेभ्यः धातुभ्यः समग्रचिन्तनं सम्पूर्णम्‌ |
 
 
 
Swarup – April 2018
 
 
 
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
|}
teachers
247

edits