7---ArdhadhAtukaprakaraNam/06---AshIrling-parasmaipade

Revision as of 20:50, 20 May 2021 by Gargi Dixit (talk | contribs) (added part of the page)

7---ArdhadhAtukaprakaraNam/06---AshIrling-parasmaipade

06 - आशीर्लिङ्‌ परस्मैपदे

ध्वनिमुद्रणानि -

2021 वर्गः-

१) Ashiirling-parasmaipade---paricayaH_+_siddhating-pratyaya-vyutpattiH_+_dhAtvAdeshaH_2021-02-16

२) Ashiirling-parasmaipade---lingAshishi-kittvAtideshaH_+_AkArAntAH_+_erlingi_+_i-u-RukArAntAH-dhAtavaH_2021-02-23

३) Ashiirling-parasmaipade---RukArAntAH_+_RU-kArAnTAH_+_halantAH_+_samprasAraNinaH_2021-03-02

४) Ashiirling-parasmaipade---samprasAraNi-dhAtavaH_+_aniditaH-dhAtavaH_2021-03-09    

५) Ashiirling-parasmaipade---Nijanta-dhAtavaH_+_sannantadhAtavaH_2021-03-16  

2018 वर्गः-

१) Ashiirling-lakAre-parasmaipade-paricayaH_2017-12-24

२) Ashiirling-lakAre-parasmaipade-paricayaH-2_2018-04-08

३) Ashiirling-lakAre-parasmaipade-ajantAnAM-halantAnAM-ca-dhAtavaH_2018-04-15

४) Ashiirlingi-parasmaipade---siddha-ting-pratyayAH_+_AkArAnta-dhAtavaH_2018-04-22

५) Ashiirlingi-parasmaipade---siddha-ting-cintanam_+_sAmAnya-dhAtavaH_+_samprasAraNi-dhAtavaH_2018-04-29

६) Ashiirlingi-parasmaipade---samprasAraNi-dhAtavaH_+_anidit-dhAtavaH_2018-05-06


आशीर्लिङ्‌-लकारः परस्मैपदे


आशिषि लिङ्‌लोटौ (३.३.१७३) = आशीर्वादार्थे धातुभ्यः लिङ्‌ लोट्‌ च लकारौ भवतः | अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा इति काशिका— अप्राप्तं प्राप्तुम्‌ इच्छा इति अर्थः | लिङ्‌ च लोट्‌ च तयोरितरेतरद्वन्द्वः लिङ्लोटौ | आशिषि सप्तम्यन्तं, लिङ्लोटौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |


परस्मैपदे आशीर्लिङ्‌-लकारः अनिडादिषु अन्यतमः | अत्र यासुट्‌-आगमो भवति इति कारणतः सिद्धतिङ्‌-प्रत्ययाः यकारादयः; तदर्थं च न वलादयः | प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः; परम्‌ इड्‌व्यवस्था, इडादीनां च पाठः |


आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |


परस्मैपदे सिद्धतिङ्‌-प्रत्ययाः एते—


यात्‌       यास्ताम्‌     यासुः

याः        यास्तम्‌      यास्त

यासम्‌     यास्व        यास्म


लिङाशिषि (३.४.११६) = आशीर्वादार्थे यत्‌ लिङ्‌ तस्य स्थाने यत्‌ तिङ्‌, तस्य आर्धधातुकसंज्ञा भवति | आशिषि लिङः तिङ्‌ आर्धधातुकसंज्ञकः स्यात्‌ | लिङ्‌ लुप्तषष्ठीकम्‌, आशिषि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यस्मात्‌ तिङ्‌ इत्यस्य अनुवृत्तिः | आर्धधातुकं शेषः (३.४.११४) इत्यस्मात्‌ आर्धधातुकम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लिङाशिषि आर्धधातुकं तिङ्‌ |


आर्धधातुकप्रत्यये परे धात्वादेशाः


आर्धधातुकविषये केषाञ्चित्‌ धातूनां धात्वादेशो भवति |


१. अस्‌-धातोः आर्धधातुकप्रत्यये परे भू-आदेशः | अस्‌ + यात्‌ → भूयात्‌ |


अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अस्‌-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अस्तेः भूः आर्धधातुके |


अनेकाल्शित्‌ सर्वस्य (१.१.५५) = आदेशः अनेकाल्‌ शित्‌ च चेत्‌, सर्वस्य स्थाने आदेशो भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल्‌ यस्य सः अनेकाल्‌, बहुव्रीहिः | श इत्‌ यस्य सः शित्‌, बहुव्रीहिः | अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल्‌ इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल्‌ इत्युक्तौ तादृशः आदेशः यस्मिन्‌ एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाल्शित्‌ सर्वस्य स्थाने |


२. चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | चक्ष्‌ + यात्‌ → ख्यायात्‌, क्शायात् |


चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |


चक्षिङः ख्याञ् (२.४.५४) इत्यनेन चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम्‌ (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |


३. अज्‌-धातोः आर्धधातुकप्रत्यये परे वी-आदेशः | अज्‌ + यात्‌ → वीयात्‌ |


अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अजेः वी आर्धधातुके अघञपोः |


४. ब्रू-धातोः आर्धधातुकप्रत्यये परे वच्‌-आदेशः | ब्रू + यात्‌ → उच्यात्‌ |


ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |


५. हन्‌-धातोः आशीर्लिङः प्रत्यये परे वध-आदेशः | हन्‌ + यात्‌ → वध्यात्‌ |


हनो वध लिङि (२.४.४२) = हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परे आर्धधातुके | हनः षष्ठ्यन्तं, वध लुप्तप्रथमान्तं, लिङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हनः वध आर्धधातुके लिङि |

वध-आदेशे अकारस्य लोपः—


अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |


६. एजन्तधातूनाम्‌ आत्वम्‌—


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्‌ | उपदेशावस्थायाम्‌, अशिति प्रत्यये परे, एजन्तधातूनाम्‌ अन्त्यस्य एचः स्थाने आत्वादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


यथा—

ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे → वा, छो → छा


लिङ्‌लकारे परस्मैपदे यासुट्‌-आगमः


विधिलिङ्‌लकारे आशीर्लिङ्लकारे च परस्मैपदे यासुट्‌-आगमः भवति |


यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) = लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ उदात्तः च | विधिसूत्रम्‌ अतिदेशसूत्रं च | लिङः सीयुट्‌ (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानांम्‌ एव कृते) इत्यस्य अपवादः | आद्यन्तौ टकितौ (१.१ .४६) इत्यनेन यासुट्‌, प्रत्ययात्‌ प्राक्‌ आयाति | यासुट्‌ प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्‌, उदात्तः प्रथमान्तं, ङित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लिङः सीयुट्‌ (३.४.१०२) इत्यस्मात्‌ लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लिङः लस्य परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |


तिङ्‌-प्रत्ययसिद्धिः