7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

added half the page
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(added half the page)
Line 1:
 
<please replace this with content from corresponding Google Sites page>
=== 08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि ===
{| class="wikitable"
|ध्वनिमुद्रणानि -
 
१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/165_AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12.mp3 AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12]
 
२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/166_AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---dhA__jyA_2018-08-19.mp3 AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---dhA_+_jyA_2018-08-19]
 
३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/167_iganta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-08-26.mp3 iganta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---नेनी, चेक्री, बोभू, चर्कृ, तातॄ, पापॄ_2018-08-26]
 
४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/168_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-09-09.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---तेतिक्‌, लेलिख्‌, तेतिग्‌, तेष्टिघ्‌_2018-09-09]
 
५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/169_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-09-16.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---सेषिच्‌, वाव्रश्च्‌, पाप्रच्छ्‌, तात्यज्‌, बाभ्रस्ज्‌_2018-09-16]
 
६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/170_Halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-09-23.mp3 ष्ठा→स्था, अवावान्‌, halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मरीमृज्‌, लोलुट्‌, लोलुठ्‌_2018-09-23]
 
७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/171_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-09-30.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---तोतुड्‌, चोच्युत्‌, चोकुथ्‌, बेभिद्‌, रोरुध्‌, जोगुप्‌, रेरिफ्‌_2018-09-30]  
 
८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/172_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-07.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---लालम्ब्‌, शोशुभ्‌, जाहय्‌, तोतुर्व_2018-10-07]
 
९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/173_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-14.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मामव्‌, जाज्वर्‍, चोक्रुश्‌_2018-10-14]
 
१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/174_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-21.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चरीकृष्‌, वावस्‌, जागाह्‌, जोगुह्‌_2018-10-21]
 
११) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/175_halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi----_2018-10-28.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---अनिदित्‌-धातवः_2018-10-28]
 
१२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/176_sarvadhatuka-lakareshu------__2018-11-04.mp3 sArvadhAtuka-lakAreShu--सम्प्रसारणिनः-धातवः---जाग्रह्‌, जाज्या, वाव्यध्‌, वावश्‌, वाव्यच्‌, वाव्रश्च्‌__2018-11-04]
 
१३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/177_sarvadhatuka-lakareshu------_2018-11-11.mp3 sArvadhAtuka-lakAreShu--अनुनासिकान्त-धातवः---जङ्गम्‌, जङ्घन्‌, जञ्जन्‌_2018-11-11]
 
१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/178__2018-11-18.mp3 जञ्जन्‌, चङ्खन्‌, संसन्‌, मम्मन्‌, रंरम्‌, नन्नम्‌, यंयम्‌, तन्तन्‌, चेक्षिण्‌_2018-11-18]
 
 
 
पूर्वतनपाठे दृष्टं यत्‌ यङ्लुगन्तधातुभ्यः विधीयमान-सिद्धतिङ्प्रत्ययाः एते—
 
 
 
<u>लट्‌-लकारः</u>
{| class="wikitable"
|'''ति''', '''ईति'''
|तः
|अति
|-
|'''सि''', '''ईषि'''
|थः
|थ
|-
|'''मि''', '''ईमि'''
|वः
|मः
|}
 
 
<u>लोट्‌-लकारः</u>
{| class="wikitable"
|'''तु''', '''ईतु''', तात्‌
|ताम्‌
|अतु
|-
|हि, तात्‌
|तम्‌
|त
|-
|'''आनि'''
|'''आव'''
|'''आम'''
|}
 
 
<u>लङ्‌-लकारः</u>
{| class="wikitable"
|'''त्‌''' , '''ईत्‌'''
|ताम्‌
|उः
|-
|'''स्‌''' (:), '''ईः'''
|तम्‌
|त
|-
|'''अम्‌'''
|व
|म
|}
 
 
<u>विधिलिङ्‌-लकारः</u>
{| class="wikitable"
|यात्‌
|याताम्‌
|युः
|-
|याः
|यातम्‌
|यात
|-
|याम्‌
|याव
|याम
|}
 
 
सम्प्रति क्रमेण अजन्तधातूनां, तदा हलन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि परिशीलनीयानि |
 
 
 
<u>आकारान्तधातवः</u>
 
 
 
१. सामान्याकारान्ताः
 
वा → वावा
 
धै → ध्या → दाध्या
 
ग्लै → ग्ला → जाग्ला
 
 
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम्‌ | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | वावा + ति → वावाति
 
अजादिषु पित्सु = केवलं सन्धिकार्यम्‌ | वावा + आनि → वावानि
 
हलादिषु अपित्सु = धात्वन्तस्य आकार-स्थाने ई-कारादेशः ('''ई हल्यघोः''' इति सूत्रेण) | वावा + तः → वावीतः
 
अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | वावा + अति → वावति
 
 
 
'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्‌, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात्‌ '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके''' |
 
 
 
अनेन सूत्रेण न केवलम्‌ अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु '''ई हल्यघोः''' इति सूत्रम्‌ एतत्‌ कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |
 
 
 
'''ई हल्यघोः''' (६.४.११३) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने ई-कारादेशो भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्‌, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्‌, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यस्मात्‌ '''श्नाभ्यस्तयोः''', '''आतः''' चेत्यनयोः अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः; '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नाभ्यस्तयोः आतः''' '''ई क्ङिति हलि''' '''सार्वधातुके''' '''अघोः''' |
 
 
 
उस्‌-प्रत्यये परे '''उस्यपदान्तात्''' (६.१.९६) इत्यनेन पररूपादेशः | अवावा + उः → अवावुः |
 
 
 
'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात्‌ अकारात्‌ उसि प्रत्यये परे पूर्वपरयोः पररूपम्‌ एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव्‌ + उः → अवुः | न पदान्तम्‌ अपदान्तं, तस्मात्‌ अपदान्तात्‌ | उसि सप्तम्यन्तम्‌, अपदान्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८७) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्‌''' (६.१.९४) इत्यस्मात्‌ '''पररूपम्‌''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ आत्‌ अचि उसि एकः पूर्वपरयोः पररूपम्‌''' '''संहितायाम्‌''' |
 
 
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
२. विशेषाकारान्तधातवः
 
 
 
घुसंज्ञकधातवः—
 
दा → दादा
 
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम्‌ | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | दादा + ति → दादाति
 
अजादिषु पित्सु = केवलं सन्धिकार्यम्‌ | दादा + आनि → दादानि
 
हलादिषु अपित्सु = धात्वन्तस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | दादा + तः → दात्तः
 
अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | दादा + अति → दादति
 
 
 
उस्‌-प्रत्यये परे '''उस्यपदान्तात्''' (६.१.९६) इत्यनेन पररूपादेशः | अदादा + उः → अदादुः |
 
 
 
'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात्‌ अकारात्‌ उसि प्रत्यये परे पूर्वपरयोः पररूपम्‌ एकादेशः भवति; आद्गुणस्य अपवादः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ आत्‌ अचि उसि एकः पूर्वपरयोः पररूपम्‌''' '''संहितायाम्‌''' |
 
 
 
लोट्‌-लकारस्य मध्यमपुरुषे दादा + हि → दे + हि → देहि | सूत्रमिदम्‌—
 
 
 
'''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) = हि-परे, घुसंज्ञक-धातोः अस्‌-धातोः च स्थाने एकारादेशो भवति; अभ्यासः अस्ति चेत्‌ तस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य | घुश्च अस्‌ च तयोरितरेतरद्वन्द्वो घ्वसौ, तयोः घ्वसोः | अभ्यासस्य लोपः, अभ्यासलोपः षष्ठीतत्पुरुषः | घ्वसोः षष्ठ्यन्तं, एत्‌ प्रथमान्तं, हौ सप्तम्यन्तम्‌, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''घ्वसोः अङ्गस्य एत्‌ अभ्यासलोपः च हौ''' |
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
धा → दाधा
 
 
 
दाधा-धातोः कृते तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यंम्‌ उपर्युक्तमेव यथा दादा इत्यस्य; लोट्‌-लकारस्य मध्यमपुरुषे दाधा + हि → धे + हि → धेहि; सूत्रं पूर्वोक्तम्‌ | अन्यच्च इतोऽपि एकं कार्यम्‌ अस्ति—
 
'''दधस्तथोश्च''' (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्‌-धातोः बशो भष्‌ स्यात्‌ तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्‌' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्‌' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्‌-सन्धिकार्यम्‌ एव, अष्टमाध्याये च | झष्‌-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्‌, भ्‌, घ्‌, ढ्‌, ध्‌ | बश्‌-प्रत्याहारे ब्‌, ग्‌, ड्‌, द्‌ इत्येते वर्णाः | भष्‌-प्रत्याहारे भ्‌, घ्‌, ढ्‌, ध् इत्येते वर्णाः | तश्च थ्‌ च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यस्मात्‌ '''बशो''', '''भष्‌''', '''झषन्तस्य''', '''स्ध्वोः''' इत्येषाम्‌ अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''झषन्तस्य दधः बशः भष्‌''' '''स्ध्वोः तथोः च''' |
 
 
 
यथा—
 
दाधा + तः → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः → दाध्‌ + तः → '''दधस्तथोश्च''' (८.२.३८) इत्यनेन द्‌-स्थाने ध्‌ → धाध्‌ + तः → '''खरि च''' इत्यनेन चर्त्वसन्धिः → धात्तः
 
 
 
ज्या → जाज्या
 
 
 
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम्‌ | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | जाज्या + ति → जाज्याति
 
अजादिषु पित्सु = केवलं सन्धिकार्यम्‌ | जाज्या + आनि → जाज्यानि
 
हलादिषु अपित्सु = '''ग्रहि ज्या वयि''' इत्यनेन सम्प्रसारणं, तदा '''हलः''' इत्यनेन दीर्घः | जाज्या + तः → जाजीतः
 
अजादिषु अपित्सु = सम्प्रसारणं, दीर्घत्वं, तदा धात्वन्तस्य ईकारस्य यण्‌-आदेशः ('''एरनेकाचोऽसंयोगपूर्वस्य''' इति सूत्रेण) | जाज्या + अति → जाजी + अति → जाज्यति
 
 
 
सम्प्रसारणम्‌—
 
 
'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, '''ज्या''', वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
 
'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |
 
 
 
'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |
 
 
 
यथा—
 
जाज्या + तः → जाज्‌ + य्‌ + आ + तः → '''ग्रहि ज्या''' (३.१.१३) इत्यनेन यकारस्य स्थाने इ-आदेशः → जाजि + आ + तः → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जाजि + तः → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → जाजी + तः → जाजीतः
 
 
 
'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |
 
 
 
'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम् इकाररूप्यङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्‌, अनेकम्‌, अनेके एकाचः यस्मिन्‌ सः अनेकाच्‌ नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्‌, अनेकाचः षष्ठ्यन्तम्‌, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''इणो यण्‌''' (६.४.८१) इत्यस्मात्‌ '''यण्‌''' इत्यस्य अनुवृत्तिः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''', '''धातोः''' (विपरिणामेन षष्ठ्यन्तम्‌) इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण्‌ अचि''' |
 
 
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
<u>असंयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः</u>
 
 
नी → नेनी
 
भी → बेभी
 
जि → जेजि
 
चि → चेचि
 
 
 
हलादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन | नेनी + ति → नेनेति
 
अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४); अय्‌-आदेशः, '''एचोऽयवायावः''' (६.१.७७) | नेनि + आनि → नेनयानि
 
हलादिषु अपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | नेनी + तः → नेनीतः
 
अजादिषु अपित्सु = गुणनिषेधः, तदा यण्‌-आदेशः '''एरनेकाचोऽसंयोगपूर्वस्य''' इत्यनेन | नेनी + अति → नेन्यति
 
 
 
अजाद्यपित्‌-प्रत्ययक्षेत्रे विशेषः—
 
उस्‌-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
 
 
अनेनी + उः → अनेने + उः → अनेनय्‌ + उः → अनेनयुः
 
 
'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |
 
 
 
किमर्थम्‌ 'अजादौ जुसि परे' इति चेत्‌ 'शृणुयुः' | अत्र जुस्‌ भवति किन्तु स च जुस्‌ अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्‌-आगमे सति गुणः न भवति |
 
 
 
'''सार्वधातुकमपित्‌''' (१.२.४) = अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |
 
 
 
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |
 
 
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
<u>संयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः</u>
 
 
क्री → चेक्री
 
 
 
नेनी इति धातोः यथा, तथा अत्र कार्यं समानम्‌ एकं कार्यं वर्जयित्वा | तदेकं भिन्नं कर्यम्‌ इदम्—
 
 
 
अजादिषु अपित्सु = गुणनिषेधः, तदा इयङ्‌-आदेशः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन | चेक्री + अति → चेक्रिय्‌ + अति → चेक्रियति
 
 
 
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि''' |
 
 
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
<u>उकारान्ताः ऊकारान्ताः च धातवः</u>
 
भू → बोभू
 
पू → पोपू
 
लू → लोलू
 
 
 
हलादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन | बोभू + ति → बोभोति
 
अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४); अव्‌-आदेशः, '''एचोऽयवायावः''' (६.१.७७) | बोभू + ईति → बोभो + ईति → बोभव्‌ + ईति → बोभवीति
 
हलादिषु अपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | बोभू + तः → बोभूतः
 
अजादिषु अपित्सु = गुणनिषेधः, तदा उवङ्‌-आदेशः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन | बोभू + अति → बोभुव्‌ + अति → बोभुवति
 
 
 
अजाद्यपित्‌-प्रत्ययक्षेत्रे विशेषः—
 
उस्‌-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
 
 
अबोभू + उः → अबोभो + उः → अबोभव्‌ + उः → अबोभवुः
 
 
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
<u>ऋकारान्ताः धातवः</u>
 
 
 
चर्कृ, चरिकृ, चरीकृ
 
जर्हृ, जरिहृ, जरीहृ
 
बर्भृ, बरिभृ, बरीभृ
 
 
 
हलादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन | चर्कृ + ति → चर्कर्ति
 
अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | चर्कृ + ईति → चर्करीति
 
हलादिषु अपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | चर्कृ + तः → चर्कृतः
 
अजादिषु अपित्सु = गुणनिषेधः, तदा यण्‌-आदेशः '''इको यणचि''' (६.१.७७) इत्यनेन | चर्कृ + अति → चर्क्रति
 
 
 
अजाद्यपित्‌-प्रत्ययक्षेत्रे विशेषः—
 
उस्‌-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
 
 
 
अचर्कृ + उः → अचर्कर्‍ + उः → अचर्करुः
 
 
 
'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ |
 
 
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
<u>अनोष्ठ्यपूर्वॠकारान्ताः धातवः</u>
 
 
तॄ → तातॄ
 
जॄ → जाजॄ
 
शॄ → शाशॄ
 
 
 
१) हलादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन | तातॄ + ति → तातर्ति
 
२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | तातॄ + ईति → तातरीति
 
३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वं, '''हलि च''' (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | तातॄ + तः → तातिर्‍ + तः → तातीर्‍ + तः → तातीर्तः
 
४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वम्‌ | तातॄ + अति → तातिर्‍ + अति → तातिरति
 
 
 
अजाद्यपित्‌-प्रत्ययक्षेत्रे विशेषः—
 
उस्‌-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
 
 
 
अतातॄ + उः → अतातर्‍ + उः → अतातरुः
 
 
 
'''ॠत इद्धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत्‌ गुणः | कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |
 
 
 
'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |
 
 
 
'''हलि च''' (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''सिप धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रं— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |
 
 
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
<u>ओष्ठ्यपूर्वॠकारान्ताः धातवः</u>
 
 
पॄ → पापॄ
 
वॄ → वावॄ
 
भॄ → बाभॄ
 
मॄ → मामॄ
 
 
|}
teachers
247

edits