7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI
7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI
08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि
ध्वनिमुद्रणानि -
१) AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12 २) AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---dhA_+_jyA_2018-08-19 ११) halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---अनिदित्-धातवः_2018-10-28 १३) sArvadhAtuka-lakAreShu--अनुनासिकान्त-धातवः---जङ्गम्, जङ्घन्, जञ्जन्_2018-11-11 १४) जञ्जन्, चङ्खन्, संसन्, मम्मन्, रंरम्, नन्नम्, यंयम्, तन्तन्, चेक्षिण्_2018-11-18
पूर्वतनपाठे दृष्टं यत् यङ्लुगन्तधातुभ्यः विधीयमान-सिद्धतिङ्प्रत्ययाः एते—
लट्-लकारः
आकारान्तधातवः
१. सामान्याकारान्ताः वा → वावा धै → ध्या → दाध्या ग्लै → ग्ला → जाग्ला
अजादिषु पित्सु = केवलं सन्धिकार्यम् | वावा + आनि → वावानि हलादिषु अपित्सु = धात्वन्तस्य आकार-स्थाने ई-कारादेशः (ई हल्यघोः इति सूत्रेण) | वावा + तः → वावीतः अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | वावा + अति → वावति
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | श्नसोरल्लोपः (६.४.१११) इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके |
अनेन सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु ई हल्यघोः इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |
ई हल्यघोः (६.४.११३) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने ई-कारादेशो भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | श्नाभ्यस्तयोरातः (६.४.११२) इत्यस्मात् श्नाभ्यस्तयोः, आतः चेत्यनयोः अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः; अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः |
उस्-प्रत्यये परे उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः | अवावा + उः → अवावुः |
उस्यपदान्तात् (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८७) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | इको यणचि (६.१.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
२. विशेषाकारान्तधातवः
घुसंज्ञकधातवः— दा → दादा हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | दादा + ति → दादाति अजादिषु पित्सु = केवलं सन्धिकार्यम् | दादा + आनि → दादानि हलादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | दादा + तः → दात्तः अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | दादा + अति → दादति
उस्-प्रत्यये परे उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः | अदादा + उः → अदादुः |
उस्यपदान्तात् (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम् |
लोट्-लकारस्य मध्यमपुरुषे दादा + हि → दे + हि → देहि | सूत्रमिदम्—
घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) = हि-परे, घुसंज्ञक-धातोः अस्-धातोः च स्थाने एकारादेशो भवति; अभ्यासः अस्ति चेत् तस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य | घुश्च अस् च तयोरितरेतरद्वन्द्वो घ्वसौ, तयोः घ्वसोः | अभ्यासस्य लोपः, अभ्यासलोपः षष्ठीतत्पुरुषः | घ्वसोः षष्ठ्यन्तं, एत् प्रथमान्तं, हौ सप्तम्यन्तम्, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— घ्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ | चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
धा → दाधा
दाधा-धातोः कृते तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् उपर्युक्तमेव यथा दादा इत्यस्य; लोट्-लकारस्य मध्यमपुरुषे दाधा + हि → धे + हि → धेहि; सूत्रं पूर्वोक्तम् | अन्यच्च इतोऽपि एकं कार्यम् अस्ति— दधस्तथोश्च (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्-धातोः बशो भष् स्यात् तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्-सन्धिकार्यम् एव, अष्टमाध्याये च | झष्-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्, भ्, घ्, ढ्, ध् | बश्-प्रत्याहारे ब्, ग्, ड्, द् इत्येते वर्णाः | भष्-प्रत्याहारे भ्, घ्, ढ्, ध् इत्येते वर्णाः | तश्च थ् च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यस्मात् बशो, भष्, झषन्तस्य, स्ध्वोः इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— झषन्तस्य दधः बशः भष् स्ध्वोः तथोः च |
यथा— दाधा + तः → श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकारस्य लोपः → दाध् + तः → दधस्तथोश्च (८.२.३८) इत्यनेन द्-स्थाने ध् → धाध् + तः → खरि च इत्यनेन चर्त्वसन्धिः → धात्तः
ज्या → जाज्या
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | जाज्या + ति → जाज्याति अजादिषु पित्सु = केवलं सन्धिकार्यम् | जाज्या + आनि → जाज्यानि हलादिषु अपित्सु = ग्रहि ज्या वयि इत्यनेन सम्प्रसारणं, तदा हलः इत्यनेन दीर्घः | जाज्या + तः → जाजीतः अजादिषु अपित्सु = सम्प्रसारणं, दीर्घत्वं, तदा धात्वन्तस्य ईकारस्य यण्-आदेशः (एरनेकाचोऽसंयोगपूर्वस्य इति सूत्रेण) | जाज्या + अति → जाजी + अति → जाज्यति
सम्प्रसारणम्—
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
यथा— जाज्या + तः → जाज् + य् + आ + तः → ग्रहि ज्या (३.१.१३) इत्यनेन यकारस्य स्थाने इ-आदेशः → जाजि + आ + तः → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जाजि + तः → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → जाजी + तः → जाजीतः
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङस्य यण्-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम् इकाररूप्यङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्, अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्, अनेकाचः षष्ठ्यन्तम्, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
असंयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः
भी → बेभी जि → जेजि चि → चेचि
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | नेनी + ति → नेनेति अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४); अय्-आदेशः, एचोऽयवायावः (६.१.७७) | नेनि + आनि → नेनयानि हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | नेनी + तः → नेनीतः अजादिषु अपित्सु = गुणनिषेधः, तदा यण्-आदेशः एरनेकाचोऽसंयोगपूर्वस्य इत्यनेन | नेनी + अति → नेन्यति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
किमर्थम् 'अजादौ जुसि परे' इति चेत् 'शृणुयुः' | अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्-आगमे सति गुणः न भवति |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
संयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः
नेनी इति धातोः यथा, तथा अत्र कार्यं समानम् एकं कार्यं वर्जयित्वा | तदेकं भिन्नं कर्यम् इदम्—
अजादिषु अपित्सु = गुणनिषेधः, तदा इयङ्-आदेशः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन | चेक्री + अति → चेक्रिय् + अति → चेक्रियति
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
उकारान्ताः ऊकारान्ताः च धातवः भू → बोभू पू → पोपू लू → लोलू
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | बोभू + ति → बोभोति अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४); अव्-आदेशः, एचोऽयवायावः (६.१.७७) | बोभू + ईति → बोभो + ईति → बोभव् + ईति → बोभवीति हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | बोभू + तः → बोभूतः अजादिषु अपित्सु = गुणनिषेधः, तदा उवङ्-आदेशः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन | बोभू + अति → बोभुव् + अति → बोभुवति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ऋकारान्ताः धातवः
चर्कृ, चरिकृ, चरीकृ जर्हृ, जरिहृ, जरीहृ बर्भृ, बरिभृ, बरीभृ
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | चर्कृ + ति → चर्कर्ति अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | चर्कृ + ईति → चर्करीति हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | चर्कृ + तः → चर्कृतः अजादिषु अपित्सु = गुणनिषेधः, तदा यण्-आदेशः इको यणचि (६.१.७७) इत्यनेन | चर्कृ + अति → चर्क्रति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अचर्कृ + उः → अचर्कर् + उः → अचर्करुः
इको यणचि (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
अनोष्ठ्यपूर्वॠकारान्ताः धातवः
जॄ → जाजॄ शॄ → शाशॄ
१) हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | तातॄ + ति → तातर्ति २) अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | तातॄ + ईति → तातरीति ३) हलाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | ॠत इद्धातोः (७.१.१००) इत्यनेन इकारादेशः, उरण् रपरः (१.१.५१) इत्यनेन रपरत्वं, हलि च (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम् | तातॄ + तः → तातिर् + तः → तातीर् + तः → तातीर्तः ४) अजाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | ॠत इद्धातोः (७.१.१००) इत्यनेन इकारादेशः, उरण् रपरः (१.१.५१) इत्यनेन रपरत्वम् | तातॄ + अति → तातिर् + अति → तातिरति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अतातॄ + उः → अतातर् + उः → अतातरुः
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिप धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रं— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ओष्ठ्यपूर्वॠकारान्ताः धातवः
वॄ → वावॄ भॄ → बाभॄ मॄ → मामॄ
|