7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,319:
 
 
<big>परन्तु अपरया दृष्ट्या, समग्रदृष्ट्या, एकवारं यदा सर्वे धातवः पुरतः स्थापिताः, तदा सर्वे धातवः धातुमात्रम्‌ | धातुसंज्ञा एका एव; यद्यपि धातुसंज्ञाविधातकसूत्रद्वयं, तथापि एकेवारं यदा धातुसंज्ञा आगता, तदा धातुसंज्ञायां भेदो नास्ति | आतिदेशिकधातुभ्यः सार्वधातुकप्रक्रियायां '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌-विधीयते | भ्वादिगणः तादृशधातुगणः यस्मिन्‌ धातुभ्यः शप्‌ विधीते, अतः आतिदेशिकधातवः भ्वादिगणीयाः एव | यावन्तः 'औपदेशिकधातवः' भ्वादिगणे सन्ति, तेभ्यः सार्वधातुकप्रक्रियायाम्‌ 'आतिदेशिकधातूनां' कोऽपि भेदो नास्ति | तर्हि सार्वधातुकप्रक्रियायाम्‌ आतिदेशिकधातवः भ्वादिगणे | यथा भू-धातुः, तथा भावि-धातुः, तथा च जिगमिष-धातुः | अतः सार्वधातुकप्रक्रियायां विकरणप्रत्ययं निमित्तीकृत्य धातुगणभेदाः सन्ति, तान्‌ धातुगणभेदान्‌ च अधिकृत्य प्रक्रियाभेदाः सन्ति | श्यन्‌ इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना, श्नु इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना | विकरणप्रत्ययभेदात्‌ प्रक्रियाभेदः | परन्तु 'औपदेशिक-आतिदेशिक' भेदात्‌ प्रक्रियाभेदः इति तु नास्ति | समानधातुगणे भ्वादिगणे धातुः औपदेशिकः अथवा आतिदेशिकः इत्यस्य परिणामे प्रक्रियाभेदो न भवति | अतः सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधात्वोः नामकरणस्य किमपि मूल्यं नास्ति | एतादृशनामकरणस्य मूल्यं केवलं बालानां कृते प्रदर्शनार्थं यत्‌ केचन धातवः अव्युत्पन्नाः अन्ये च व्युत्पन्नाः | परन्तु एकवारं यादा धातुसंज्ञा आगाता धातुः च सिद्धः ततः अग्रे सार्वधातुकप्रक्रियायां तदाधारेण भेदो नास्ति; आर्धधातुकप्रक्रियायां च एकस्मिन्नेव स्थले भेदः भावे यथोक्तम्‌ |</big>