7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1,297:
 
 
<big>प्रश्नः उदेति यत्‌ '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? नाम, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत्‌ ? इति चेत्‌, सर्वप्रथमम्‌ अस्माभिः चिन्तनीयं किल यत्‌ 'जिगिर्‌' इत्यस्मिन्‌ औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |</big>
 
<big>अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः—(१) व्युत्पत्ति विषये; (२) भावे | (१) बालानां बोधः आवश्यकः यत्‌ औपदेशिकधातुभ्यः द्वादश धातुप्रत्ययानां विधानेन प्रत्ययान्तधातवः निष्पद्यन्ते |</big>
Line 1,303:
 
 
<big>(२) '''भावे''' (३.३.१८) इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययाः विधीयन्ते, घञ्‌-प्रत्ययः सामान्यः, स्त्रियां च क्तिन्‌ | परन्तु प्रत्ययान्तेभ्यः धातुभ्यः घञ्‌-प्रत्ययः, क्तिन्‌-प्रत्ययः च न विधीयेते, स्थाने '''अ प्रत्ययात्‌''' (३.३.१०२) इत्यनेन स्त्रीलिङ्गे अ-प्रत्ययो भवति | अस्मिन्‌ सूत्रे साक्षात्‌ प्रत्ययान्तधातवः उक्ताः | अनुवृत्तिसहितसूत्रम्‌ अस्ति— '''प्रत्ययात्‌ धातोः अः प्रत्ययः परः स्त्रियां भावे अकर्तरि च कारके संज्ञायाम्‌''' | तदन्तविधिना 'प्रत्ययात्‌ धातोः’ इत्युक्ते प्रत्ययान्तात्‌ धातोः | आहत्य प्रत्ययान्तेभ्यः धातुभ्यः अ-प्रत्ययः विधीयते स्त्रीत्वविशिष्ट-भाव-कर्तृभिन्नकारक-अर्थे | उदाहरणत्वेन भावार्थे जिगीषा (जि-धातुः 'जयति’, जेतुम्‌ इच्छा), चिकीर्षा (कर्तुम्‌ इच्छा), पिपासा, बुभूक्षा | एवं कृत्वा प्रत्ययान्तधातूनां न घञ्‌-प्रत्ययः न वा क्तिन्‌-प्रत्ययः भवति | इति प्रायः इदम्‌ एकम्‌ एव सूत्रम्‌ अष्टाध्याय्यां यस्मिन्‌ प्रत्ययान्तधातवः साक्षात्‌ उक्ताः |</big>
 
 
 
<big>(३) लिट्‌-लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः, किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययः विधीयते '''कास्प्रत्ययादाममन्त्रे लिटि''' (३..१३५३५), '''कास्येनाच आम्‌ वक्तव्यः''' इति सूत्रेण वार्तिकेन च | एताभ्यां कास्‌-धातोः च अनेकाच्‌-धातूनां (यथा दरिद्रा, चकासृ, देधी, वेवी; अपि च प्रत्ययान्तधातवः यथा पाठि, पिपठिष, पापठ्य) लिटि परे द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययविधानम्‌ | अत्र किन्तु साक्षात्‌ प्रत्ययान्तधातवः साक्षात्‌ नोक्ताः | ये औपदेशिकधातवः अनेकाचः, तेषामपि लिटि समानगतिः |  </big>
 
 
 
<big>अनयोः द्वयोः (व्युत्पत्ति विषये, '''अ प्रत्ययात्‌''' (३.३.१)) चेति स्थले भेदो नास्ति कुत्रचित्‌ | एवं च एकवारं यदा धातु-संज्ञा जाता, पुरतः सर्वे धातवः स्थापिताः, ततः अग्रे एकस्मिन्नेव स्थले प्रक्रियाभेदो वर्तते औपदेशिक-आतिदेशिकधात्वोः मध्ये—भावार्थे अ-प्रत्ययः | अन्यत्र सर्वत्र प्रक्रिया समाना |</big>
 
 
Line 1,319:
 
 
<big>परन्तु अपरया दृष्ट्या, समग्रदृष्ट्या, एकवारं यदा सर्वे धातवः पुरतः स्थापिताः, तदा सर्वे धातवः धातुमात्रम्‌ | धातुसंज्ञा एका एव; यद्यपि धातुसंज्ञाविधातकसूत्रद्वयं, तथापि एकेवारं यदा धातुसंज्ञा आगता, तदा धातुसंज्ञायां भेदो नास्ति | आतिदेशिकधातुभ्यः सार्वधातुकप्रक्रियायां '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌-विधीयते | भ्वादिगणः तादृशधातुगणः यस्मिन्‌ धातुभ्यः शप्‌ विधीते, अतः आतिदेशिकधातवः भ्वादिगणीयाः एव | यावन्तः 'औपदेशिकधातवः' भ्वादिगणे सन्ति, तेभ्यः सार्वधातुकप्रक्रियायांम्‌सार्वधातुकप्रक्रियायाम्‌ 'आतिदेशिकधातूनां' कोऽपि भेदो नास्ति | तर्हि सार्वधातुकप्रक्रियायाम्‌ आतिदेशिकधातवः भ्वादिगणे | यथा भू-धातुः, तथा भावि-धातुः, तथा च जिगमिष-धातुः |</big>
 
 
Line 1,331:
 
 
<big>एवं सति कथं वा '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? भवति | कथमिति चेत्‌, तत्र गॄ-धातोः आवश्यकता नास्ति; आवश्यकता अस्ति गॄ-धातोः रेफः | '''ग्रो यङि''' (८.२.२०) इत्यनेन "गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे" | 'जेगिर्‌ + य्' इति स्थितौ गॄ-धातुः नास्ति, परन्तु गॄ-धातोः रेफः अस्ति | '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति इति कृत्वा गिर्‌ +य → '''ग्रो यङि''' (८.२.२०), '''सन्यङोः''' (६.१.९) इत्यनयोः युगपत्‌ प्रसक्तिः; अस्यां दशायां '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ असिद्धम्‌ | द्वित्वाभ्यासकार्यां भवति, तदा वर्णकार्याणि |</big>
 
 
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणाम्‌स्थितसूत्राणां वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
 
 
 
<big>पुनः प्रश्नः उदेति यत्‌ अस्तु, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रम्‌ अस्ति; परन्तु सूत्रे निमित्तं तु यङ्‌-प्रत्ययः अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात्‌ यत्‌ अनुवृत्त्यर्थं लाघवार्थञ्च त्रिपाद्यां स्थापितम्‌ अस्ति परन्तु वस्तुतः अङ्गकार्यम्‌ | यथा '''अभ्यासे चर्च''' (८.४.५४) अभ्यासकार्यं परन्तु त्रिपाद्यां स्थापितम्‌ अनुवृत्त्यार्थम्‌, | अस्य सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति | यत्‌ सूत्रं त्रिपाद्याम्‌ अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां सत्याम्‌ असिद्धिकार्यं भवति; स्वयम्‌ असिद्धं भवति अथवा परत्रिपादि प्रति असिद्धत्वस्य कारणं भवति | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य तादृशकार्यं किमपि नास्ति, परन्तु '''ग्रो यङि''' (८.२.२०) इत्यस्य तु भवति | 'जेगिर् + य' इति स्थले '''हलि च''' (८.२.७७) इत्यस्य प्रसक्तिः | '''ग्रो यङि''' (८.२.२०) पूर्वत्रिपादिसूत्रं, '''हलि च''' (८.२.७७) परत्रिपादिसूत्रम्‌ अतः '''ग्रो यङि''' (८.२.२०) प्रति, '''हलि च''' (८.२.७७) इति सूत्रम्‌ असिद्धम्‌ | '''ग्रो यङि''' (८.२.२०), '''हलि च''' (८.२.७७) इत्यस्य बाधकसूत्रं, येन यङ्‌-प्रत्यये परे '''हलि च''' (८.२.७७) इत्यस्य कार्यं न स्यात्‌ | लत्वं भवति चेत्‌, दीर्घत्वं न भवति |</big>
 
 
Line 1,347:
 
 
<big>अपि च सूत्रस्य क्रमं दृष्त्वादृष्ट्वा अपि अर्थदृष्ट्या वर्णकार्यम्‌ | '''ग्रो यङि''' (८.२.२०) इत्यस्य अनन्तरम्‌ अस्ति '''अचि विभाषा''' (८.२.२१), रो लत्वं भवति चिकल्पेनविकल्पेन अजादि प्रत्यये परे | एतदपि वर्णकार्यं न तु अङ्गकार्यम्‌ | णिचि कर्मणि यकि निगार्यते / निगाल्यते इति रूपद्वयम्‌ | एवेमेव निगरति / निगिलति; निगरणं, निगलनं; निगारकः, निगालकः |</big>
 
 
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu