18 - तव्यत् , तुमुन् , तृच्

Revision as of 16:42, 17 March 2022 by Lakshmi Mandadi (talk | contribs)

7---ArdhadhAtukaprakaraNam/18---tavyat, tumun, tRuc


आर्धधातुक तकारादिकृत् प्रत्ययाः - तव्यत् , तुमुन् , तृच्

आर्धधातुकप्रक्रिया इत्युक्ते केवलं आर्धधातुकतिङ्न्तरूपसिद्धिः ,आर्धधातुककृदन्तरूपसिद्धिः अपि  | अनयोः रूपसिद्धौ (प्रक्रियासाम्यं) कार्यसाम्यं वर्तते  | आर्धधातुकप्रक्रियायाम् इडागम् चिन्तनम् अवश्यं करणीयं भवति  | धातुगणचिन्तनम् आर्धधातुकप्रक्रियायाम् अनावश्यकम् | पूर्वम् अनिडादयाः कृत् आर्धधातुकप्रत्ययाः केचन पठिताः | यथा णिच् प्रत्ययः | णिच् प्रसङ्गे पूर्णतया चिन्तनम् कृतमासीत् | केचन कारादि-आर्धधातुकप्रत्ययाः अपि दृष्टाः | यथा कर्मणिप्रयोगे यक् प्रत्ययः | प्रत्ययः कारादिः इत्यतः तत्र कार्यसाम्यम् अस्ति | अतः तेषां चिन्तनं सामूहिकरूपेण कृतम् | तव्यत् , तुमुन् , तृच् एते त्रयः प्रत्ययाः कृतः आर्धधातुकप्रत्ययाः च एते कारादिप्रत्ययाः , इडनुकूलप्रत्ययाः | कार्यसाम्यम् अस्ति इत्यतः एतेषां त्रयाणां कारादिकृत्प्रत्ययानां चिन्तनम् अस्मिन् करपत्रे मिलित्वा क्रियते | पश्चात् कारादिप्रत्ययाः इडनुकूलप्रत्ययाः सामूहिकरूपेण पाठ्यन्ते    |

धातूनाम् इडागमचिन्तनम्

आर्धधातुकप्रक्रियायाम् अस्माकं सौलभ्यार्थं सर्वे धातवः १४ गणेषु विभक्ताः सन्ति खलु | धातवः केचन सेटः , केचन अनिटः, केचन वेटः इति पूर्वमधीतम् एव |

धातुः सेट् वा अनिट् वा इति कथं ज्ञायते?

एकाच उपदेशेऽनुदात्तात्‌ (७.२.१०) सूत्रेण निष्कर्षत्वेन अवगच्छेम यत्‌ , एकाच्‌-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः इति |

अजन्ताः धातवः आधिक्येन अनिटः  | अतः ये सेटः, ते ज्ञातव्याः | केवलं १४ अजन्तधातवः कण्ठस्थीकरणीयाः;अनेन सर्वेषाम्‌ अजन्तधातूनाम्‌ इड्व्यवस्था मनसि सिद्धा | हलन्त-धातवः आधिक्येन सेटः  | हलन्तधातुषु ये अनिटः ते स्मर्तव्याः | अजन्तधातुषु द्वादश धातवः स्वयं सेटः (श्रि, श्वि, शी, डी, यु, रु, नु, स्नु, क्षु, क्ष्णु, वृञ्‌, वृङ्‌) | अजन्तधातुषु द्वौ धातू यौ न केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधी |

(भू-धातुः सर्वेषाम्‌ ऊकारान्तानां प्रतिनिधिः)

(तॄ-धातुः सर्वेषाम्‌ ॠकारान्तानां प्रतिनिधिः) | प्रत्ययानाम् इडागमविषये पूर्वं किम् अधीतम्?

प्रत्ययानाम् इडागमविषये पूर्वं किम् अधीतम्?

आर्धधातुकस्येड्वलादेः, नेड्‌ वशि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते | तिङ्‌-प्रत्ययः आर्धधातुकः, वलादिः अपि चेत्‌, अयं प्रत्ययः इडागमानुकूलः | कृत्‌-प्रत्ययः वलादिः अवशादिः चेत्‌, अयं प्रत्ययः इडागमानुकूलः |

१. आर्धधातुकस्येड्वलादेः (७.२.३५),

२. नेड्‌ वशि कृति (७.२.८),

३. तितुत्रतथसिसुसरकसेषु च (७.२.९),

इत्येषां त्रयाणां सूत्राणाम् आधारेण सम्यक् परिशीलनानन्तरम्‌ आहत्य त्रिंशत्‌ वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः वर्तन्ते इति ज्ञातम् | तेषु चतुर्दश कारादिप्रत्ययाः | ते एव क्त, क्तवतु, क्त्वा, तव्य, तुमुन्‌, तव्यत्‌, तृच्‌, तृन्‌, तास्‌, तवै, तवेन्‌, तोसुन्‌, त्वन्‌, तवङ्‌ |

पूर्वस्मिन् करपत्रे लुट् लकारः अधीतः | लुट् लकारे तास् इति लकारनिमित्तिकविकरणप्रत्ययः स्यतासी लृलुटोः सूत्रेण प्रथमस्थरे एव, लकारस्य स्थाने लकारावस्थायाम् एव आयाति | तास् प्रत्ययः कारादि प्रत्ययः  | सः लकरनिमित्तिकविकरणप्रत्ययः | तास् प्रत्ययः लुट्लकारं निमित्तीकृत्य आयाति  | लुट् लकाररूपसिद्धिः इत्युक्ते आर्धधातुकप्रक्रिया  |

इदानीं केषांचन तकारादि-आर्धधातुककृत् प्रत्ययानां रूपसिद्धिः उच्यते | तव्यत् , तृच् , तुमुन् एते त्रयः प्रत्ययाः अपि कारादि-आर्धधातुकप्रत्ययाः एव  | किन्तु , एते त्रयः कृदतिङ् सूत्रेण तिङ्वर्जिताः कृत्सज्ञकाः | तावान् एव भेदः | तास्, तव्यत्, तुमुन्, तृच् एतेषां रूपसिद्धौ प्रक्रियासाम्यं वर्तते  | अतः एतेषां रूपसिद्धिः मिलित्वा कुर्मः चेत् न कापि समस्या | लुट् प्रक्रिया ज्ञाता खलु पूर्वम् | प्रक्रियासाम्यमस्तीत्यतः तव्यत् , तुमुन् , तृच् इत्येतेषां रूपाणि इदानीं सौलभ्येन साधयितुं शक्नुमः | प्रत्येकं धातुतः तव्यत् , तुमुन् , तृच् इत्येषां त्रयाणां प्रत्ययानां संयोजनावसरे स्मर्तव्यानि नूतनानि सूत्राणि कानि इति पश्येम  | तेषां रूपसिद्धेः विषये नूतनं किम् अध्येतव्यम् इति अधः दीयते |

तव्यत्, तुमुन्, तृच् एतेषां विधानार्थं विधिसूत्राणि ज्ञातव्यानि |

तुमुन् प्रत्ययः - विधिसूत्रं, तत्सम्बद्धसूत्राणि च

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्

समानकर्तृकेषु तुमुन्

शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्

पर्याप्तिवचनेष्वलमर्थेषु

कालसमयवेलासु तुमुन्

कृन्मेजन्तः

तव्यत् प्रत्ययः - विधिसूत्रं, तत्सम्बद्धसूत्राणि च

तव्यत्तव्यानीयरः

अर्हे कृत्यतृचश्च

कृत्याश्च

कृत्याः

तयोरेव कृत्यक्तखलर्थाः

पञ्च उपाङ्गानि

यदा आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात्‌ प्राक्‌ पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |

इमानि पञ्च उपाङ्गनि सन्ति—

१) प्रत्ययादेशः

२) धात्वादेशः

३) इडागमः

४) अतिदेशः

५) द्वित्वम्‌ अभ्यासकार्यञ्च

सामान्यम्‌ अङ्गकार्यम्

केनचित्‌ अतिदेशसूत्रेण तव्यत् , तुमुन् , तृच् प्रत्ययाः ङिद्वत्‌ भवन्ति चेत्‌, इगन्तधातूनां च लघूपधधातूनां च इकः गुणादेशो भवति एव | इगन्तधातवः

इगन्तधातवः

नी + तव्यत् → नी + तव्य →  सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतव्य → नेतव्यः, नेतव्या, नेतव्यम्

नी + तुमुन् → नी + तुम्  →  सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतुम्

नी + तृच्  → नी + तृ   →  सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतृ → नेता , नेत्री , नेतृ

हु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतव्यम्

हु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतुम्

हु + तृच्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतृ (होता पुंसि , होतृ नपुंसि , होत्री स्त्रियाम्)

कृ + तुमुन्  → सार्वधातुकार्धधातुकयोः (७.३.८४) →कर्तुम्

कृ + तव्यत्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तव्यम्

कृ +तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तृ ( कर्ता ) इगन्तधातुः सेट्‌ अस्ति चेत्‌, यान्तवान्तसन्धिरपि भवति |

इगन्तधातुः सेट्‌ अस्ति चेत्‌, यान्तवान्तसन्धिरपि भवति |

शी + इतव्य  → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतव्य → एचोऽयवायावः (६.१.७७) → शय्‌ + इतव्य → शयितव्यम्

शी + इतुम्   → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतुम्  → एचोऽयवायावः (६.१.७७) → शय्‌ + इतुम्  → शयितुम्

शी + इतृ   → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतृ  → एचोऽयवायावः (६.१.७७) → शय्‌ + इतृ → शयितृ (शयिता )

यु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतव्य → एचोऽयवायावः (६.१.७७) → यव्‌ + इतव्य → यवितव्यम्

यु + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतुम् → एचोऽयवायावः (६.१.७७) → यव्‌ + इतुम् → यवितुम् (अव्ययम्)

यु + इतृ→ सार्वधातुकार्धधातुकयोः (७.३.८४)→ यो + इतृ → एचोऽयवायावः (६.१.७७)→यव्‌ + इतृ →यवितृ (यविता, यवित्री ,यवितृ )


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः |


अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |

एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एचः अयवायावः अचि संहितायाम्‌ | लघूपधधातवः (सेट् धातुः )

लघूपधधातवः (सेट् धातुः )

लिख्‌ → लिख्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख्‌ + इतव्य →लेखितव्यः, लेखितव्या, लेखितव्यम्

लिख्‌ → लिख्‌ + इतुम्  → पुगन्तलघूपधस्य च (७.३.८६) → लेख्‌ + इतुम् → लेखितुम्

लिख्‌ → लिख्‌ + इतृ  → पुगन्तलघूपधस्य च (७.३.८६) → लेख्‌ + इतृ → लेखितृ , लेखिता , लेखित्री

एवमेव,

मिद्‌ → मिद् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतव्य → मेदितव्यम्

मिद्‌ → मिद् + इतुम्  → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतुम् → मेदितुम्

मिद्‌ → मिद् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतृ → मेदितृ , मेदिता , मेदित्री

वृष्‌ → वृष्‌  + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतव्य → वर्षितव्यम्

वृष्‌ → वृष्‌  + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतुम् → वर्षितुम्

वृष्‌ → वृष्‌  + इतृ  → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतृ → वर्षितृ , वर्षिता , वर्षित्री


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ |


मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |

विशेषलघूपधधातवः

कृप् धातुः

कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |

कृप्‌ + तव्यत् / तृच् / तुमुन् →पुगन्तलघूपधस्य च (७.३.८६) → कर्प्‌ + तव्यत् / तृच् / तुमुन् → कृपो रो लः (८.२.१८)→कल्प्‌ + तव्यत् / तृच् / तुमुन् → कल्पितव्यं , कल्पिता , कल्पितुम्

मृज्‌-धातोः वृद्धिः

मृज्‌ + तव्यत् → मृजेर्वृद्धिः (७.२.११४) → मार्ज्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टव्यम्

मृज्‌ + तुमुन् → मृजेर्वृद्धिः (७.२.११४) → मार्ज्‌ + तुम्  → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टुम्  

मृज्‌ + तृच् → मृजेर्वृद्धिः (७.२.११४) → मार्ज्‌ + तृच्  → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टा

अत्र ष्टुना ष्टुः सूत्रेण ष्टुत्वसन्धिकार्यम् अपि भवति |

मृजेर्वृद्धिः (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इकोगुण्वृद्धी (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, तुक्‌-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |

मृज्‌-धातुः वे‌ट्‌

अतः 'मृज्‌ + इतव्य ' इति रूपमपि कल्पनीयम्‌ |

अत्रापि वृद्धिकार्यं, किन्तु प्रत्ययः अजादिः ( इतव्य ) अतः हल्सन्ध्यवसरो नास्ति |

तेन अस्य धातोः इड् सहितानि रूपाणि मार्जितव्यम् , मार्जितुं , मार्जिता |

कुटादिगणीयधातवः - अतिदेशः

केनचित्‌ अतिदेशसूत्रेण एते त्रयः प्रत्ययाः ङिद्वत्‌ भवन्ति चेत्‌, गुणकार्यं निषिध्यते |

एते त्रयः प्रत्ययाः ङिद्वत्‌ चेत्‌ क्क्ङिति च (१.१.५) सूत्रेण गुणनिषेधः प्राप्यते |

क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) भवति | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |

३५ कुटादयः धातवः अपि च विज्‌-धातुः, आहत्य ३६ धातुभ्यः एते त्रयः प्रत्ययाः ( तव्यत् , तुमुन् , तृच् ) विहिताः चेत् ङिद्वत्‌ भवन्ति इति कारणतः क्क्ङिति च (१.१.५) इत्यनेन गुणः निषिध्यते |

कुटादिगणसदस्यः नू धातुः

यथा इगन्तधातुषु—‌

नू + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भूत्वा → तव्यत् -प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌ → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → नू +इतव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ्‌ उवङ्‌ आदेशो भवति जादि-प्रत्यये परे → नुव्‌ + इतव्य → नुवितव्यम्

एवमेव चिन्तनम् अपेक्षितं तुमुन्, तृच् योजनसमये अपि | कुटादिगणस्य अन्यसदस्याः अत्र दीयन्ते |

कुटादिगणस्य अन्यसदस्याः अत्र दीयन्ते |

उपरितनम् उदाहरणं दृष्ट्वा इमानि रूपाणि साधयन्तु |

धू + इतव्य →

धू + इतुम्  →

धू + इतृच्  →

गु + इतव्य →

गु + इतुम् →

गु + इतृ →

कु + इतव्य →

कु + इतुम्  →

कु + इतृ  → कुटादिगणस्य ऊर्णु धातुः

कुटादिगणस्य ऊर्णु धातुः

एकस्मिन् पक्षे ङिद्वत्त्वं भवति, अतः गुणनिषेधः |

ऊर्णु + इ + तव्य → इतव्य  विकल्पेन ङिद्वत्‌ | अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन्‌ पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ्‌ आदेशो भवति जादि-प्रत्यये परे → ऊर्णुवितव्यम्

अपक्षे ङिद्वत्त्वं भवति अतः गुणप्रसङ्गः—

ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्

ऊर्णु + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतुम् → एचोऽयवायावः (६.१.७७) → ऊर्णवितुम्

ऊर्णु + इ तृच्→ सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतृ → एचोऽयवायावः (६.१.७७) → ऊर्णवितृ →  ऊर्णविता कुटादिगणस्य लघूपधधातुषु—‌

कुटादिगणस्य लघूपधधातुषु—‌

डिप् धातुः

डिप्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ → तव्यत् प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → डिपितव्यम्

एवमेव—‌

पुट्‌ + इतव्य → पुटितव्यम्

पुट्‌ + इतुम् → पुटितुम्

पुट्‌ + इतृ → पुटिता

स्फुर्‌ + इतव्य →स्फुरितव्यम्

स्फुर्‌ + इतुम्  → स्फुरितुम्

स्फुर्‌ + इतृ → स्फुरिता

कृड्‌ + इतव्य → कुडितव्यम्

कृड्‌ + इतुम्  → कुडितुम्

कृड्‌ + इतृ  → कुडिता

उत् उपसर्गपूर्वकः विज् धातुः

उद्विज्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → विज इट्‌ (१.२.२) इत्यनेन तुदादिगणीय-विज्‌-धातुतः सर्वे विधीयमानाः से‌ट्‌-प्रत्ययाः ङिद्वत्‌ → तव्यत् प्रत्ययः अत्र इडादिः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम् सामान्यम्‌ अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तव्यत् / तुमुन् / तृच् रूपसिद्धिः उक्तः |

सामान्यम्‌ अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तव्यत् / तुमुन् / तृच् रूपसिद्धिः उक्तः |

एतावत् पर्यन्तम् अङ्गकार्यस्य विषये केचन विशेषाः एव उक्ताः |

पञ्च उपाङ्गकार्याणि / विशिष्ट-अङ्गकार्याणि अपि ज्ञातव्यानि |

१ )धात्वादेशः

अस् धातुः

अस्तेर्भूः (२.४.५२) | भवितव्यम् , भवितुम् , भविता

अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अस्‌-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अस्तेः भूः आर्धधातुके |

ब्रूञ् धातुः

ब्रुवो वचिः (२.४.५३) | वक्तव्यं , वक्तुं , वक्ता |

ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |

चक्षिङ्-धातुः—

चक्षिङः ख्याञ्‌ (२.४.५४) | ख्यातव्यं / क्शातव्यम् , ख्यातुं / क्शातुम् , ख्याता / क्शाता |

चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम्‌ (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति |

फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ | चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |

चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |

अज्‌ धातुः—

अजेर्व्यघञपोः (२.४.५६) | अज्‌ → वेतव्यं , वेतुं , वेता |

अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रम्‌—अजेः वी आर्धधातुके अघञपोः |

ध्यै धातुः—एजन्तधातुः

आदेच उपदेशेऽशिति (६.१.४५) | ध्यै → ध्यातव्यं , ध्यातुं , ध्याता

आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |

अन्ये एजन्तधातवः , तेषां तव्यत् , तृच् , तुमुन् रूपाणि |

ग्लै → ग्ला → ग्लातव्यं , ग्लातुं , ग्लाता

म्लै → म्ला → म्लातव्यं , मलातुं , म्लाता

ध्यै → ध्या → ध्यातव्यं , ध्यातुं , ध्याता

शो → शा → शातव्यं , शातुं , शाता

सो → सा → सातव्यं , सातुं , साता

वे → वा → वातव्यम् , वातुं ,वाता

छो → छा → छातव्यम् , छातुम् , छाता

भ्रस्ज्‌ धातुः

भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) | भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा |

भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम्‌ इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम्‌ इत्यस्मिन्‌ अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्‌, अन्यतरस्यां सप्त्यम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम्‌ अन्यतरस्याम्‌ आर्धधातुके |

भ्रस्ज्‌ + तव्यत् → भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज्‌ → रेफः इति आगमः → भर्ज्‌ → भर्ज्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → भर्ष्टव्यम्‌

तदभावे—

भ्रस्ज्‌ + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → भ्रष्टव्यम्‌

एवमेव अस्य धातोः  तुमुन् प्रसङ्गे रूपद्वयं संपद्यते भ्रष्टुं, भर्ष्टुम् |

तृच् प्रसङ्गे अपि रूपद्वयं भ्रष्टा, भर्ष्टा |

मीञ्‌ ,मिञ्‌ ,दीङ्‌ धातुत्रयम् —

मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) |

मीञ्‌ → मा → प्रमाता , प्रमातव्यं , प्रमातुम्

मिञ्‌ → मा → मातव्यं , मातुं , माता

दीङ्‌ → दा → उपदातव्यं , उपदातुम् , उपदाता

मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन अशिति इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |

ली धातुः —

विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति ।

ली → ला → विलाता , विलतव्यं , विलातुम् |

आत्वाभावे विलेता , विलेतव्यं , विलेतुम् |

गुहू (संवरणे) धातुः —

ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्‌-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात्‌ गुणहेतौ अजादौ प्रत्यये | ऊत्‌ प्रथमान्तम्‌, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— गोहः अङ्गस्य उपधायाः ऊत्‌ अचि |

धेयं यत्‌ अत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव; केवलम्‌ गुणनिमित्तक-अजादि प्रत्यये परे |

अतः लटि अपि ऊत्‌-आदेशो भवति—

गुह्‌ + शप्‌ + ति → गुह्‌ + अ + ति → उपधागुणस्य प्रसङ्गत्वात्‌ ऊत्‌-आदेशः → गूह्‌ + अ + ति → गूहति |

आर्धधातुकप्रसङ्गे गुहू-धातुः वे‍ट्‌;

तव्यत् / तृच् / तुमुन् प्रत्ययाः इडागमपक्षे अजादिप्रत्ययाः | अजादिप्रत्ययाभावे ऊत्वम्‌ |

अतः गुह्‌ → गूहिता , गूहितव्यं , गूहितुम्

अजादिप्रत्ययाभावे ऊत्वम्‌ → गोढा , गोढुम् , गोढव्यम्

चिकीर्ष सन्नन्तधातुः —

अतो लोपः (६.४.४८) | चिकीर्ष → चिकीर्षिता , चिकीर्षितव्यं , चिकीर्षितुम्

अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |

बेभिद्य आतिदेशिकधातुः —

यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे |

बेभिद्य + तव्यत् / तुमुन् / तृच् → बेभिदितव्यं , बेभिदितुं , बेभिदिता |

समिध्य आतिदेशिकधातुः —

क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्‌-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके |

समिध्य → समिधितव्यं / समिध्यितव्यं , समिधितुम् / समिध्यितुम्  ,  समिधिता / समिध्यिता |

कृप्‌ धातुः —

कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |

कृप्‌ → पुगन्तलघूपधस्य च (७.३.८६) → कर्प्‌ → कृपो रो लः (८.२.१८) → कल्प्‌ → कल्पिता , कल्पितुं , कल्पितव्यम्

कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |

कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्‌-धातोः रेफस्य लकारादेशः; कृप्‌-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलं; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ | दृष्टान्तत्वेन अपरेषु स्थलेषु कथं अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—

लटि कल्पयति/ते | कृप्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते

एतावत् पर्यन्तं पञ्चसु उपाङ्गकार्येषु धात्वादेशस्य प्रसङ्गे पठितम् |

२ )इडागमः

इडागमपाठः पूर्वम्‌ अधीतः | तत्र च सामान्यं ज्ञातम्‌ | नाम, धातुः अपि से‌ट्‌, प्रत्ययः अपि इडानुकूलः इति चेत्‌, इडागमो भवति |

तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम्—

आर्धधातुकस्येड्वलादेः (७.२.३५),

नेड्‌ वशि कृति (७.२.८),

तितुत्रतथसिसुसरकसेषु च (७.२.९) |

किन्तु ,तिङन्तप्रसङ्गे च तेषु एकमेव—आर्धधातुकस्येड्वलादेः (७.२.३५) |

तव्यत् / तुमुन् / तृच एते प्रत्ययाः सेटः इत्यतः इतव्य , इतुम् , इतृ इति सेट् प्रत्ययाः योजनीयाः सेट् धातुभ्यः |

लिख्‌ + तव्यत् → लिख्‌ + तव्य → पुगन्तलघूपधस्य च → लेख्‌ + तव्य → इडागमः → लेखितव्य → लेखितव्यम्

लिख्‌ + तृच्‌ → लिख्‌ + तृ → पुगन्तलघूपधस्य च → लेख्‌ + तृ → इडागमः → लेखितृ (लेखिता)

लिख्‌ + तुमुन् → लिख्‌ +तुम् → पुगन्तलघूपधस्य च → लेख्‌ + तुम् → इडागमः → लेखितुम्

धातुः अनिट् चेत् तव्य , तृ , तुम् इति अनिट् प्रत्ययाः प्रयोक्तव्याः  |

यथा अनिट् ,

नी + तृच्‌ → नी + तृ‌ → ने + तृ → नेतृ (नेता)

नी + तुमुन् → नी + तुम् → ने + तुम् → नेतुम्

नी + तव्यत् → नी + तव्य → ने + तव्य → नेतव्य

इडागमस्य विशेषाः—

तव्यत् / तुमुन् / तृच् एते तकारादि-आर्धधातुकप्रत्ययाः |

अतः एभ्यः पञ्चभ्यः धातुभ्यः तीषसहलुभरुषरिषः (७.२.४८) सूत्रेण वा इडागमो भवति —

इष्‌ →  एष्टव्यम् / एषितव्यम् ,   एष्टा / एषिता ,   एष्टुम् / एषितुम्

सह्‌ → सोढव्यम् , सहितव्यम् ,   सोढुम् / सहितुम् ,  सोढा / सहिता

लुभ्‌ → लोब्धव्यम् / लोभितव्यम् ,  लोब्धा / लोभिता , लोब्धुम् , लोभितम्

रुष्‌ →  रोष्टव्यम्  / रोषितव्यम्  , रोष्टुम् / रोषितुम् , रोष्टा / रोषिता

रिष्‌ →  रेष्टव्यम्  / रेषितव्यम् ,   रेष्टुम् / रेषितुम् ,   रेष्टा / रेषिता

तीषसहलुभरुषरिषः (७.२.४८) = दिवादिगणे इष्‌-धातुः, सह्‌, लुभ्‌, रुष्‌, रिष्‌ इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्‌, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ |

३ )अतिदेशः —

अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा, तस्मात्‌ भिन्नो भवति | अनेन नूतनलक्षणम्‌ अध्यारोप्यते | अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि (विरलतया अन्यत्रापि प्राप्यते) | एभिः सूत्रैः त्रयाणां गुणानाम्‌ अध्याहारः— ङित्त्वं, कित्त्वम्‌, अकित्त्वञ्च | १.२.१ इत्यस्मात्‌ आरभ्य १.२.२६ इति यावत्‌ अतिदेशप्रकरणम्‌ | तस्मिञ्च प्रथमचत्वारि सूत्राणि सामान्यानि; १.२.५ इत्यस्मात्‌ आरभ्य विशिष्टसूत्राणि; इमानि च सर्वाणि आर्धधातुकप्रक्रियायामेव |

सार्वधातुकप्रक्रियायाम्‌ एकमेव अतिदेशसूत्रम्‌—सार्वधातुकमपित्‌ (१.२.४) | इदञ्च सामान्यम्‌ अतिदेशसूत्रम्‌ | अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्रणि आर्धधातुकप्रक्रियायां भवन्ति | एतावता अतिदेशसूत्रचिन्तनम्‌ अधिकं नापेक्षितम्‌ आसीत्‌ यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपित्‌ (१.२.४) | तदा आर्धधातुकप्रक्रियायां यत्र इडागमो न भवति—प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः—एषु स्थलेषु अतिदेशसूत्रणि न प्रसक्तानि | इतः आरभ्यः अतिदेशचिन्तनम्‌ अपेक्षितम्‌ |

यथोक्तम्‌ आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि | तानि च—

गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)

विज इट्‌ (१.२.२)

विभाषोर्णोः (१.२.३)

इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | एषां त्रयाणामपि कार्यं भवति तव्यत् , तुमुन् तृच् प्रत्ययेषु परेषु | ततः अग्रे अन्यानि विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम्‌ अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्‌ इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातुमवलम्ब्य |

इङ्‌ धातुः , गाङ्‌-धातुः च

गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्‌-धातोः स्थाने यः गाङ्‌-धातुः तस्मात्‌ च कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ्‌ च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ्‌ च ण्‌ च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित्‌ बहुव्रीहिः, न ञ्णित्‌ अञ्णित्‌, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्‌— गाङ्कुटादिभ्यः अञ्णित्‌ ङित् |

तव्यत् , तृच्, तुमुन् एते प्रत्ययाः ञित्‌-णित्‌-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत्‌ भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति | एतदेव च गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य प्रयोजनं— गुणनिषेधः |

अत्र प्रश्नः उदेति किमर्थम्‌ उच्यते यत्‌ गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) केवलम्‌ आर्धधातुकप्रक्रियायाम्‌?

किमर्थं न सार्वधातुकप्रक्रियायाम्‌ अस्य कार्यं स्यात्‌?

अस्य उत्तरमिदं यत्‌ सर्वे कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव | नाम, सर्वे कुटदिगणीयाः धातवः तुदादिगणे एव | तुदादिगणे विकरणप्रत्ययः श; तस्य च 'श'-प्रत्ययस्य अपित्त्वात्‌ सर्वत्र तुदादिगणे धातौ गुणनिषेधः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रस्य कार्यं तु गुणनिषेधः एव—यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकमपित्‌ (१.२.४) इत्यनेन साधितः—

अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रं निष्प्रयोजनम्‌ |

अपि च यथा अग्रे उच्यते, गाङ्‌-धातुः सार्वधातुकप्रक्रियायां न भवति यतोहि अयं गाङ्‌ इङ्‌-धातोः स्थाने एव भवति |

स च धात्वादेशः केवलम्‌ आर्धधातुकप्रक्रियायाम्‌ एव भवति |

क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |

व्यचेः कुटादित्वमनसीति वक्तव्यम्‌ इति वार्तिकेन व्यच्‌-धातोः कुटादित्वं कृत्‌-प्रत्ययेषु परेषु एव | कुटादयः धातवः ; तेषां तव्यत् , तुमुन्, तृच् रूपाणि च अत्र प्रदर्श्यन्ते—

कुटादयः धातवः ; तेषां तव्यत् , तुमुन्, तृच् रूपाणि च अत्र प्रदर्श्यन्ते—

कुटादिगणसदस्याः पञ्च अजन्तधातवः

धातुः                     तव्यत् तुमुन् तृच्

गु पुरीषोत्सर्गे        गुतव्यम्     गुतुम्      गुता

कुङ्‌ शब्दे                कुतव्यम्   कुतुम्      कुता   

ध्रु गतिस्थैर्ययोः        ध्रुतव्यम्     ध्रुतुम्      ध्रुता

णू स्तवने                नुवितव्यम्   नुवितुम्    नुविता

धू विधूनने              धुवितव्यम्    धुवितुम्  धुविता

सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः;

णू, धू, च सेटौ इत्यतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्‌-आदेशः |

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि |

कुटादिगणे हलन्तधातवः

धातुः                          तृच् तव्यत् तुमुन्

डिप क्षेपे                    डिपिता / डिपितव्यम् / डिपितुम्

कुच सङ्कोचने             कुचिता / कुचितव्यम् / कुचितुम्

गुज शब्दे                    गुजिता / गुजितव्यम् / गुजितुम्

कुटा कौटिल्ये             कुटिता /  कुटितव्यम् / कुटितुम्

पुट संश्लेषणे             पुटिता / पुटितव्यम् / पुटितुम्

स्फुट विकसने             स्फुटिता / स्फुटितव्यम् / स्फुटितुम्

मुट आक्षेपमर्दनयोः       मुटिता / मुटितव्यम् /  मुटितुम्

त्रुट छेदने                      त्रुटिता / त्रुटितव्यम् / त्रुटितुम्

तुट कलहकर्मणि              तुटिता / तुटितव्यम् / तुटितुम्

चुट छेदने                      चुटिता / चुटितव्यम् / चुटितुम्

छुट छेदने                       छुटिता / छुटितव्यम् /  छुटितुम्

जुट बन्धने                       जुटिता / जुटितव्यम् / जुटितुम्

लुट संश्लेषणे                लुटिता / लुटितव्यम् / लुटितुम्

घुट प्रतिघाते                घुटिता / घुटितव्यम् / घुटितुम्

गुड रक्षायाम्‌                गुडिता / गुडितव्यम्  गुडितुम्

कुड बाल्ये                        कुडिता / कुडितव्यम् / कुडितुम्

पुड उत्सर्गे                         पुडिता / पुडितव्यम् / पुडितुम्

तुड तोडने                         तुडिता / तुडितव्यम् /  तुडितुम्

थुड संवरणे                        थुडिता / थुडितव्यम् / थुडितुम्

स्थुड संवरणे                 स्थुडिता / स्थुडितव्यम् / स्थुडितुम्

स्फुड संवरणे                  स्फुडिता / स्फुडितव्यम् / स्फुडितुम्

चुड संवरणे                         चुडिता / चुडितव्यम् / चुडितुम्

व्रुड संवरणे                          व्रुडिता / व्रुडितव्यम् / व्रुडितुम्

क्रुड निमज्जने                  क्रुडिता  / क्रुडितव्यम् / क्रुडितुम्

छुर छेदने                            छुरिता / छुरितव्यम् / छुरितुम्

गुरी उद्यमाने                    गुरिता / गुरितव्यम् /   गुरितुम्

स्फुर सञ्चलने                    स्फुरिता / स्फुरितव्यम् / स्फुरितुम्

स्फुल सञ्चलने                    स्फुलिता / स्फुलितव्यम् / स्फुलितुम्

भृड निमज्जने                      भृडिता / भृडितव्यम् / भृडितुम्

कृड घनत्वे                             कृडिता / कृडितव्यम् / कृडितुम्

एतेषु धातुषु  गुणनिषेधः भवति क्क्ङिति च (१.१.५) सूत्रेण |

ओविजी भयचलनयोः विज्‌ धातुः

विज इट्‌ (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— विजः इट्‌ ङित्‌|

यथा—

उद्‌ + विज्‌ + इतव्य  → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्

ऊर्णु धातुः

विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति |

विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | विज इट्‌ (१.२.२) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— ऊर्णोः इट्‌ ङित् विभाषा |

यथा—

ऊर्णु + इतव्य → इतव्य विकल्पेन ङिद्वत्‌ अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन्‌ पक्षे गुणनिषेधः → ऊर्णु + इतव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्य → ऊर्णुवितव्यम्

अपक्षे ङिद्वत्त्वं भवति अतः गुणप्रसङ्गः—

ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्

एवमेव तुमुन् , तृच् अनयोः प्रसङ्गे अपि अस्य धातोः रूपाणि साधनीयानि |

विज इट्‌ (१.२.२), विभाषोर्णोः (१.२.३) इति द्वे सूत्रे सार्वधातुकप्रक्रियायं किमर्थं भवति?

द्वे‍ऽपि सूत्रे इडागमम्‌ अवलम्ब्य कार्यं कुरुतः |

स च इडागमः सार्वधातुकप्रक्रियायांं भवति एव |

इति तव्यत् , तुमुन् , तृच् इत्येतेषां त्रयाणां प्रत्ययानां प्रसङ्गे अतिदेशकार्याणि समाप्तानि |

त्रीणि अपि सूत्राणि सामान्यानि; अग्रे गत्वाऽपि आर्धधातुकप्रक्रियायां सर्वत्र एषां प्राप्तिर्भवति |

तर्हि एतावता अस्माभिः दृष्टं यत्‌ धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात्‌ पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—

१) धात्वादेशः— प्रसङ्गवशात्‌ धातोः आकृतिः तु न परिवर्तनीया?

२) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः? अपि च विद्यमान-प्रत्ययस्य प्रभावेन अनिट्‌-धातुः से‌ट्‌ तु न जायमानः? अथवा प्रत्ययस्य प्रभावेन सेट्‌-धातुः तु वे‌ट्‌ न जायमानः?

३) अतिदेशः— केनचित्‌ अतिदेशसूत्रेण प्रत्ययः ङिद्वत्‌ अथवा किद्वत्‌ इति भवति वा?

अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम्‌ अङ्गकार्यं साधनीयम्‌ |

सामान्यम्‌ अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः इदं वर्गीकरणम्‌ अनुसृत्य चिन्तनीयम्‌—‌‌

१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः |

२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः |

३) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः |

४) णिजन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |

५) सन्नन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |

६) यङन्तधातूनां तव्यत् , तुमुन् , तृच् रूपसिद्धिः |

७) यङ्लुगन्तधातूनां  तव्यत् , तुमुन् , तृच् रूपसिद्धिः |

८) क्यच्‌, क्यष्‌, क्यङ्‌-प्रत्ययान्तधातूनां  तव्यत् , तुमुन् , तृच्  रूपसिद्धिः |

अग्रे गत्वा सर्वत्र धातुः सेट्‌ इति चेत्‌, ‘इडादय-प्रत्ययाः' संयोजनीयाः | धातुः अनिट्‌ इति चेत्‌, ‘अनिडादय-प्रत्ययाः' संयोजनीयाः |

भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां  तव्यत् , तुमुन् , तृच्  रूपसिद्धिः |

आकारान्ताः च एजन्ताः च धातवः

सामान्याः आकारान्तधातवः

आकारान्तधातवः सर्वे एकाचः अनिटः सन्ति |

अत्र च किमपि विशिष्टकार्यं वर्तते |

अतः एतेभ्यः धातुभ्यः अनिट् प्रत्ययः विहितः भवति |

दा + तृच् → दातृ → दाता

पा + तृच् → पातृ →पाता

दा + तुमुन् → दातुम्

पा + तुमुन् → पातुम्

दा + तव्यत् → दातव्य → दातव्यम्

पा + तव्यत् → पातव्य → पातव्यम्

दरिद्रा-धातुः

अनेकाच्‌-धातवः सर्वे सेटः इति जानीमः |

अत्र तादृशः एकः आकारान्तधातुः वर्तते— दरिद्रा-धातुः |

तत्र च एकं वार्तिकमस्ति—

दरिद्रातेरार्धधातुके लोपो वक्तव्यः इत्यनेन दरिद्रा-धातोः आर्धधातुके प्रत्यये परे आकारलोपो भवति |

दरिद्रा + इ + तृच् → दरिद्र्‌ + इ + तृ → दरिद्रितृ  → दरिद्रिता ( पुंसि ) , दरिद्रित्री ( स्त्रियाम् ) , दरिद्रितृ ( नपुंसि )

दरिद्रा + इ + तुमुन्  → दरिद्र्‌ + इ + तुम् → दरिद्रितुम्   ( अव्ययम् )

दरिद्रा + इ + तव्यत्  → दरिद्र्‌ + इ + तव्य →   दरिद्रितव्य ( प्रातिपदिकम् )

दरिद्रितव्य प्रातिपदिकस्य सुबन्तरूपाणि त्रिषु लिङ्गेषु रूपाणि → दरिद्रितव्यः , दरिद्रितव्या , दरिद्रितव्यम्

एजन्तधातवः

आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |

धे + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → धा + तव्य → धातव्य  → धातव्यम् , धातव्या , धातव्यः

धे + तुमुन्  → आदेच उपदेशेऽशिति (६.१.४५) → धा + तुमुन्  → धातुम्

धे + तृच्  → आदेच उपदेशेऽशिति (६.१.४५) → धा + तृ → धातृ → धाता , धात्री , धातृ

ध्यै + तव्यत्  → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तव्य → ध्यातव्य  → ध्यातव्यः , ध्यातव्या , ध्यातव्यम्

ध्यै + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तुम् → ध्यातुम्

ध्यै + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तृ → ध्यातृ → ध्याता , ध्यात्री , ध्यातृ ( त्रिषु लिङ्गेषु रूपाणि )

शो + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तव्य  → शातव्य → शातव्यम् , शातव्यः , शातव्या

शो + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तृ → शातुम्

शो + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तृ → शातृ  → शाता , शात्री , शातृ

गै + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तव्य → गातव्य → गातव्यः , गातव्या , गातव्यम्

गै + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तुम् → गातुम्

गै + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तृ → गातृ → गाता , गात्री , गातृ

इकारान्तधातवः |

सामान्याः इकारान्तधातवः |

अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |

अपि च श्रि, श्वि इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तधातवः अनिटः |

जि + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति →जे + तव्य → जेतव्यम्

जि + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + तुम् → जेतुम्

जि + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + तृ → जेता

चि + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→ चे + तव्य → चेतव्यम्

चि + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → चे  + तुम् → चेतुम्

चि + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → चेतृ → चेता ,चेत्री , चेतृ

अधि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → अधि + इ + तव्य → अध्येतव्य → अध्येतव्यः , अध्येतव्या , अध्येतव्यम्

अधि + इ + तुमुन्→ सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→अधि + इ + तुम् → अध्येतुम्

अधि + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → अधि + ए + तृ →  अध्येतृ  → अध्येता , अध्येत्री , अध्येतृ

श्रि, श्वि इति धातू

इमौ द्वौ धातू सेटौ इति जानीमः |

श्रि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतव्य → एचोऽयवायावः (६.१.७७) → श्रयितव्य → श्रयितव्यम्

श्रि + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतुम् → एचोऽयवायावः (६.१.७७) → श्रयितुम्

श्रि + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतृ → एचोऽयवायावः (६.१.७७) → श्रयितृ → श्रयिता , श्रयित्री , श्रयितृ

श्वि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →  श्वे + इतव्य → एचोऽयवायावः (६.१.७७) → श्वयितव्य → श्वयितव्यम्

श्वि + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →  श्वे + इतुम् → एचोऽयवायावः (६.१.७७) → श्वयितुम्

श्वि + इ+ तृच् →सार्वधातुकार्धधातुकयोः (७.३.८४)→ श्वे + इतृ → एचोऽयवायावः (६.१.७७) → श्वयितृ → श्वयिता, श्वयित्री, श्वयितृ

डुमिञ्‌ प्रेक्षणे

मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन अशिति इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |

क्र्यादौ मीञ् हिंसायां,

स्वादौ डुमिञ् प्रक्षेपणे,

दिवादौ दीङ् क्षये

इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये |

नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति |

डुमिञ्‌ + तव्यत् → मि + तव्य → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + तव्य → मातव्य  → मातव्यः , मातव्या , मातव्यम्

डुमिञ्‌ + तुमुन्  → मि + तुम् → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + तुम्  → मातुम्

डुमिञ्‌ + तृच् → मि + तृ  → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये ,

→ मा + तृ → माता, मात्री , मातृ

एवमेव

१.क्र्यादौ मीञ् हिंसायां,

२.दिवादौ दीङ् क्षये

धातुद्वयस्य तव्यत् , तुमुन् , तृच् रूपसिद्धिः अपि भवति |

ईकारान्तधातवः

ईकारान्तधातवः सामान्याः

अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |

डीङ्‌, शीङ्‌ इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तधातवः अनिटः |

नी + तव्यत्→ सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + तव्य → नेतव्यम्

नी + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + तुमु → नेतुम्

नी + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→ ने + तृ→ नेतृ → नेता

भी + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतव्य → भेतव्यः , भेतव्या , भेतव्यम्

भी + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतुम्

भी + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतृ → भेता , भेत्री , भेतृ

क्री + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तव्य → क्रेतव्य →  क्रेतव्यः , क्रेतव्या , क्रेतव्यम्

क्री + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तुम् → क्रेतुम्

क्री + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तृ → क्रेतृ → क्रेता , क्रेत्री , क्रेतृ

डीङ्‌, शीङ्‌ इति धातू

इमौ द्वौ धातू सेटौ इति जानीमः |

डीङ्‌ + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतव्य → एचोऽयवायावः (६.१.७७) → डयितव्य → डयितव्यम्

डीङ्‌ + इतुमुन्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतुम्  → एचोऽयवायावः (६.१.७७) → डयितुम्

डीङ्‌ + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतृ → एचोऽयवायावः (६.१.७७) → डयितृ → डयिता , डयित्री , डयितृ

शीङ्‌ + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतव्य → एचोऽयवायावः (६.१.७७) → शयितव्य →शयितव्यम्

शीङ्‌ + इतुमुन्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतुम्  → एचोऽयवायावः (६.१.७७) → शयितुम्

शीङ्‌ + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतृ → एचोऽयवायावः (६.१.७७) → शयितृ →शयिता , शयित्री ,शयितृ

दीधी, वेवी

दीधी, वेवी इति द्वौ धातू अनेकाचौ अतः सेटौ

दीधीवेवीटाम्‌ (१.१.६) = दीधीङ्‌, वेवीङ्‌ इति धात्वोः च इट्‌ इत्यागमस्य च, एषां गुणः वृद्धिः च न भवतः | दिधीश्च वेवीश्च इट्‌ च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्मात्‌ गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— दीधी-वेवी-इटाम् इकः गुणवृद्धी न |

यीवर्णयोर्दीधीवेव्योः (७.४.५३) = यकारादिः च इकारादिः च प्रत्यये परे देधी, वेवी इति धात्वोः ईकारस्य लोपो भवति |

दीधी + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम्‌ (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इतव्य → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध्‌ + इतव्य → दीधितव्य → दीधितव्यः , दीधितव्या , दीधितव्यम्

दीधी + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम्‌ (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इतुम्   → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध्‌ + इतुम्  → दीधितुम्

दीधी + इ+ तृच्   → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम्‌ (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इ + तृ → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध्‌ + इतृ → दीधितृ → दीधिता , दीधित्री , दीधितृ

एवमेव वेवी धातुतः तव्यत् , तुमुन् , तृच् प्रत्ययान्तरूपाणि निर्मातुं शक्यन्ते |

मीञ्‌ हिंसायां, दीङ्‌ क्षये इति द्वौ धातू

मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन अशिति इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |

(प्र +) मीञ्‌ + तव्यत् → मी + तव्य → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तव्य → प्रमातव्य → प्रमातव्यम्

(प्र +) मीञ्‌ + तुमुन्  → मी + तुम् → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तुम् → प्रमातुम्

(प्र +) मीञ्‌ + तृच्  → मी + तृ → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तृ → प्रमातृ → प्रमाता , प्रमात्री , प्रमातृ

(उप ) + दीङ्‌ + तव्यत् → दी + तव्य → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप +दा + तव्य → उपदातव्य → उपदातव्यः , उपदातव्या , उपदातव्यम्

लीङ्‌ श्लेषणे ली श्लेषणे इति द्वौ धातू विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये

विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये |

अस्य धातोः तव्यदन्तरूपाणि आत्वादेशो भवति चेत् एवम् |

वि + ली → वि + ले → वि + ला →  विलातव्यः , विलातव्या , विलातव्यम्

आत्वाभावे अस्य रूपाणि विलेतव्यः , विलेतव्या , विलेतव्यम् |

अस्य धातोः तुमुन् प्रत्ययान्तरूपाणि आत्वादेशो भवति चेत् |

वि + ली → वि + ले → वि + ला →  विलातुम्

आत्वाभावे अस्य रूपं विलेतुम् |

अस्य धातोः तृजन्तरूपाणि एवम् |

वि + ली → वि + ले → वि + ला → विलाता , विलात्री , विलातृ |

आत्वाभावे अस्य रूपाणि विलेता  , विलेत्री , विलेतृ |

उकारान्तधातवः

सामान्याः उकारान्तधातवः

अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |

यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येतान्‌ धातून्‌ त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिटः |

अनिट् उकारान्तधातवः

हु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तव्यत् → होतव्य → होतव्यः , होतव्या , होतव्यम्

हु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तुमुन् → होतुम्

हु + तृच्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तृ  → होतृ → होता , होत्री , होतृ

एवमेव

द्रु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तव्य → द्रोतव्य

द्रु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तुम्  → द्रोतुम्

द्रु + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तृ  → द्रोतृ    →  द्रोता , द्रोत्री , द्रोतृ

षट्‌ सेटः उकारान्तधातवः

यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येते धातवः सेटः |

यु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतव्य →  एचोऽयवायावः (६.१.७७) → यवितव्य → यवितव्यम्

यु + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतुम् →  एचोऽयवायावः (६.१.७७) → यवितुम्

यु + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतृ →  एचोऽयवायावः (६.१.७७) → यवितृ → यविता , यवित्री , यवितृ

एवमेव रु, नु, स्नु, क्षु, क्ष्णु |

उकारान्ताः कुटादिधातवः

गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्‌-धातोः स्थाने यः गाङ्‌-धातुः तस्मात्‌ च कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ्‌ च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ्‌ च ण्‌ च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित्‌ बहुव्रीहिः, न ञ्णित्‌ अञ्णित्‌, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्‌— गाङ्कुटादिभ्यः अञ्णित्‌ ङित् |

तव्यत्, तुमुन्, तृच् प्रत्ययाः ञित्‌-णित्‌-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत्‌ भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति |

क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |

गु पुरीषोत्सर्गे

गु + तव्यत् → गुतव्य → गुतव्यः , गुतव्या , गुतव्यः

गु + तुमुन्  → गुतुम्

गु + तृच् → गुतृ → गुता , गुत्री , गुतृ

ध्रु गतिस्थैर्ययोः

ध्रु + तव्यत् → ध्रुतव्य

ध्रु + तुमुन् → ध्रुतुम्

ध्रु + तृच् → ध्रुता , ध्रुत्री , ध्रुतृ

एवमेव कुङ्‌ शब्दे धातोः प्रसङ्गे अपि |

कु + तव्यत् / तुमुन् / तृच् → कुतव्यं  , कुतुं ,  कुता

ऊर्णु-धातुः

विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति | विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | विज इट्‌ (१.२.२) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङिट्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— ऊर्णोः इट्‌ ङिट्‌ विभाषा |

यथा—

ऊर्णु + इ + तव्य → इतव्य  विकल्पेन ङिद्वत्‌ अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन्‌ पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्यम्

अपक्षे ङिद्वत्त्वं भवति अतः गुणप्रसङ्गः—

ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्

ऊर्णु + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतुम् → एचोऽयवायावः (६.१.७७) → ऊर्णवितुम्

ऊर्णु + इ तृच्→ सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतृ → एचोऽयवायावः (६.१.७७) → ऊर्णवितृ →  ऊर्णविता

ऊकारान्तधातवः

सामान्याः ऊकारान्तधातवः

अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |

इडागमपाठे 'सर्वे ऊकारान्तधातवः सेटः' इति अधीतवन्तः |

भू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तव्य → एचोऽयवायावः (६.१.७७) → भवितव्यम्

भू + इ+ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तुम्  → एचोऽयवायावः (६.१.७७) → भवितुम्

भू + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तृ  → एचोऽयवायावः (६.१.७७) → भवितृ →  भविता

पू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तव्य →  एचोऽयवायावः (६.१.७७) → पवितव्यम्

पू + इ+ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तुम्  →  एचोऽयवायावः (६.१.७७) → पवितुम्

पू + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तृ  →  एचोऽयवायावः (६.१.७७) → पवितृ → पविता

वस्तुतस्तु चत्वारः ऊकारान्तधातवः वेटः इत्यपि ज्ञातवन्तः वेट्‌-धातुपाठे |

एते चत्वारः वेट्‌-धातवः सन्ति—

द्वौ धू-धातू (धूञ् कम्पने , स्वादौ क्र्यादौ च),

द्वौ सू-धातू ('षूङ्‌ प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ्‌ प्राणिप्रसवे' दिवादिगणे) |

धू विधूनने, धूञ् कम्पने चुरादि चेति द्वौ धातू सेटौ |

इडादिपक्षे—

धू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + इ + तव्य → एचोऽयवायावः (६.१.७७) → धवितव्यम् |

सू + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → सो + इ + तव्य → एचोऽयवायावः (६.१.७७) → सवितव्यम् |

धावितुं , धवितृ ( धविता ) अपि एवमेव |

सवितुं , सवितृ ( सविता ) अपि एवमेव |

अनिडादिपक्षे—

धू + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तव्यत् → धोतव्य  → धोतव्यम्

धू + तुमुन्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तुम् → धोतव्य  → धोतुम्

धू + तृच्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तृ → धोतृ   → धोता , धोत्री , धोतृ

एवेमेव

सू + तव्यत् →

सू + तुमुन्  →

सू + तृच् →

कुटादिधातवः

कुटादिगणे णू स्तवने, धू विधूनने इति द्वौ ऊकारान्तधातवः स्तः |

द्वावपि सेटौ; द्वयोरपि कुटादिगणीयत्वस्य गुणनिषेधत्वात्‌ उवङ्‌-आदेशः |

णू स्तवने → नुवितव्यं , नवितुं , नवितृ ( नविता )

धू विधूनने → धुवितव्यं , धवितुं , धवितृ ( धविता )

णू + इ+तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः प्रसक्तः → क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः→ नू + इ+तव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्‌-आदेशः → न्‌ + उव्‌ + इतव्य → नुवितव्य → नवितव्यम्

एवमेव नवितुं , नवितृ अपि  |

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे |

ब्रू-धातोः वच्‌ इति धात्वादेशः

ब्रू + तव्यत् → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच्‌ + तव्य → वच्‌ + तव्य → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि परे → वक्तव्य  → वक्तव्यम्

एवमेव वक्तुं , वक्तृ ( वक्ता ) अपि |

ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |

ऋकारान्तधातवः

सामान्याः ऋकारान्तधातवः

अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |

वृङ्‌,वृञ्‌ इति द्वौ धातू सेटौ; स्वृ-धातुः वेट्‌; एतान्‌ त्रीन्‌ धातून्‌ विहाय अन्ये सर्वे एकाचः ऋकारान्तधातवः अनिटः |

कृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्‌ + तव्य → कर्तव्यम्

कृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्‌ + तुम्  → कर्तुम्

कृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्‌ + तृ  → कर्तृ  → कर्ता , कर्त्री , कर्तृ ( त्रिषु लिङ्गेषु )

धृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →

धृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →

धृ + तृच्  → सार्वधातुकार्धधातुकयोः (७.३.८४) →

भृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →

भृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →

भृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) →

वृङ्‌,वृञ्‌ इति द्वौ धातू सेटौ

वॄतो वा (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |

वृङ्‌ + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर्‌ + इतव्य → वॄतो वा (७.२.३८) →  वरितव्यं / वरीतव्यम्

वृङ्‌ + इ+ तुम्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर्‌ + इतुम्  → वॄतो वा (७.२.३८) →  वरितुम्  / वरीतुम्

वृङ्‌ + इ + तृच्   → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर्‌ + इतृ → वॄतो वा (७.२.३८) →  वरितृ   / वरीतृ →  वरिता / वरीता

वृञ्‌ + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →

वृञ्‌ + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →

वृञ्‌ + इ + तृच्  → सार्वधातुकार्धधातुकयोः (७.३.८४) →

स्वृ-धातुः वेट्‌

इडादिपक्षे—

स्वृ + इ तव्यत्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर्‌ + इतव्य → स्वरितव्यम्  |

स्वृ + इ तुम्   → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर्‌ + इ तुम्   → स्वरितुम्   |

स्वृ + इ तृच्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर्‌ + इतृ  → स्वरितृ →  स्वरिता , स्वरित्री , स्वरितृ  |

अनिडादिपक्षे—

स्वृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर्‌ + तव्य → स्वर्तव्यम्

स्वृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर्‌ + तुम्  → स्वर्तुम्

स्वृ + तृच्  → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर्‌ + तृ → स्वर्तृ → स्वर्ता  , स्वर्त्री , स्वर्तृ

ॠकारान्तधातवः

अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |

यथा अधीतवन्तः इडागमपाठे, सर्वे एकाचः ॠकारान्तधातवः सेटः |

तॄ + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → तर्‌ + इ + तव्य → तरितव्य  → वॄतो वा (७.२.३८) इत्यनेन ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति → तरीतव्य  → तरितव्यं , तरीतव्यम् |

एवमेव तरितुं , तरीतुम्  | एवमेव तरितृ (तरिता , तरित्री , तरितृ) / तरीतृ (तरीता , तरीत्री , तरीतृ )


शॄ + इतव्य →

जॄ + इतव्य →

गॄ + इतव्य →

शॄ + इतुम्  →

जॄ + इतुम्  →

गॄ + इतुम् →

शॄ + इ + तृच्   →

जॄ + इ + तृच्  →

गॄ + इ + तृच्  →

इति सर्वेषाम्‌ अजन्तधातूनां तव्यत् , तुमुन् , तृच् रूपाणां सिद्धिः समाप्तः | सेटां हलन्तधातूनां तव्यत् , तुमुन् तृच् रूपसिद्धिः

सेटां हलन्तधातूनां तव्यत् , तुमुन् तृच् रूपसिद्धिः

भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां रूपसिद्धिः

हलन्तधातवः आधिक्येन सेटः | यावन्तः हलन्तधातवः सेटः, तेषु ये लघूपधधातवः न, एषां किमपि कार्यं नास्ति— केवलं वर्णमेलनम्‌ |

यथा—

अर्च पूजायाम्‌ → अर्च्‌ → अर्च्‌ + इतव्य → अर्चितव्यम्

चर्च परिभाषणहिंसातर्जनेषु → चर्च्‌ → चर्च्‌ + इतव्य → चर्चितव्यम्

टुयाचृ याञ्चायाम्‌ → याच्‌ → याच्‌ + इतव्य → याचितव्यम्

घट चेष्टायाम्‌ → घट्‌ + इतव्य → घटितव्यम्

वन शब्दे → वन्‌ + इतव्य → वनितव्यम्

प्रस्‌ विस्तारे → प्रस्‌ → प्रस्‌ + इतव्य → प्रसितव्यम्

एवमेव—

पठ्‌ + इतव्य → पठितव्यम्

वद्‌ + इतव्य → वदितव्यम्

मील्‌ + इतव्य → मीलितव्यम्

मूष्‌ + इतव्य → मूषितव्यम्

एवमेव तुमुन् रूपाणि , तृच् रूपाणि च वक्तव्यानि  |

पठितुं , वदितुं ,मीलितुं , मूषितुं - तुमुन्नन्तानि |

पठिता , वदिता , मीलिता , मूषिता - तृजन्तानि |

ये सेट्‌-धातवः लघूपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |

सेट्‍ इदुपधधातवः

लिख्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख्‌ + इतव्य → लेखितव्यम्

मिद्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → मेद्‌ + इतव्य → मेदितव्यम्

चित्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → चेत्‌ + इतव्य → चेतितव्यम्

डिप्‌-धातुः

सेट्‌ इदुपधधातुः एकः एव कुटादिगणीयः — डिप्‌-धातुः

गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |

डिप्‌ + इतुमुन् → डिपितुम्

गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्‌-धातोः स्थाने यः गाङ्‌-धातुः तस्मात्‌ च कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ्‌ च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ्‌ च ण्‌ च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित्‌ बहुव्रीहिः, न ञ्णित्‌ अञ्णित्‌, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्‌— गाङ्कुटादिभ्यः अञ्णित्‌ ङित् |

क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |

विज्‌-धातुः

विज इट्‌ (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— विजः इट्‌ ङित्‌ |

यथा—

उद्‌ + विज्‌ + इतव्यत्  → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्

उद्‌ + विज्‌ + इतुम्  → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितुम्

उद्‌ + विज्‌ + इतृ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता

सेट्‍ उदुपधधातवः

ये सेट्‌-धातवः उदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |

मुद्‌ + इतव्य→ पुगन्तलघूपधस्य च (७.३.८६) → मोद्‌ + इतव्य → मोदितव्यम्

प्लुष्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → प्लोष्‌ + इतव्य → प्लोषितव्यम्

सेट्‌-उदुपधधातवः कुटादिगणीयाः

गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |

कुटादिगणे हलन्तधातवः

धातुः                          तृच् तव्यत् तुमुन्

डिप क्षेपे                    डिपिता / डिपितव्यम् / डिपितुम्

कुच सङ्कोचने            कुचिता / कुचितव्यम् / कुचितुम्

गुज शब्दे                    गुजिता / गुजितव्यम् / गुजितुम्

कुटा कौटिल्ये            कुटिता /  कुटितव्यम् / कुटितुम्

पुट संश्लेषणे            पुटिता / पुटितव्यम् / पुटितुम्

स्फुट विकसने             स्फुटिता / स्फुटितव्यम् / स्फुटितुम्

मुट आक्षेपमर्दनयोः       मुटिता / मुटितव्यम् /  मुटितुम्

त्रुट छेदने                      त्रुटिता / त्रुटितव्यम् / त्रुटितुम्

तुट कलहकर्मणि              तुटिता / तुटितव्यम् / तुटितुम्

चुट छेदने                      चुटिता / चुटितव्यम् / चुटितुम्

छुट छेदने                        छुटिता / छुटितव्यम् /  छुटितुम्

जुट बन्धने                        जुटिता / जुटितव्यम् / जुटितुम्

लुट संश्लेषणे                लुटिता / लुटितव्यम् / लुटितुम्

घुट प्रतिघाते                घुटिता / घुटितव्यम् / घुटितुम्

गुड रक्षायाम्‌                गुडिता / गुडितव्यम्  गुडितुम्

कुड बाल्ये                        कुडिता / कुडितव्यम् / कुडितुम्

पुड उत्सर्गे                        पुडिता / पुडितव्यम् / पुडितुम्

तुड तोडने                         तुडिता / तुडितव्यम् /  तुडितुम्

थुड संवरणे                         थुडिता / थुडितव्यम् / थुडितुम्

स्थुड संवरणे                 स्थुडिता / स्थुडितव्यम् / स्थुडितुम्

स्फुड संवरणे                  स्फुडिता / स्फुडितव्यम् / स्फुडितुम्

चुड संवरणे                         चुडिता / चुडितव्यम् / चुडितुम्

व्रुड संवरणे                         व्रुडिता / व्रुडितव्यम् / व्रुडितुम्

क्रुड निमज्जने                  क्रुडिता  / क्रुडितव्यम् / क्रुडितुम्

छुर छेदने                           छुरिता / छुरितव्यम् / छुरितुम्

गुरी उद्यमाने                    गुरिता / गुरितव्यम् /   गुरितुम्

स्फुर सञ्चलने                    स्फुरिता / स्फुरितव्यम् / स्फुरितुम्

स्फुल सञ्चलने                    स्फुलिता / स्फुलितव्यम् / स्फुलितुम्

भृड निमज्जने                      भृडिता / भृडितव्यम् / भृडितुम्

कृड घनत्वे                             कृडिता / कृडितव्यम् / कृडितुम्

एतेषु धातुषु  गुणनिषेधः भवति क्क्ङिति च (१.१.५) सूत्रेण

सेट्‍ ऋदुपधधातवः

ये सेट्‌-धातवः ऋदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |

वृष्‌ + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष्‌ + इतुम् → वर्षितुम्

हृष्‌ + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष्‌ + इतुम् → हर्षितुम्

वृष्‌ + इतव्य  → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष्‌ + इतव्य  → वर्षितव्यम्

हृष्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष्‌ + इतव्य  → हर्षितव्यम्

वृष्‌ + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष्‌ + इतृ → वर्षिता

हृष्‌ + इतृ  → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष्‌ + इतृ  → हर्षिता

कृड्‌, भृड्‌ कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ—

गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |

कृड्‌ + इतव्य → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडितव्यम्

भृड्‌ + इतव्य → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडितव्यम्

कृड्‌ + इतुम्  → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडितुम्

भृड्‌ + इतुम्  → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडितुम्

कृड्‌ + इतृ  → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडिता

भृड्‌ + इतृ  → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडिता

कृप्‌-धातुः

कृप्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → कर्प्‌ + इतव्य → कृपो रो लः (८.२.१८) इत्यनेन् कृप्‌-धातोः रेफस्य लकारादेशः → कल्प्‌ + इतव्य → कल्पितव्यम्

कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |

ग्रह्‌-धातुः

ग्रहोऽलिटि दीर्घः (७.२.३७) =एकाच्‌-ग्रहेः विहितस्य इटः दीर्घः स्यात्‌ तु लिटि ।

ग्रह्‌ + इतव्य → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह्‌ + ईतव्य → ग्रहीतव्यम्

ग्रह्‌ + इतुम्  → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह्‌ + ईतुम् → ग्रहीतुम्

ग्रह्‌ + इतृ → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह्‌ + ईतृ  → ग्रहीता

चक्षिङ्-धातुः—

चक्ष्‌-धातोः ख्या / क्शा इति आदेशौ | यद्यपि चक्ष्‌-धातुः से‌ट्‌, तथापि तस्य ख्या/क्शा इति धात्वादेशौ अनिटौ |

चक्ष्‌ + तृच् → ख्या + तृ → ख्याता

चक्ष्‌ + तृच् → क्शा + तृ → क्शाता

चक्षिङः ख्याञ्‌ (२.४.५४) | ख्याता | क्शाता |

एवमेव

ख्यातव्यम् / क्शातव्यम् |

ख्यातुम् / क्शातुम् |

चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि चा पूर्वत्रासिद्धम्‌ (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |

चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |

अज्‌-धातुः

अज्‌-धातोः वी इति आदेशः | यद्यपि अज्‌-धातुः से‌ट्‌, तथापि तस्य वी इति धात्वादेशः अनिट्‌ |

अज्‌ + तव्यत् → वी + तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → वे + तव्य → वेतव्यम्

अजेर्व्यघञपोः (२.४.५६) | अज्‌ → वेतव्यम् , वेतुं , वेता अपि  |

अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रम्‌—अजेः वी आर्धधातुके अघञपोः |

अनेन भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां रूपसिद्धिः समाप्तः |

वेटाम्‌ अनिटां च हलन्तधातूनां रूपसिद्धिः भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ |

हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम्‌ | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्‌-उपसर्गपूर्वक-कुष्‌-धातुः | सम्प्रति एतेषां सर्वेषां तव्यत् , तुमुन् , तृच् रूपाणि  साधयिष्यामः | धेयं यत्‌ एते  प्रत्ययाः तकारादयः | अतः सर्वत्र कारे परे हल्‌-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम्‌ अस्ति |

कवर्गान्तधातवः

धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्‌, खरि च (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |

एक एव एकाच्‌ कवर्गान्तधातुः अनिट्‌ अस्ति—

शक्‌ + तव्यत् → खरि च (८.४.५५) → शक्तव्यम्

शक्‌ + तुमुन् → खरि च (८.४.५५) → शक्तुम्

शक्‌ + तृच्  → खरि च (८.४.५५) → शक्ता

खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर्‍‌ खरि च संहितायाम् ‌|

चवर्गान्तधातवः

एकाच्‌-चकारान्तधातवः - षड्‌ धातवः अनिटः |

पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यथासङ्गं लघूपधधातूनाम्‌ उपधागुणः भवति |

तदा सर्वत्र चोः कुः (८.२.३०) इत्यनेन कुत्वं, तदा खरि च (८.४.५५) इत्यनेन चर्त्वम्‌ |

पच्‌ + तव्य → चोः कुः (८.२.३०) → पक्‌ + तव्य → खरि च (८.४.५५) + तव्य → पक्‌ + तव्य → पक्तव्यम्

पच्‌ + तुम् → चोः कुः (८.२.३०) → पक्‌ + तुम् → खरि च (८.४.५५) + तुम्  → पक्‌ + तुम् → पक्तुम्

पच्‌ + तृच् → चोः कुः (८.२.३०) → पक्‌ + तृ → खरि च (८.४.५५) + तृ  → पक्‌ + तृ → पक्तृ  → पक्ता , पक्त्री , पक्तृ

एवमेव अन्येषां धातूनां रूपाणि निर्मान्तु |

वच्‌ + तव्यत् / तुमुन् / तृच् →

रिच्‌ + तव्यत् / तुमुन् / तृच् →

विच्‌ + तव्यत् / तुमुन् / तृच् →

सिच्‌ + तव्यत् / तुमुन् / तृच् →

मुच्‌ + तव्यत् तुमुन् / तृच् →


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ |


मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |

चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |

वेट्‌-चकारान्तधातवः—तञ्चू, व्रश्च्‌

तञ्चू, व्रश्च्‌ इत्येतौ द्वौ धातू वेटौ |

तञ्चू-धातुः

इडादिपक्षे—

तञ्च्‌ + इतव्य → तञ्चितव्यम्

तञ्च्‌ + इतुम्  → तञ्चितुम्

तञ्च्‌ + इतृ  → तञ्चितृ  → तञ्चिता

अनिडादिपक्षे—

अस्य साधनार्थं धेयं यत्‌ वस्तुतस्तु नोपधधातूनां मूले दन्त्यनकारः एव अस्ति |

तन्च्‌ + तव्य→ चोः कुः (८.२.३०) → तन्क्‌ + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक्‌ + तव्य → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्तव्यम्

तन्च्‌ + तुमुन् → चोः कुः (८.२.३०) → तन्क्‌ + तुम्  → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक्‌ + तुम् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्तुम्

तन्च्‌ + तृच् → चोः कुः (८.२.३०) → तन्क्‌ +तृ  → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक्‌ + तृ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्ता

नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |

अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |

व्रश्च-धातुः

इडादिपक्षे—

व्रश्च्‌ + इतव्य → व्रश्चितव्यम्  

व्रश्च्‌ + इतुम्  → व्रश्चितुम्  

व्रश्च्‌ + इतृ   → व्रश्चितृ   → व्रश्चिता

अनिडादिपक्षे—

व्रश्च्‌ + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच्‌ +तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → व्रष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → व्रष्टव्यम्

प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात्‌?

अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारः तिष्ठति |

व्रस्च्‌ + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच्‌ + तव्य → व्रष्टव्यम्

स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |

ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |

व्यच्‌-धातुः

व्यच्‌-धातुः सेट्‌ | अत्र विशेषवार्ता एवं यत्‌ व्यचेः कुटादित्वमनसीति वक्तव्यम्‌ इति वार्तिकेन व्यच्‌-धातोः परं यावन्तः अस्‌-भिन्न-कृत्‌-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत्‌ भवन्ति | परन्तु तिङ्‌-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत्‌ अस्ति चेत्‌ व्यच्‌ इति प्रकृतौ सम्प्रसारणं भवति | तिङ्‌-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत्‌ न सन्ति | तदर्थं सम्प्रसारणं न भवति |

व्यच्‌ + इतव्य → व्यचितव्यम्  |

एवमेव व्यचितुम् , व्यचिता अपि |

प्रच्छ्‌ धातुः

एकाच्‌-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट्‌ अस्ति |

च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ |

प्रच्छ्‌ + तव्य → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → प्रष्टव्यम्

प्रच्छ्‌ + तुमुन् → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश्‌ + तुम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष्‌ + तुम्  → ष्टुना ष्टुः (८.४.४१) → प्रष्टुम्

प्रच्छ्‌ + तृच्  → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश्‌ + तृ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष्‌ + तृ  → ष्टुना ष्टुः (८.४.४१) → प्रष्टा

च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— च्छ्वोः अङ्गस्य शूड्‌ क्विझलोः अनुनासिके च |

जकारान्तधातवः

एकाच्‌-जकारान्तधातवः - १५ धातवः अनिटः |

एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत्‌ पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति चोः कुः (८.२.३०) च खरि च (८.४.५५) चेति सूत्राभ्याम्‌ |

त्यज्‌ + तव्यत् → चोः कुः (८.२.३०) → त्यग्‌ + तव्य → खरि च (८.४.५५) → त्यक्तव्यम्

भज्‌ + तुमुन् → चोः कुः (८.२.३०) → भग् + तव्य → खरि च (८.४.५५) → भक्तुम्

निज्‌ + तृच् → पुगन्तलघूपधस्य च (७.३.८६) → नेज्‌ + तृ → चोः कुः (८.२.३०) → खरि च (८.४.५५) → नेक्ता

एवमेव अन्येषां जकारान्तधातूनां रूपाणि साध्यन्ते |

विज्‌ + ता →

भुज्‌ + ता →

रुज्‌ + ता →

युज्‌ + ता →

भञ्ज्‌ + ता →

रञ्ज्‌ + ता →

स्वञ्ज्‌ + ता →

सञ्ज्‌ + ता →

विशिष्ट-अनिट्‌-जकारान्तधातवः

धातौ आगमः

मस्ज्‌ - मस्जिनशोर्झलि (७.१.६०)

सृज्‌ - सृजिदृशोर्झल्यमकिति (६.१.५८)

मस्ज्‌-धातुः

मस्ज्‌-धातोः नुमागमः भवति झलादिप्रत्यये परे |

मस्जिनशोर्झलि (७.१.६०) = मस्ज्‌-धातोः च नश्‌-धातोः च नुम्‌‍-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश्‌ च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्‌— मस्जिनशोः अङ्गस्य नुम्‌ झलि प्रत्यये |

मस्जेरन्त्यात्पूर्व नुम्‌ वक्तव्यः इति वार्तिकेन मस्ज्‌-धातोः नुम्‌-आगमः भवति अन्त्यात्‌ वर्णात्‌ पूर्वम्‌ |

मस्ज्‌ + तव्यत् → मस्न्ज + तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज्‌ + तव्य → चोः कुः (८.२.३०) → मन्ग्‌ + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → मंग्‌ → तव्य  → खरि च (८.४.५५) → मंक्‌ + तव्य → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्तव्यम्

मस्ज्‌ + तुमुन् → मस्न्ज + तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज्‌ + तुम् → चोः कुः (८.२.३०) → मन्ग्‌ + तुम् → नश्चापदान्तस्य झलि (८.३.२४) → मंग्‌ + तुम्  → खरि च (८.४.५५) → मंक्‌ + तुम् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्तुम्

मस्ज्‌ + तृच् → मस्न्ज + तृ  → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज्‌ + तृ → चोः कुः (८.२.३०) → मन्ग्‌ + तृ → नश्चापदान्तस्य झलि (८.३.२४) → मंग्‌ + तृ → खरि च (८.४.५५) → मंक्‌ + तृ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्ता

स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |

नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |

अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |

सृज्‌-धातुः

सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्‌-धातोः अम्‌-आगमो भवति कित्‌-भिन्न-झलादि प्रत्यये परे |

सृज्‌ + तव्यत् → सृजिदृशोर्झल्यमकिति (६.१.५८) → सृज्‌ + अम्‌ + तव्य → सृ-अ-ज्‌ + तव्य → इको यणचि (६.१.७६) → स्रज्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → स्रष्टव्य →  स्रष्टव्यम्

सृज्‌ + तुमुन्  → सृजिदृशोर्झल्यमकिति (६.१.५८) → सृज्‌ + अम्‌ + तुमुन्  → सृ-अ-ज्‌ + तुम् → इको यणचि (६.१.७६) → स्रज्‌ + तुम्  → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष्‌ + तुम्  → ष्टुना ष्टुः (८.४.४१) → स्रष्टुम्

सृज्‌ + तृच् → सृजिदृशोर्झल्यमकिति (६.१.५८) → सृज्‌ + अम्‌ + तृ → सृ-अ-ज्‌ + तृ  → इको यणचि (६.१.७६) → स्रज्‌ + तृ  → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष्‌ + तृ  → ष्टुना ष्टुः (८.४.४१) → स्रष्ट्र → स्रष्टा

सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्‌-धातोः च दृश्‌-धातोः च अम्‌-आगमो भवति कित्‌-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित्‌ अकित्‌ नञ्तत्पुरुषः, तस्मिन्‌ अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अम्‌ प्रथमान्तम्‌, अकिति सप्तम्यन्तम्‌,अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णाम्‌— सृजिदृशोः अम्‌ झलि अकिति |

धात्वादेशः

भ्रस्ज्‌ - भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७)

अज्‌-धातुः - अजेर्व्यघञपोः (२.४.५६)

विज्‌-धातुः - विज इट्‌ (१.२.२)

भ्रस्ज्‌-धातुः

भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) |

भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा इति तृजन्तरूपद्वयम्  |

एवमेव तव्यत् , तुमुन् प्रसङ्गे अपि विकल्पेन रूपद्वयम् |

भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | 'रम्‌' इति आगमे अकारः उच्चारणार्थः; मकारः इत्संज्ञकश्च | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम्‌ इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम्‌ इत्यस्मिन्‌ अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्‌, अन्यतरस्यां सप्त्यम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम्‌ अन्यतरस्याम्‌ आर्धधातुके |

भ्रस्ज्‌ + तव्य → भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज्‌ → रेफः इति आगमः → भर्ज्‌ → भर्ज्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → भर्ष्टव्यम्

तदभावे—

भ्रस्ज्‌ +तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → भ्रष्टव्यम्

एवमेव भ्रष्टुं , भ्रष्टा अपि |

अज्‌ धातुः

अज्‌ + तव्यत् → वेतव्यम् |

अज्‌ + तुमुन् → वेतुम्  |

अज्‌ + तृच्  → वेतृ →  वेता , वेत्री , वेतृ |

अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रम्‌—अजेः वी आर्धधातुके अघञपोः |

विज्‌ धातुः

उद्‌ + विज्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्

उद्‌ + विज्‌ + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितुम्  

उद्‌ + विज्‌ + इतृ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितृ  → उद्विजिता

विज इट्‌ (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— विजः इट्‌ ङित्‌ |

यज्‌-धातुः - सन्धिविशेषः

यज्‌ - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन झलि परे षत्त्वम्‌ |

यज्‌ + तव्यत् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → यष्‌ + तव्य → ष्टुना ष्टुः (८.४.४१) → यष्टव्यम्

वे‌ट्‌-धातवः - अञ्जू, मृजू

अञ्ज्‌-धातुः

इडादिपक्षे—

अञ्ज्‌ + इतव्य → अञ्जितव्यम्

अनिडादिपक्षे—

अन्ज्‌ + तव्य → चोः कुः (८.२.३०) → अन्ग्‌ + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → अङ्क्तव्यम्

मृज्‌-धातुः

मृजेर्वृद्धिः (७.२.११४) इत्यनेन मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |

इडादिपक्षे—

मृज्‌ + इतव्य → मृजेर्वृद्धिः (७.२.११४) → मार्जितव्यम्

अनिडादिपक्षे—

मृज्‌ + तव्य → मृजेर्वृद्धिः (७.२.११४) → मार्ज्‌ + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टव्यम्

मृजेर्वृद्धिः (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इकोगुण्वृद्धी (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |

तवर्गान्तधातवः

तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः | एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति खरि च (८.४.५५) इति सूत्रेण |

अद्‌ + तव्य → खरि च (८.४.५५) → अत्‌ + तव्य → अत्तव्यम्  |

पद्‌ + तव्य → खरि च (८.४.५५) → पत् + तव्य → पत्तव्यम्  |

सद्‌ + तव्यत् / तुमुन् / तृच् →

शद्‌ + तव्यत् / तुमुन् / तृच् →

हद्‌ + तव्यत् / तुमुन् / तृच् →

खिद्‌ + तव्यत् / तुमुन् / तृच् →

छिद्‌ + तव्यत् / तुमुन् / तृच्  →

भिद्‌ + तव्यत् / तुमुन् / तृच् →

विद्‌+ तव्यत् / तुमुन् / तृच्  →

स्विद्‌ + तव्यत् / तुमुन् / तृच् →

क्षुद्‌ + तव्यत् / तुमुन् / तृच् →

तुद्‌ + तव्यत् / तुमुन् / तृच् →

नुद्‌ + तव्यत् / तुमुन् / तृच् →

स्कन्द + तव्यत् / तुमुन् / तृच् →

दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्‌, स्यन्द्‌

क्लिद्-धातुः

इडादिपक्षे—

क्लिद्‌ + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदितव्यम्

क्लिद्‌ + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदितुम्

क्लिद्‌ + इ+ तृच् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदितृ → क्लेदिता

अनिडादिपक्षे—

क्लिद्‌ + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद्‌ + तव्यत् → खरि च (८.४.५५) → क्लेत्तव्यम्

क्लिद्‌ + तुमुन्  → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद्‌ + तुम्  → खरि च (८.४.५५) → क्लेत्तुम्

क्लिद्‌ + तृच्  → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद्‌ + तृच्  → खरि च (८.४.५५) → क्लेत्ता

स्यन्द्‌-धातुः

इडादिपक्षे—

स्यन्द्‌ + इतव्यत् / इतुम् / इतृ → स्यन्दितव्यम्  , स्यन्दितुम् , स्यन्दिता

अनिडादिपक्षे—

स्यन्द्‌ + तव्यत् / तुमुन् / तृच् → स्यन्तव्यम् , स्यन्तुम् , स्यन्ता

एकाच्‌-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति झषस्तथोर्धोऽधः (८.२.४०), झलां जश्‌ झशि (८.४.५३) इति सूत्राभ्याम्‌ |

१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति |

झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |

२) तदा झलां जश्‌ झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |

झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— झलां जश्‌ झशि संहितायाम् |

सिध्‌ + तव्यत् → पुगन्तलघूपधस्य च →  सेध् + तव्य → झषस्तथोर्धोऽधः (८.२.४०) →  सेध् + धव्य → झलां जश्‌ झशि (८.४.५३) →  सेद् + धव्य → सेद्धव्यम्

सिध्‌ + तुमुन्  → पुगन्तलघूपधस्य च →  सेध् + तुम् → झषस्तथोर्धोऽधः (८.२.४०) →  सेध् + धुम् → झलां जश्‌ झशि (८.४.५३) →  सेद् + धुम् → सेद्धुम्

सिध्‌ + तृच्   → पुगन्तलघूपधस्य च →  सेध् + तृ  → झषस्तथोर्धोऽधः (८.२.४०) →  सेध् + धृ → झलां जश्‌ झशि (८.४.५३) →  सेद् + धृ  → सेद्धृ   → सेद्धा

व्यध्‌ + तव्यत् / तुमुन् / तृच् →

क्रुध्‌ + तव्यत् / तुमुन् / तृच् →

क्षुध्‌ + तव्यत् / तुमुन् / तृच् →

बुध्‌ + तव्यत् / तुमुन् / तृच् →

युध्‌ + तव्यत् / तुमुन् / तृच् →

शुध्‌ + तव्यत् / तुमुन् / तृच् →

राध्‌ + तव्यत् / तुमुन् / तृच् →

साध्‌ + तव्यत् / तुमुन् / तृच् →

बन्ध्‌ + तव्यत् / तुमुन् / तृच् →

द्वौ धकारान्तौ वेटौ धातू - सिध्‌, रध्‌

सिध्‌-धातुः

इडादिपक्षे—

सिध्‌ + इतव्य → सेधितव्यम्

सिध्‌ + इतुम्  → सेधितुम्

सिध्‌ + इतृ  → सेधितृ  → सेधिता , सेधित्री , सेधितृ

अनिडादिपक्षे—

सिध्‌ + तव्यत् → सेध् + तव्य → सेध् + धव्य → सेद् + धव्य → सेद्धव्यम्

सिध्‌ + तुमुन् → सेध् + तुम् → सेध् + धुम् → सेद् + धुम् → सेद्धुम्

सिध्‌ + तृच्  → सेध् + तृ → सेध् + धृ → सेद् + धृ  → सेद्धृ   → सेद्धा

रध्‌-धातुः

रधिजभोरचि (७.१.६१) इत्यनेन रध्‌-धातोः, जभ्‌-धातोः च नुमागमः अजादिप्रत्यये परे | परन्तु—नेट्यलिटि रधेः (७.१.६२) इत्यनेन रध्‌-धातोः नुमागमः न भवति लिट्‌-भिन्नप्रत्यये परे | अतः तव्यत् , तुमुन् , तृच् प्रत्ययानां योजनसमये रध्‌-धातोः नुमागमो नास्ति |

इडादिपक्षे—

रध्‌ + इतव्य →  रधितव्यम्

रध्‌ + इतुम् → रधितुम्

रध्‌ + इतृ → रधितृ → रधिता

अनिडादिपक्षे—

रध्‌ + तव्यत् / तुमुन् / तृच् →  झषस्तथोर्धोऽधः (८.२.४०) , झलां जश्‌ झशि (८.४.५३) सन्धिकार्यद्वयेन → रद्धव्यम् , रद्धुम् , रद्धा


एकाच्‌-धकारान्तधातवः -

द्वौ धातू अनिटौ | मन्‌, हन्‌ |

अत्र नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम्‌ अनुस्वारः, तदा परसवर्णादेशः |

मन्‌ + तव्यत् / तुमुन् / तृच् →नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम्‌ → मन्तव्यम्, मन्तुम् , मन्ता

हन्‌ + ता → नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम्‌→ हन्तव्यम्, हन्तुम् , हन्ता

एतावता अनिट् नकारान्तधातूनाम् चिन्तनं समाप्तम् ।

--------------------------------

अग्रे गत्वा अनिट्  पकारान्तधातूनां चिन्तनम् उच्यते ।