7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
(27 intermediate revisions by 2 users not shown)
Line 1:
<big>{{DISPLAYTITLE:19 - लृट्-लकारः}}</big>
 
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|'''<big>2024 वर्गः</big>'''
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/404_lRuT-lakAraH---mAtuH-prakriyA-cintanam_%2B_lRuT-paricayaH_%2B_kriyarthA-kriyA_2024-05-07.mp3 lRuT-lakAraH---mAtuH-prakriyA-cintanam_+_lRuT-paricayaH_+_kriyarthA-kriyA_2024-05-07]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/405_lRuT-lakAraH---kriyArthA-kriyA_%2B_upapada-sangyA_2024-05-14.mp3 lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_2024-05-14]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/406_lRuT-lakAraH---kriyArthA-kriyA_%2B_upapada-sangyA_%2B_SheSHe_2024-05-21.mp3 lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_+_SheSHe_2024-05-21]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/407_lRuT-lakAraH---lRuT-SheSHe_%2B_apavAdabhUta-luT-lakAraH_2024-05-28.mp3 lRuT-lakAraH---lRuT-SheSHe_+_apavAdabhUta-luT-lakAraH_2024-05-28]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/408_lRuT-lakAraH---luT-katham-apavAdaH_%2B_vyAmishre-lRuT_2024-06-04.mp3 lRuT-lakAraH---luT-katham-apavAdaH_+_vyAmishre-lRuT_2024-06-04]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/409_lRuT-lakAraH---nyAye-apavAdasya-arthaH_%2B_vyAmishre-lRuT---bahuvriihi-tatpuruShayoh-bhedaH_2024-06-11.mp3 lRuT-lakAraH---nyAye-apavAdasya-arthaH_+_vyAmishre-lRuT---bahuvriihi-tatpuruShayoh-bhedaH_2024-06-11]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/410_lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18.mp3 lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/411_lRuT-lakAraH---lang-lung-liT-luT-lRuT%20ityeShAM-vyavahAra-punassmaraNam_%2B_lRuT-visheShah-smRTi-bodhake-sati_2024-06-25.mp3 lRuT-lakAraH---lang-lung-liT-luT-lRuT ityeShAM-vyavahAra-punassmaraNam_+_lRuT-visheShah-smRti-bodhake-sati_2024-06-25]</big>
|}
 
 
<big><u>लृट्‌-लकारः</u>  </big>
Line 21 ⟶ 45:
 
 
<big>एतावता सामान्यतकारादि-अकित्‌-प्रत्ययानां पाठः समाप्तः | अधुना नूतनपाठसमूहः आरभ्यमाणः—इडनुकूल- सकारादि-अर्धधातुक-अकित्‌-प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते | ते एते सन्ति—स्य (लृट्‌, लृङ्‌), सिप्‌ (लेट्‌), सीयुट्‌ (आत्मनेपदि आशीर्लिङ्‌), सन्‌ (सन्नन्तधातवः) | अनन्तरं सिच्‌ (लुङ्‌), लिट्‌, नामधातवः च, एते पृथक्तया करिष्यन्ते | लुङ्‌-लकारस्य सिच्‌-प्रत्ययः पृथक्‌ अस्ति यतोहि लुङ्‌-लकारे अनेके प्रत्ययाः सन्ति, एषां प्रत्ययानां प्रसङ्गे सिच्‌ करिष्यन्तेकरिष्यते |</big>
 
 
Line 45 ⟶ 69:
 
 
<big><u>“क्रियार्थायां क्रियायाम्‌” इत्यस्य परिचयः तुमुन्‌-प्रत्ययस्य माध्यमेमाध्यमेन</u></big>
 
 
 
<big>'''तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्''' (३.३.१०) = एकस्याः क्रियायाः साधनार्थम्‌ अपरस्यां क्रियायाम्‌ उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन्‌ च ण्वुल्‌ च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन्‌ ण्वुल् भविष्यत्यर्थे; तुमुन्‌ भावार्थे, ण्वुल् च कर्त्रर्थे | '''तत्रोपपदं सप्तमीस्थम्''' (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन्‌ पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम्‌ अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम्‌ अस्ति साधनम्‌ | पठनम्‌ इति क्रियायाः कृते गमनम्‌ इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’संज्ञा’उपपद’ संज्ञा भवति | तुमुन्‌ च ण्वुल्‌ च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था''',''' तस्यां क्रियार्थायां''',''' बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं''',''' क्रियायां सप्तम्यन्तं''',''' क्रियार्थायां सप्तम्यन्तं''',''' त्रिपदमिदं सूत्रम्‌ | '''भविष्यति''' '''गम्यादयः''' (३.३.३) इत्यस्मात्‌ '''भविष्यति''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः  '''(३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम्‌''' |</big>
 
 
Line 99 ⟶ 123:
 
 
<big>प्रहराणां पुनस्स्मरणम्‌—एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्यसायङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यनम्‌नववादनपर्यन्तम्‌ |</big>
 
 
Line 120 ⟶ 144:
 
 
<big>'''लृटोऽपवादः''' इत्यनेन लुट्‌-लकारः लृटः अपवादः एव | नाम भविष्यत्सामान्ये विहितः लृट्‌; अनद्यतनभविष्यद्विशेषे अर्थात्‌ श्वोभाविरूपभविष्यद्विशेषे अयं लुट्‌-लकारः विधीयते इति हेतोः '''येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति'''  इति न्यायेन एकः अपरस्य अपवादः  | यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति, एवम्‌ अस्मिन्‌ विधौ प्राप्ते सति पुनः अन्यः विधिः आरभ्यते चेत्‌, स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते | प्रकृतौ भविष्यत्सामान्ये विहितः लृट्‌ इति कृत्वा लृटः अवश्यप्राप्तिरस्ति | श्वोभविष्यत्यपि भविष्यदेव, एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यदेव | अतः भविष्यत्वनिमित्तकतया लृट्‌-लकारः प्राप्नोति | येन नाप्राप्ते यत्कर्तृक-अवश्यप्राप्तौ सत्यां, लृट्कर्तृक -अवश्यप्राप्तौ सत्यां यो विधिरारभ्यते, लुट्‌-विधिरारभ्यते, अयं लुड्विधिः तस्य, नाम लृटः, लृट्‌-विधेः बाधकः भवति | अतः "श्वः गमिष्यामि" इति तु न भवतीत्येव |</big>
 
 
Line 141 ⟶ 165:
 
<big>अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |</big>
 
 
 
<big>अन्ततो गत्वा इतोऽपि एका वार्ता अस्ति यत्‌ भूतकाले परोक्ष-अपरोक्ष इति तत्त्वं वर्तते; भविष्यत्काले तादृशं किमपि नास्ति यतोहि भविष्यति सर्वमपि परोक्षमस्ति ।</big>
 
 
 
<big>सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—</big>
 
[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|thumb|1200x1200px]]
 
[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|thumb|1200x1200px|center|border|frameless]]
 
 
 
<big>कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।</big>
 
 
<big>'''अभिज्ञावचने लृट्''' (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | स्मरणार्थे उपपदसज्ञकशब्दे सति अनद्यन्तभूतकालार्थे लृट्‌-लकारः भवति | लङः अपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत्‌ अभिज्ञा इति पदमेव भवेत्‌ इति न; स्मृत्यर्थे यत्‌ किमपि पदं भवितुम्‌ अर्हति—स्मरसि,  बुध्यसे,  चेतयसे इत्यादीनि पदानि सम्भवन्ति | निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात्‌ यत्‌ वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१),  '''परश्च''' (३.१.२),  '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते धातोः लृट्  प्रत्ययः परश्च''' |</big>
 
 
<big>'''न यदि''' (३.२.११३) = यद्‌-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्‌-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत्‌ इति अव्ययपदं तस्मिन्‌ वाक्ये उपयुज्यते चेत्‌ लृट्‌-लकारः न विधीयते | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य निषेधकसूत्रम्‌ | एकवारं यदा '''अभिज्ञावचने लृट्''' (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम्‌ '''अनद्यतने लङ्''' (३.२.१११) इत्यनेन लङ्‌-लकारः विधीयते |</big> <big>यथा</big> <big>“अभिजानासि कृष्ण यद्वने अभुञ्जमहि” इति | स्मरसि कृष्ण यत्‌ वने वयम्‌ अखादाम | लृट्‌-लकारः भवति स्म, किन्तु यत्‌ इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्‌-लकारः विहितः, अत्र ’अभुञ्जमहि’ इति भुज्‌-धातोः लङ्‌ इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ |  '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न''' |</big>
 
 
 
<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि स्त्यपि असत्यपि यदा सम्बद्धक्र्याद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्य अर्थपूरनार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः अथवा अभिजानासि देवदत्तः कश्मीरान् गच्छामः, तत्र सक्तून् अपिबामः | अभिजानासि देवदत्तः यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् गच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि) | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>