|
|
<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्-लकारः विकल्पेन भवति यदि स्त्यपिसत्यपि असत्यपि यदा सम्बद्धक्र्याद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्य अर्थपूरनार्थम् | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम् | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम् | अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः अथवा अभिजानासि देवदत्तः कश्मीरान् गच्छामः, तत्र सक्तून् अपिबामः | अभिजानासि देवदत्तः यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् गच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि) | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात् '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>
|