9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2
9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2
ध्वनिमुद्रणानि -
1. anunAsikaH_anusvAraH_cetyanayorbhedaH_II_2014-06-04
2. aShTAdhyAyI-paricayaH_+_anunAsikaH_anusvAraH_cetyanayorbhedaH_III_2014-06-11
3. sUtrAbhyAsaH_+_anunAsikaH_anusvAraH_cetyanayorbhedaH_IV_2014-06-18
गते पाठे अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः कः इति परिशीलितम् अस्माभिः | लेखनशैली का उच्चारणभेदः कः चेति ज्ञातम् | मुख्यसिद्धान्तत्रयं विद्यते—
१) अनुनासिकत्वं कस्यचित् वर्णस्य लक्षणम्; व्यतिरेके अनुस्वारः स्वयं पृथक् वर्णः | एवं सति, "सं" इत्यस्य उच्चारणे स्, तदा अननुनासिकः अकारः, तदा नासिकया अनुस्वारः इति त्रीणि सोपानानि सन्ति | परञ्च "सँ" इत्यस्य उच्चारणे स्, तदा अनुनासिकः अकारः इति द्वे सोपाने स्तः |
२) अनुस्वारस्य स्थानं नासिका एव; अनुनासिकस्य स्थानं मुखे नासिकायां च | मुखे वर्णम् अनुसृत्य तत्तद् स्थानं भवति |
३) अनुस्वारः स्वरस्य एव उपरि उपविशति (अतः "अनुस्वारः" इति नाम); अनुनासिकत्वं भवति नित्यं ङ्, ञ्, ण्, न्, म् इत्येषु; अनित्यं सर्वेषु स्वरेषु, य्, व्, ल् इत्येषु च | अनुनासिकचिह्नम् आयाति अनित्यं स्थलेषु हि |