9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2

From Samskrita Vyakaranam
Revision as of 16:41, 14 May 2021 by Rajagopalan (talk | contribs) (08 - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २ I have also added 3. hyperlinks. I have copied only small portion. i will continue once it is approved)

9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2
Jump to navigation Jump to search

ध्वनिमुद्रणानि -

1. anunAsikaH_anusvAraH_cetyanayorbhedaH_II_2014-06-04

2. aShTAdhyAyI-paricayaH_+_anunAsikaH_anusvAraH_cetyanayorbhedaH_III_2014-06-11

3. sUtrAbhyAsaH_+_anunAsikaH_anusvAraH_cetyanayorbhedaH_IV_2014-06-18


गते पाठे अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः कः इति परिशीलितम्‌ अस्माभिः | लेखनशैली का उच्चारणभेदः कः चेति ज्ञातम्‌ | मुख्यसिद्धान्तत्रयं विद्यते—

१) अनुनासिकत्वं कस्यचित्‌ वर्णस्य लक्षणम्‌; व्यतिरेके अनुस्वारः स्वयं पृथक्‌ वर्णः | एवं सति, "सं" इत्यस्य उच्चारणे स्‌, तदा अननुनासिकः अकारः, तदा नासिकया अनुस्वारः इति त्रीणि सोपानानि सन्ति | परञ्च "सँ" इत्यस्य उच्चारणे स्‌, तदा अनुनासिकः अकारः इति द्वे सोपाने स्तः |

२) अनुस्वारस्य स्थानं नासिका एव; अनुनासिकस्य स्थानं मुखे नासिकायां च | मुखे वर्णम्‌ अनुसृत्य तत्तद्‌ स्थानं भवति |

३) अनुस्वारः स्वरस्य एव उपरि उपविशति (अतः "अनुस्वारः" इति नाम); अनुनासिकत्वं भवति नित्यं ङ्‌, ञ्‌, ण्‌, न्‌, म्‌ इत्येषु; अनित्यं सर्वेषु स्वरेषु, य्‌, व्‌, ल्‌ इत्येषु च | अनुनासिकचिह्नम्‌ आयाति अनित्यं स्थलेषु हि |