9---anye-vyAkaraNa-sambaddha-viShayAH/16---kta-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 4:
 
'''क्तक्तवतू निष्ठा''' (१.१.२६) = क्त-प्रत्ययः, क्तवतु-प्रत्ययश्च निष्ठा-संज्ञकौ भवतः | क्तश्च क्तवतुश्च तयोरितरेतरयोगद्वन्द्वः क्तक्तवतू | क्तक्तवतू प्रथमान्तं, निष्ठा प्रथमान्तं, द्विपदमिदं सूत्रम् , सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहित-सूत्रम्‌— '''क्तक्तवतू निष्ठा''' (१.१.२६) |
'''<big>२.  अयं कृत् संज्ञकः |</big>'''
 
'''<big>२.  अयं कृत् संज्ञकः |</big>'''
 
'''कृदतिङ्''' (३.१.९३) = धातोः परः विहितः तिङ् भिन्नः प्रत्ययः कृत् संज्ञकः स्यात् | क्त प्रत्ययः तिङ्-भिन्न-प्रत्ययः , अपि च धातोः परः विहितः | अतः अयं कृत् संज्ञकः | तिङ् न, अतिङ् नञ्तत्पुरुषः | अतिङ् प्रथमान्तं , कृत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अस्मिन्‌ सूत्रे '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''धातोः परः अतिङ् प्रत्ययः कृत्''' |
'''<big>३.  क्त प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् |</big>'''
 
'''<big>३.  क्त प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् |</big>'''
Line 20 ⟶ 22:
 
३.  रामेण पाठशाला '''गता''' |
'''<big>४.  क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |</big>'''
 
'''<big>४.  क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |</big>'''
Line 30 ⟶ 33:
 
२.  <u>भावे प्रयोगे</u> - शिशुना '''रुदितम्''' |
<big>'''५.'''   '''क्त-प्रत्ययान्तरूपस्य प्रातिपदिकसंज्ञा स्यात् |'''</big>
 
<big>'''५.'''   '''क्त-प्रत्ययान्तरूपस्य प्रातिपदिकसंज्ञा स्यात् |'''</big>
Line 101 ⟶ 105:
|पठितेषु
|}
'''६.अ.   आदिकर्मणि विहितः क्त-प्रत्ययः कर्तरि अपि स्यात् |'''
 
'''आदिकर्मणि क्तः कर्तरि च''' (३.४.७१) = आदिकर्मणि अर्थे विद्यमानः धातोः परः विहितः क्त-प्रत्ययः कर्मणि, भावे, कर्तरि च भवति | आदिभूतः क्रियाक्षणः आदिकर्म, तस्मिन् आदिकर्मणि | अर्थात् क्रिया आरब्धा परन्तु न समाप्ता, अधुना अपि प्रवर्तमाना, अग्रे अपि प्रवर्तिष्यते | अतः क्रिया भूता न | आदि च अदः आदिकर्म, तस्मिन् आदिकर्मणि, कर्मधारयः | आदिकर्मणि सप्तम्यन्तं, क्तः प्रथमान्तं, कर्तरि सप्तम्यन्तं, च अव्ययम् | '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अस्मिन् सूत्रे '''च''' इत्यनेन '''लः कर्मणि च भावे चाकर्मकेभ्यः''' (३.४.६९) इत्यस्मात् सूत्रात् '''कर्मणि, भावे''' इत्यनयोः ग्रहणम् | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परः क्त प्रत्ययः कर्तरि, कर्मणि, भावे च आदिकर्मणि |'''
 
'''यथा''' - १. कर्तरि - रामः गृहाभ्यासं प्रकृतः |  इत्युक्ते रामः गृहाभ्यासकार्यम् आरब्धवान् | इदानिं प्रवर्तते | अग्रे अपि प्रवर्तिष्यते |
 
२. कर्मणि - रामेण गृहाभ्यासः प्रकृतः |   इत्युक्ते रामेण गृहाभ्यासकार्यम् आरब्धम् | इदानिं प्रवर्तते | अग्रे अपि प्रवर्तिष्यते |
 
३. भावे - रामेण प्रकृतम् | इत्युक्ते रामेण किञ्चन कार्यम् आरब्धम् | इदानिं प्रवर्तते | अग्रे अपि प्रवर्तिष्यते |
 
'''अन्यदुदाहरणम्''' - '''''ज्वलिते अग्नौ जुहोति |''''' - ज्वल् धातोः क्त-प्रत्ययान्तरूपम् - '''ज्वलित''' | पुंसि , सप्तम्येकवचने - ज्वलिते | अग्नेः ज्वलनम् आरब्धम् , इदानीमपि ज्वलति , अग्रे अपि ज्वलिष्यति | तस्मिन् अग्नौ एव केनापि यज्ञः क्रियते , न तु भस्मीभूते अग्नौ | अतः अस्मिन् वाक्ये क्तान्तरूपम् आदिकर्मणि न तु भूते |
 
 
'''६.आ.   केभ्यश्चन धातुभ्यः परः विहितः क्त-प्रत्ययः कर्तरि अपि स्यात् |'''
 
'''गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यश्च''' (३.४.७२) = एभ्यः धातुभ्यः क्तः कर्तरि भावकर्मणोः च स्याद् | गतिरर्थः येषां ते गत्यर्थाः, बहुव्रीहिः | न विद्यते कर्म येषां ते अकर्मकाः, बहुव्रीहिः | गत्यर्थाश्च अकर्मकाश्च श्लिषश्च शीङ् च स्थाश्च आसश्च वसश्च जनश्च रुहश्च जीर्यतिश्च तेषाम् इतरेतरयोगद्वन्द्वः गत्यर्थाऽकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतयः तेभ्यः इतरेतरयोगद्वन्द्वः गत्यर्थाऽकर्मकश्लीषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः पञ्चम्यन्तं, च अव्ययम् | '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | '''आदिकर्मणि क्तः कर्तरि च''' (३.४.७१) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः | चकारात् '''लः कर्मणि च भावे चाकर्मकेभ्यः''' (३.४.६९) इत्यस्मात् '''कर्मणि, भावे''' इत्यनयोः ग्रहणम् | अनुवृत्ति-सहितसूत्रम्‌— '''गत्यर्थाऽकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः''' '''धातुभ्यः परः क्त प्रत्ययः कर्तरि, कर्मणि, भावे च''' | उपसर्गपूर्वकाः श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतयः सकर्मकाः अतः ते सूत्रे उक्ताः |
 
'''यथा''' -  १.  '''गम्ऌँ''' (भ्वादिः, गतौ) — २. '''हसेँ''' (भ्वादिः, हसने) — ३. '''शीङ्''' (अदादिः, स्वप्ने)'''<sup>*</sup>''' — ४. '''रुहँ''' (भ्वादिः, बीजजन्मनि प्रादुर्भावे च) —
 
'''कर्तरि''' - गोविन्दः नगरं गतः | बालः हसितः | हरिः शेषम् अधिशयितः | कृष्णः रथम् आरूढः |
 
'''कर्मणि''' - गोविन्देन नगरं गतम् | हरिणा शेषः अधिशयितः | कृष्णेन रथम् आरूढ्म् |
 
'''भावे''' - गोविन्देन गतम् | बालेन हसितम् | हरिणा अधिशयितम् | कृष्णेन आरूढ्म् |
 
'''<sup>*</sup>''' '''अधिशीङ्स्थाऽऽसां कर्म''' (१.४.४६) = अधिपूर्वाणाम् शीङ्-स्था-आस इत्येषां धातूनाम् आधारः कर्मसंज्ञकः स्यात् | शीङ् च स्थाश्च आस च तेषाम् इतरेतरयोगद्वन्द्वः शीङ्स्थाऽऽसः | अधेः शीङ्स्थाऽऽसः अधिशीङ्स्थाऽऽसः , इतरेतरयोगद्वन्द्वगर्भ-पञ्चमीतत्पुरुषः | तेषाम् अधिशीङ्स्थाऽऽसां षष्ठीबहुनचनान्तं, कर्म प्रथमान्तम् | '''कारके''' (१.४.२३) इत्यस्य अधिकारः |  '''आधारोऽधिकरणम्''' (१.४.४५) इत्यस्मात् '''आधारः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अधिशीङ्स्थाऽऽसां आधारे कारके कर्म''' |
 
'''यथा''' -  १. '''शीङ्''' (अदादिः, स्वप्ने) — २. '''ष्ठा''' (भ्वादिः, गतिनिवृत्तौ) — ३.  '''आसँ''' (अदादिः, उपवेशने) —
 
'''अधिकरणसंज्ञा''' हरिः वैकुण्ठे शेते | हरिः वैकुण्ठे तिष्ठति | हरिः वैकुण्ठे आस्ते |
 
'''कर्मसंज्ञा''' हरिः वैकुण्ठम् अधिशेते | हरिः वैकुण्ठम् अधितिष्ठति | हरिः वैकुण्ठम् अध्यास्ते |
teachers
426

edits