16 - क्त-प्रत्ययः
१. क्त प्रत्ययः निष्ठा संज्ञकः |
क्तक्तवतू निष्ठा (१.१.२६) = क्त-प्रत्ययः, क्तवतु-प्रत्ययश्च निष्ठा-संज्ञकौ भवतः | क्तश्च क्तवतुश्च तयोरितरेतरयोगद्वन्द्वः क्तक्तवतू | क्तक्तवतू प्रथमान्तं, निष्ठा प्रथमान्तं, द्विपदमिदं सूत्रम् , सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहित-सूत्रम्— क्तक्तवतू निष्ठा (१.१.२६) |
२. अयं कृत् संज्ञकः |
कृदतिङ् (३.१.९३) = धातोः परः विहितः तिङ् भिन्नः प्रत्ययः कृत् संज्ञकः स्यात् | क्त प्रत्ययः तिङ्-भिन्न-प्रत्ययः , अपि च धातोः परः विहितः | अतः अयं कृत् संज्ञकः | तिङ् न, अतिङ् नञ्तत्पुरुषः | अतिङ् प्रथमान्तं , कृत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अस्मिन् सूत्रे प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः परः अतिङ् प्रत्ययः कृत् |
३. क्त प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् |
निष्ठा (३.२.१०२) = निष्ठा-संज्ञक-प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् | अनेन सूत्रेण क्त क्तवतु च प्रत्यय-संज्ञकौ स्तः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | भूते (३.२.८४) इत्यस्यापि अधिकारः, अतः क्त क्तवतु प्रत्ययौ धातोः परः भूतकालार्थे भवतः | अनुवृत्ति-सहित-सूत्रम्— धातोः परः निष्ठा प्रत्ययः भूते |
यथा -
१. मात्रा बालकाय भोजनं दत्तम् |
२. बालकेन संस्कृतस्य गृहाभ्यासः कृतः |
३. रामेण पाठशाला गता |
४. क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |
तयोरेव कृत्यक्तखलर्थाः (३.४.७०) = कृत्य-प्रत्ययाः, क्त प्रत्ययः, खल्-प्रत्ययः भावे कर्मणि च प्रयुक्ताः भवन्ति | खलः अर्थः खलर्थः, षष्ठीतत्पुरुषः | कृत्याश्च क्ताश्च खलर्थाश्च तेषामितरेतरद्वन्द्वः कृत्यक्तखलर्थाः | तयोः सप्तम्यन्तम् , एव अव्ययपदं , कृत्यक्तखलर्थाः प्रथमान्तं , त्रिपदमिदं सूत्रम् | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अस्मिन् सूत्रे तयोः इत्यनेन लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यस्मात् सूत्रात् कर्मणि, भावे अकर्मकेभ्यः इत्यनयोः ग्रहणम् | अनुवृत्ति-सहित-सूत्रम्— धातोः परः कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि , (अकर्मकेभ्यः धातुभ्यः) भावे |
यथा -
१. कर्मणि प्रयोगे - मात्रा बालकाय भोजनं दत्तम् |
२. भावे प्रयोगे - शिशुना रुदितम् |
५. क्त-प्रत्ययान्तरूपस्य प्रातिपदिकसंज्ञा स्यात् |
कृत्तद्धितसमासाश्च (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) इत्यस्मात् अर्थवत्, प्रातिपदिकम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |
आहत्य कृदन्त रूपाणि त्रिषु लिङे्गषु , त्रिषु वचनेषु , सप्तसु विभक्तिषु च भवन्ति |
यथा -
लिङ्गम् / वचनम् | एकवचनम् | द्विवचनम् | बहुवचनम् |
पुंलिङ्गे | पठितः | पठितौ | पठिताः |
स्त्रीलिङ्गे | पठिता | पठिते | पठिताः |
नपुंसकलिङ्गे | पठितम् | पठिते | पठितानि |
पुंलिङ्गे
विभक्तिः / वचनम् | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | पठितः | पठितौ | पठिताः |
द्वतीया | पठितम् | पठितौ | पठितान् |
तृतीया | पठितेन | पठिताभ्याम् | पठितैः |
चतुर्थी | पठिताय | पठिताभ्याम् | पठितेभ्यः |
पञ्चमी | पठितात् | पठिताभ्याम् | पठितेभ्यः |
षष्ठी | पठितस्य | पठितयोः | पठितानाम् |
सप्तमी | पठिते | पठितयोः | पठितेषु |