page_and_link_managers, Administrators
5,258
edits
No edit summary |
No edit summary |
||
Line 430:
<big>स्मर्तव्यं यत् '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रस्य अर्थः कौमुदीकारस्य
Line 463:
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययलुप्तेऽपि तदाश्रितकार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्''' |</big>
<big>यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम् | इतोऽपि स्पष्टीकरणार्थम् उच्यते, '''यत्र हि''' '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्''' | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात्, तत्रैव प्रत्ययलक्षणं भवतु, यथा '''राजा''' | राजन् + सु → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन स्-लोपः → '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन सुप्-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन पदान्त-नकारस्य लोपो जायते |</big>
<big>यथा '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन यत् आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वंम्, आदेशस्य ङित्त्वम् इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम् | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति | आत्मनेपदत्व-निमित्ताभावात् '''शेषात्कर्तरि परस्मैपदम्''' (१.३.७८) इत्यनेन परस्मैपदम् |</big>
|