05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 106:
 
 
<big>'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''आयनेयीनीयियः फढखछघांफढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |</big>
 
 
Line 112:
 
 
<big>अत्र प्रश्नः उदेति यत्‌ अस्मिन्‌ सूत्रे ''''नित्यं'''<nowiki/>' किमर्थम्‌ उक्तम्‌ ? उत्तरम् अस्ति अस्माकम्‌ अष्टाध्यायी-सूत्रपाठे | पुस्तके पश्यतु-- इदं सूत्रं ३.४.९९ किल; तस्मात्‌ पूर्वं ३.४.९६-तमे सूत्रे प्रथमं पदम्‌ अस्ति 'वा' ['''वैतःऽन्यत्रवैतोऽन्यत्र''' = वा ऐतः अन्यत्र] | वा नाम विकल्पेन; अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना | अतः वा-शब्दः अनयोः सूत्रयोः (३.४.९७, ३.४.९८) आगत्य उपविशति | अधुना अस्माकं सूत्रम्‌ अस्ति ३.४.९९; अस्मिन्‌ सूत्रे यः सकारलोपः विहितः, सः वैकल्पिकः नास्ति | अतः 'वा' इति अनुवृत्तिं स्थगयितुं, "नित्य"-शब्दः अत्र प्रयुक्तः | नाम केवलम्‌ "अत्र कार्यं वैकल्पिकं नास्ति" इति सूचयितुं, नित्यम्‌ इत्यस्य प्रयोगः कृतः |</big>
 
 
Line 189:
 
 
<big>'''अतो येयः''' (७.२.८०)* = अदन्तात्‌ अङ्गात्‌ सार्वधातुकप्रत्ययस्य यास्‌-आगमस्य या इत्यस्य स्थाने इय्‌-आदेशो भवति | तदन्तविधिः— '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन अदन्तात्‌ अङ्गात्‌ | अतः पञ्चम्यन्तं, या लुप्तषष्ठीकं पदम्‌, इयः प्रथमान्तं (इय्‌ + अकारः उच्चारणार्थः), त्रिपदमिदं सूत्रम्‌ | '''रुधाधिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, '''अङ्गात्‌''') | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने)''' '''इयः''' |</big>
 
 
Line 201:
 
 
<big>इदमपि वाच्यं यत्‌ बहुकालात्‌ वैयाकरणानां विवादः प्रवर्तते अस्मिन्‌ विषये | केचन वदन्ति यत्‌ 'यः' एव यास्‌ इत्यस्य षष्ठीविभक्त्यन्तं रूपम्— यथा द्वितीयविभक्तौ बहुवचने विश्वपा + शस्‌ → विश्वपा + अस्‌ → '''आतो धातोः''' (६.४.१४०) इत्यनेन आ-लोपः → विश्वप्‌ + अस्‌ → विश्वपः इति रीत्या पदस्य आ-लोपः भवति | एवं चेत्‌ तर्हि यास्‌ + इयः → यः + इयः → विसर्गसन्धिः → य + इयः | साधारणतया अत्र गुणसन्धिः '''आद्गुणः''' (६.१.८७) न भवति यतोहि विसर्गसन्धिः असिद्धः भवति '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन | परन्तु अस्मिन्‌ पक्षे ते वैयाकरणाः वदन्ति यत्‌ अत्र "गुणसन्धिः भवति" | पुनः अन्ये वैयाकरणाः वदन्ति यत्‌ सूत्रं स्वयम्‌ '<nowiki/>'''अतो यासियः'''<nowiki/>' इत्यस्ति न तु ''''अतो येयः'''<nowiki/>' | अत्र 'यासियः' इति षष्ठी तत्पुरुषसमासः |</big>
 
 
Line 427:
 
 
<big>'''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) = सार्वधातुकलिङः अनन्त्यस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः; तस्य अनन्त्यस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनन्त्यस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''रुधाधिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः, विभक्तिपरिणामं कृत्वा '''सार्वधातुकस्य''' | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, '''अङ्गात्‌''') | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात्‌ सार्वधातुकस्य लिङ्ःलिङः अनन्त्यस्य स'''-'''लोपः''' |</big>
 
 
Line 564:
<big>'''४. एरुः''' (३.४.८६) = '''लोटः लस्य एः उः''' | इकारस्य स्थाने उकारः | अतः लोटि एव प्रसक्तिः |</big>
 
<big>परस्मैपदे-- तिपतिप्, झि, सिप्‌, मिप्‌ | तिपि झौ च कार्यं भवति | बाधितम्‌-- सिपि '''सेर्ह्यपिच्च''' (३.४.८७) इति अपवादः, मिपि '''मेर्निः''' (३.४.८९) इति अपवादः |</big>
 
<big>आत्मनेपदे-- वहि, महिङ्‌ | उभयत्र बाधितम्‌-- '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन | कुतः ? द्वयोः अपि अन्यत्रलब्धावकाशः अस्ति अतः अपवादः नास्ति | अपि च '''टित आत्मनेपदानां टेरे''' पूर्वसूत्रम्‌ अतः '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन तस्य बलं न सिध्यति | तर्हि कारणं किम्‌ ? नित्यम्‌ | अत्र '''टित आत्मनेपदानां टेरे''' इति नित्यं सूत्रम्‌; '''एरुः''' तथा न | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | नित्य-विषये इतोऽपि सूचना [https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam अत्र] प्राप्यते |</big>
page_and_link_managers, Administrators
5,162

edits