17 - अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/10---prashnAH-uttarANi-ca/17---anvayavyatirekAbhyAM-paNDIbhAva-kAraNasya-snehasya-jalamAtravrttitvam
Jump to navigation Jump to search

ध्वनिमुद्रणम्‌ -

१) nimittakAraNatsya-punaH-parishiilanam_2018-05-26  


विद्याधर्यामस्ति पृ०स० ११६ इत्यस्मिन्‌—'सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता | स च स्नेहः जलमात्रवृत्तिः | नान्यस्य कस्यचित्‌ द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते | घृततैलादिसंयोगे सति तथाविध इव अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः |'


यथा जलादौ गन्धप्रतीतिर्जायते | किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति ? पृथिवीसम्बन्धसत्त्वे | पृथिवीसम्बन्धसत्त्वे एव जलादौ गन्धप्रतीतिसत्त्वम्‌ | पृथिवीसम्बन्धाभावे च गन्धप्रतीत्यभावः | इदम्‌ अन्वयव्यतिरेकम्‌ | अन्वयव्यतिरेकाभ्यां जले गन्धस्य प्रतीतिः अस्ति | अनेन 'अयं गन्धः प्रथिव्याः एव' इति कथनसामर्थ्यम्‌ उत्पद्यते— अनेन च ज्ञायते जले गन्धो नास्ति | जले पृथिवी न दृश्यते, किन्तु जले गन्धः अस्ति चेत्‌ तस्मिन्‌ जले पृथिव्याः भागः अस्ति इति मन्तव्यम्‌ |


प्रकृतविषये यदा चिन्तनं क्रियते तदा सर्वप्रथमं स्नेहः जले एव इति साध्यते | 'स्नेहः जले एव अस्ति, अन्यत्र स्नेहः नास्ति' इति | किन्तु तैलादौ अपि पिण्डीभावजनकत्वम्‌ अस्ति | पिण्डीभावश्च स्नेहं विना न सम्भवति | अनेन तैले जलांशः अस्ति इति सिध्यति | तैलादौ यः स्नेहः वर्तते सः तु जलस्य एव |


पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिध्यति | स्नेहः अस्ति चेत्‌, जलांशः अस्ति इति सिध्यति | यतोहि स्नेहः जलस्य एव गुणः | अतः क्रमः एवं— स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाध्य → पिण्डीभावः कस्मिंश्चित्‌ पिष्टे अनुभूतः → पिण्डीभावस्य कारणं स्नेहः अतः स्नेहः अपि अत्र भवेत्‌ → स्नेहः जले एव अतः अत्र जलम्‌ अपि भवेत्‌ | अधुना पिष्टेन सह तैलस्य संयोजनेन पिण्डीभावो जायते | अनेन अत्र स्नेहो वर्तते | तैलं तु पृथिवी अस्ति, प्रथिव्यां च स्नेहः न सम्भवति इत्यस्मात्‌ तैले विद्यमानः स्नेहः जलस्यैव, तैले च जलभागोऽपि अस्ति इति पर्यवसितम्‌ |


अत्र विद्याधर्यां लिखितमस्ति यत्‌— घृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः | अस्य च अर्थः कः इति परिशीलनीयः | यदि अस्य अर्थः अस्ति यत्‌ 'घृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानः → तथापि घृतादौ विद्यमानेन जलांशेनैव → अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌ अवधारयामः'— इति तादृशः अर्थः अस्ति चेत्‌, तर्कः प्रायः सम्यक्तया न प्रवर्तते | पुनः कथञ्चित्‌ भिन्नरीत्या पठामश्चेत्‌ कार्यं तर्कम्‌ अनुसृत्य भवति; तच्च इदम्— अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌, अतः घृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः* | प्रश्नः अत्र अयं यत्‌ मूलवाक्ये 'अवधारयामः' इति क्रियापदस्य अन्वयः केन सह, 'जलांशेनैव इति' अथवा 'जलमात्रवृत्तित्वम्‌' |


Swarup – May 2018


*'तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌, अतः घृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः' इति अन्यः विकल्पः |


*अनेन परिवर्तनेन चेति सङ्गच्छते— घृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वेन तत्कारणस्य स्नेहस्य अवधारयामः |

17 - अन्वयव्यतिरेकाभ्यां ... य जलमात्रवृत्तित्वम्‌.pdf