आपाय / आपीय

From Samskrita Vyakaranam
Jump to navigation Jump to search

विषयः—  आपाय/आपीय


प्रश्नः

"सः जलम् आपाय रोटिकां खादति" इति प्रयोगः उत "सः जलम् आपीय रोटिकां खादति" इति प्रयोगः साधुः ?


उत्तरम्‌

भ्वादिगणीयस्य पा-धातोः आपाय इति ल्यबन्तरूपम् | दिवादिगणीयस्य पीङ्-धातोः आपीय इति ल्यबन्तरूपम् |

आपाय-आपीययोः मध्ये अर्थकृद्भेदः न | एकः भ्वादिगणीयः पा पाने अपरः दिवादिगणीयः पीङ् पाने | अतः उभौ प्रयोगौ साधू स्तः |


आङ्-उपसर्गपूर्वकस्य भ्वादिगणस्थस्य पा-धातोः क्त्वाप्रत्यये परे क्त्वास्थाने ल्यप्-आदेशः "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इति सूत्रेण |

ल्यपि परे इत्साज्ञानां लोपानन्तरं आ + पा + य |

"घुमास्थागापाजहातिसां हलि" इति सूत्रेण पाधातोः आकारस्य ईकारादेशः भवति स्म | यथा कर्मणि प्रयोगे पीयते |

किन्तु "न ल्यपि" इति सूत्रात् ईकारादेशस्य निषेधः | तेन आपाय इत्येव भवति भ्वादिगणीयस्य पा-धातोः न तु आपीय इति  |


अपरः एकः धातुः अस्ति दिवादिगणे | दिवादिगणस्थस्य पानार्थक-पीङ्-धातोः ल्यबन्तरूपम् आपीय इत्येव भवति | अत्र ईकारः धातौ एव | ईकारस्य आदेशः नास्ति|अपरः एकः धातुः अस्ति दिवादिगणे | दिवादिगणस्थस्य पानार्थक-पीङ्-धातोः ल्यबन्तरूपम् आपीय इत्येव भवति | अत्र ईकारः धातौ एव | ईकारस्य आदेशः नास्ति|