06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 65:
{| class="wikitable"
|+
!|<big>सु</big>
|<big>औ</big>
!औ
!|<big>जस्‌</big>
!
|-
|<big>अम्‌</big>
|<big>औट्‌</big>
|<big>शस्‌</big>
|
|
|-
|<big>टा</big>
|
|<big>भ्याम्‌</big>
|
| <big>भिस्‌</big>
|
|
|-
|<big>ङे</big>
|
|<big>भ्याम्‌</big>
|
| <big>भ्यस्‌</big>
|
|-
|<big>ङसि</big>
|<big>भ्याम्‌</big>
|<big>भ्यस्‌</big>
|-
|<big>ङस्‌</big>
|<big>ओस्‌</big>
|<big>आम्‌</big>
|-
|<big>ङि</big>
|<big>ओस्‌</big>
|<big>सुप्‌</big>
|}
 
 
<big>अधुना प्रातिपदिकसंज्ञा कथं कुत्र सिद्धा इति अग्रे अवलोकयाम | प्रातिपदिक-विधायक-सूत्रद्वयम्‌ अस्ति, परिभाषा च एका |</big>
 
 
<big>प्रातिपदिकविधायकसूत्रे द्वे</big>
 
 
<big>'''१. अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— '''अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌''' |</big>
 
 
<big>अस्मिन्‌ सूत्रे वस्तुतः '''अप्रत्यय'''-पदस्य द्विवारम्‌ आवृत्तिः | '''अप्रत्ययः अप्रत्ययः''' | प्रथमवारं "प्रत्ययः न स्यात्‌" इत्यर्थः | द्वितीयवारं "प्रत्ययान्तं न स्यात्‌" इत्यर्थः | तत्र '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; अनेन अप्रत्ययान्तम्‌ इत्यर्थः निष्पन्नः | (अत्र '''संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति''' (परिभाषा #२७) इत्यनया परिभाषया तदन्तविधि-प्रतिषेधः न भवति यतोहि प्रत्यय-विशेषस्य (सुप्‌, तिङ्‌, कृत्‌, इत्यादीनां) संज्ञा इति प्रसङ्गो नास्ति | अनया परिभाषया संज्ञासूत्रेण यदा प्रत्ययनामकरणं भवति तदा सा संज्ञा केवलं प्रत्ययस्य न त तदन्तस्य |)</big>
 
 
<big>अनेन सूत्रेण संस्कृतभाषायां यत्‌ किमपि शब्दस्वरूपम्‌ अर्थवत्‌ अस्ति— परन्तु धातुभिन्नं, प्रत्ययभिन्नं, प्रत्ययान्तभिन्नं च— तत्‌ प्रातिपदिकम्‌ | यत्र व्युत्पत्ति-प्रक्रिया नास्ति— यत्र प्रकृति-प्रत्ययः सम्बन्धो नास्ति अतः "प्रत्ययान्तं" नास्ति— तत्र अनेन सूत्रेण प्रातिपदिकसंज्ञा | यत्र व्युत्पत्ति-प्रक्रिया अस्ति— प्रकृतिः अस्ति यस्याः प्रत्ययः विहितः— तत्र अग्रिमेण सूत्रेण प्रातिपदिकसंज्ञा ('''कृत्तद्धितसमासाश्च''') | अतः अत्र मार्गद्वयम्‌ अस्ति— अव्युत्पन्नशब्दानां, व्युत्पन्नशब्दानाञ्च |</big>
 
 
<big>'''२. कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यस्मात्‌ '''अर्थवत्‌''', '''प्रातिपदिकम्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |</big>
 
 
<big>अनेन सूत्रेण—</big>
 
<big>१) धातुतः कृत्‌-प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (कृदन्तम्‌) |</big>
 
<big>२) धातुभिन्न-प्रकृतितः प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (तद्धितान्तम्‌) |</big>
 
<big>३) पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकम्‌ (समासः) |</big>
 
 
<big>धेयं यत्‌ यद्यपि अस्मिन्‌ सूत्रे "कृत्‌" “तद्धित" इत्युक्तम्‌, तथापि कृत्‌-प्रत्ययः तद्धित-प्रत्ययः इर्यर्थो न अपि तु येषां रूपाणाम्‌ अन्ते इमे प्रत्ययाः सन्ति | वैयाकरणैः उक्तं यत्‌ '''अर्थवत्‌''' इत्यस्य अनुवृत्तिः अस्ति— कृत्‌-प्रत्ययाः तद्धित-प्रत्ययाः स्वयं नार्थवन्तः; यदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम्‌ अर्थवत्‌ अतः अस्मिन्‌ सूत्रे कृत्‌ इत्युक्ते कृदन्तम्‌, अपि च तद्धित इत्युत्क्ते तद्धितान्तम्‌ |</big>
 
 
<big>इदम्‌ अपि धेयं यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' इति सूत्रेण प्रत्ययान्तस्य प्रातिपदिकसंज्ञा निषिध्यते | तदा '''कृत्तद्धितसमासाश्च''' इति सूत्रेण उक्तं यत्‌ कृदन्तानि तद्धितान्तानि च प्रातिपदिकसंज्ञकानि | अतः प्रथमं सूत्रं सामान्यसूत्रं, द्वितीयसूत्रं विशेषसूत्रम्‌ | द्वितीयं च प्रथमस्य अपवादः |</big>
 
 
<big>अन्ततः '''कृत्तद्धितसमासाश्च''' इति सूत्रेण समासः प्रातिपदिकसंज्ञकः | परन्तु समासः अर्थवान्‌, अधातुः, अप्रत्ययः, अप्रत्ययान्तः— अतः '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' इति सूत्रेण प्रातिपदिकसंज्ञा प्राप्यते | तर्हि "समासः" इति किमर्थम्‌ उक्तम्‌ '''कृत्तद्धितसमासाश्च''' इति सूत्रे ? आवश्यकता का ? उत्तरम्‌ अस्ति, अनेन एकाधिक-शब्दस्वरूपैः अर्थपूर्णरूपं भवति चेत्‌, समासः एव स्यात्‌ न तु वाक्यम्‌ | नो चेत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' इति सूत्रेण "रामः आपणं गच्छति" इत्यस्यापि प्रातिपदिकसंज्ञा भवति स्म | अतः "समासः" इत्यस्य कथनेन नियमयति— restriction क्रियते |</big>
 
 
<big>पुंसि नपुंसके च प्रकृति-प्रत्यययोः संयोजनेन यत्‌ शब्दस्वरूपं निष्पन्नं, तस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' इति सूत्रेण | अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति, तस्यापि प्रातिपदिकसंज्ञा अनेन सूत्रेण | यथा महिला-शब्दः मूलतः स्त्रियाम्‌ एव अपि च व्युत्पन्नशब्दः अतः अनेन सूत्रेण प्रातिपदिकसंज्ञा | परन्तु छात्रा-शब्दः मूल-पुंलिङ्ग-छात्रशब्दात्‌ आगतः, अतः अनेन सूत्रेण न | व्युत्पन्न-छात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण; तदा स्त्री-प्रत्ययस्य संयोजनेन छात्रा भवति | छात्रा-शब्दस्य प्रातिपदिकसंज्ञा अधः स्थित-परिभाषया भवति |</big>
653

edits